अथापि ‘अथ यदतः परो दिवो ज्योतिरि’ति प्रपञ्चातिरिक्तब्रह्माभ्युपगमे देवताविग्रहवत्त्वन्यायसम्भवात् मोक्षकामस्य ब्रह्मोपासनं विधीयते, तथा च श्रुतिः ‘विद्यया तदारोहन्ती’ति, न च साध्यत्वेऽप्यन्तवत्त्वम् ; शब्दगम्यत्वादनावृत्तेः ‘न च पुनरावर्तते’ (छा. उ. ८-५-१) इति । न ह्येष तर्कगम्यः, येन तर्केणास्य तत्त्वं व्यवस्थाप्येत, शब्दगम्यस्य तु शब्दादेव तत्त्वव्यवस्थेति मन्वानस्योत्तरमाह भाष्यकारः —
न कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादिति ॥
वस्तुसङ्ग्रहवाक्यमेतत् ।
अस्यैव प्रपञ्चः
अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्येतदन्तं भाष्यम् ॥
अस्याममर्थः — सङ्क्षेपतः श्रुतितो न्यायतश्च मोक्षस्य नित्यसिद्धत्वप्रतीतेर्न क्रियासाध्यो मोक्ष इति । कथम् ? यदि सन्ध्योपासनवन्मानसं ब्रह्मकर्मकमुपासनं नाम धर्मो मोक्षफलः स्वर्गादिफलयागवद्विधीयते, तथा सति शरीरवतैव तत्फलं भोक्तव्यम् इति ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छा. उ. ८-१२-१) इत्यशरीरमोक्षानुवादो योग्यप्रियाप्रियस्पर्शनाभावानुवादश्च निरालम्बनौ स्याताम् । न चाशरीरत्वमेव धर्मकार्यम् ; स्वाभाविकत्वात्तस्य । तेनानुष्ठेयविलक्षणं मोक्षाख्यमशरीरत्वं स्वभावसिद्धं नित्यमिति सिद्धम् ॥
तथापि कथञ्चित्परिणामि नित्यं स्यात् , स्यादपि कदाचिद्धर्मकार्यम् । इदन्तु कूटस्थनित्यं ब्रह्म जिज्ञास्यत्वेन प्रक्रान्तं, यत्स्वरूपावगमो जीवस्य मोक्षोऽभिप्रेयते । तत्र यदि हस्तगतविस्मृतसुवर्णादिवद् भ्रान्तिमात्रव्यवहितं मोक्षं प्रत्याख्याय, ब्रह्मविषयध्यानक्रियातो देवताविषययागादिवत्प्रीतिविशेषो भोग्यो मोक्षः कल्प्येत, ततस्तेष्वेव तारतम्यावस्थितेषु यागफलेष्वयमपि तथाभूतः स्यात् । ततः ‘तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इति लिङ्गदर्शनोपबृंहितन्यायावगतानित्यत्वो मोक्षः प्रसज्येत ।
न च तथाभ्युपगमो मोक्षवादिनाम् ।
अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्त इत्युपसंहारः ॥
यत्पुनः ‘न च पुनरावर्तते’ (छा. उ. ८-५-१) इति शास्त्रावगतं नित्यत्वं न तर्केणापनेतुं युक्तमिति, तदयुक्तम् ; वर्तमानापदेशत्वेन तथाभावे प्रमाणापेक्षणात् । न च कार्यस्य नित्यत्वे प्रमाणमस्ति ; परमाणूनां पाकजो गुणो नित्यत्वे नोदाहरणम् ; प्रक्रियामात्रसिद्धत्वात् । किं च तेषामिह न पुनरावृत्तिः ; ‘इमं मानवमावर्तं नावर्तन्ते’ इति श्रुतिरिहेममिति विशेषणादस्मिन् कल्पेऽनावृत्तिं दर्शयति, नानवधिकामनावृत्तिम् । अपि च अभ्युपेत्य ब्रह्मणः क्रियानुप्रवेशं मोक्षस्यानित्यत्वदोष उक्तः, न तु क्रियानुप्रवेशं क्षमते वेदान्तवाक्यगतः पदसमन्वयः । तथा च ‘ब्रह्म वेद ब्रह्मैव भवती’त्याद्याः श्रुतयो ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति ; वेदनब्रह्मभवनयोरेककालत्वनिर्देशात् । अतो न विदितस्य क्रियायां विनियोगः । तथा ‘तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे’ (बृ. उ. १-४-१०) इति ब्रह्मदर्शन सर्वात्मभावयोरेककालत्वनिर्देशाद् मध्ये क्रियान्तरं वारयति पश्यन्निति शतृप्रत्ययः ; ‘लक्षणहेत्वोः क्रियायाः’ इति क्रियाया हेतुभूताद्धातोः शतृप्रत्ययस्मरणात् , क्रियायाश्चाव्यवहिते हेतुमति हेतुत्वात् । यथा ‘तिष्ठन् गायती’ति तिष्ठतिगायत्योर्मध्ये क्रियान्तराभावः प्रतीयते, तद्वत् । अत्र न स्थितिक्रियासामर्थ्यादेव गीतिक्रियानिर्वृत्तिः, अपि तु प्रयत्नान्तरात् । शब्दतो न तयोर्मध्ये क्रियान्तरप्रतीतिरित्येतावतोदाहरणम् । इह पुनर्न सर्वात्मभावस्य ब्रह्मदर्शनातिरेकेण प्रयत्नान्तरापेक्षा विद्यते ॥
किं च ‘तस्मै मृदितकषायाय तमसः पारं दर्शयती’त्याद्याः श्रुतयस्तमसो मिथ्याज्ञानस्य मोक्षव्यवधायिनोऽपनयनमात्रं दर्शयन्ति, न मोक्षं क्रियासाध्यम् । इतश्चैतदेवम् , अन्येऽपि न्यायविदो मिथ्याज्ञानापाये तदनन्तरं दुःखाभावं निर्वाणं दर्शयन्ति मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति, न क्रियातः । कथं गम्यते ? ‘इन्द्रो मायाभिः पुरुरूप ईयते’ (बृ. उ. २-५-१९) इति मिथ्यैव भेदावभासः, तस्य प्रतिपक्षादभेदावभासादपनय इति गम्यते ॥
अथापि स्यान्नैकत्वविज्ञानं यथावस्थितवस्तुविषयं, येन मिथ्यारूपं भेदावभासं निवर्तयेत् , अपि तु सम्पदादिरूपम् ; विधितः पुरुषेच्छया कर्तव्यमिति । सम्पन्नामाल्पमपि वस्त्वालम्बनीकृत्य केनचित्सामान्येन दर्शनमात्रान्महद्वस्तुसम्पादनम् । ततश्च तत्फलावाप्तिः, फलस्यैव वा सम्पादनं ; यथा मनसो वृत्त्यनन्तत्वसामान्येनानन्तविश्वदेवसम्पादनं कृत्वाऽनन्तलोकजयः । एवं जीवस्य चिद्रूपसामान्येन ब्रह्मरूपसम्पादनं कृत्वा ब्रह्मफलमवाप्यत इति । अध्यासस्वब्रह्मणि मन आदित्यादौ ब्रह्मदृष्ट्योपासनं, जीवस्यापि ब्रह्मदृष्ट्योपासनम् । सम्पाद्य आलम्बनमविद्यमानसमं कृत्वा सम्पाद्यमानस्यैव प्राधान्येन मनसाऽनुचिन्तनम् , अध्यासे त्वालम्बनस्यैव प्राधान्येनानुचिन्तनं, क्रियायोगो वायोरग्न्यादीनां सम्हरणात्संवर्गगुणत्वेनोपासनम् । एवं जीवस्य स्वगतेन बृंहत्यर्थयोगेन ब्रह्मेत्युपासनम् । कार्यान्तरेण गुणभूतस्य ब्रह्मदृष्टिः संस्कार आज्यस्येवावेक्षणम् ॥ अत्रोत्तरम् —
सम्पदादिरूपे हीत्यादि ॥
तथा सति तत्त्वमस्यादिवाक्यानां निरुपचरितब्रह्मात्मैकत्वावगमपरः पदसमन्वयो विना कारणेन स्वेच्छामात्रेण सम्पदादिपरः परिकल्प्येत । तदवगमनिमित्तं च मिथ्याज्ञानापायपूर्विका विस्मृतहस्तगतसुवर्णावाप्तिवद्ब्रह्मावाप्तिः फलमनुभवारूढमपह्नूयेत । ‘नेह नानास्ति किञ्चने’ति च भेदाभावश्रुतिरुपरुद्ध्येत । तस्मान्न सम्पदादिवत्पुरुषव्यापारतन्त्रा ब्रह्मविद्या, किन्तु प्रत्यक्षादिजनितज्ञानवदपरामृष्टहानोपादानवस्तुस्वरूपमात्रनिष्ठेत्यभ्युपगन्तव्यम् ॥ तत्रेवं सति कथं ब्रह्म प्रतिपत्युत्तरकालं कर्मकारकतां नीयेत ? तत्तज्ज्ञानं वा तदधिगमफलपर्यन्तं सद् विधिविषयो भवेत् ? अतो मिथ्यैव भेदावभासः । तस्य प्रतिपक्षादभेदावभासादपनयः । तस्माद् मिथ्याज्ञाननिवृत्तिमात्रं मोक्ष इति श्रुतिन्यायाभ्यां सिद्धम् ॥
ननु विधिक्रियाकर्म तावद्भवति ब्रह्म, ततः क्रियासम्बन्धे सम्भाविते भवति विधेरवसर इत्याशङ्क्याह —
न च विधिक्रियाकर्मत्वेनेत्यादि ॥
आह सोऽयं शान्तिकर्मणि वेतालोदयः ब्रह्मणः क्रियानुप्रवेशं निराकर्तुं ज्ञानक्रियाया अपि विषयत्वं निराकुर्वता तत एव शास्त्रयोनित्वमपि निराकृतमेव, तदाह —
अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेदिति ॥
अत्रोत्तरं —
नाविद्याकल्पितेत्यादि ॥
शास्त्रं हि सोऽयमित्यादिलौकिकवाक्यवद् ब्रह्मणि प्रमाणम् । तथाहि सोऽयमिति देशकालभेधोपाधिप्रविलयेनाभेदोऽवगम्यते । तथा त्वम्पदार्थोऽप्यात्मानमहंरूपं मन्यमानस्तत्त्वमसिवाक्यात्तत्पदार्थैकतामुपगच्छन् सोऽयमितिवदहमात्मकेदमंशोपाधिकृतवेद्यवेदितवेदनात्मकप्रपञ्चेनार्थात्प्रलीयमानेनावच्छिद्यविच्छिद्यमानानिदम्प्रकाशः प्रमाणफलं दर्शितः । तदप्यवच्छेदकविनाशे तदैव विजहन्निर्विशेषतामापद्यते । तेन प्रमाणादिचतुष्टयस्य युगपत्प्रलयेऽपि तदवच्छेदानुभवफलं वाक्यनिबन्धनम् । अतो वेदैकगोचरो निर्वाणमिति वेदविदः प्रतिपेदिरे । तथा चैवंविधस्य प्रमाणव्यापारस्य प्रकाशकामन्त्रब्राह्मणवादा भाष्ये दर्शिताः । एवं च नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषः ।
यस्य तूत्पाद्यो मोक्ष इत्यादिना तस्माद् ज्ञानमेकं मुक्त्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यते इत्यन्तेन भाष्येण
अविद्यानिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणं मोक्षं विहाय क्रियानुप्रवेशं कल्पयतोऽपि न तस्य तत्र सम्भव इति दर्शितम् । कथम् ? यदि तावदुत्पाद्यो विकार्यो वा मोक्षः ? तदा यद्यपि क्रियानुप्रवेशो युक्तः ; तथापि मोक्षस्य ध्रुवमनित्यत्वमित्युक्तं ‘न कर्मब्रह्मविद्याफलयोर्वैलक्षण्यादि’त्यादि भाष्येण । अथानित्यत्वपरिहाराय स्थितस्यैवाऽऽप्यत्वमुच्यते, तदपि न ; आत्मस्वरूपस्य क्रियापूर्वकाप्यत्वानुपपत्तेः ।
व्यतिरेकेऽपि सर्वगतत्वेन नित्यप्राप्तत्वदाकाशेनेव न क्रियापेक्षा प्राप्तिः । अथ विकारावर्तिनोऽपि ‘अथ यदतः परो दिवो ज्योतिर्दीप्यते’ (छा. उ. ३-१३-७) इति श्रूयमाणस्य प्राप्तये क्रियापेक्षेति, न ; विकारदेशेऽपि ब्रह्मणो विकारसंस्पर्शाभावादविशेषात् । अथ विकारावर्त्येव ब्रह्म न विकारदेशेऽस्ति, तेन तत्प्राप्तये क्रियापेक्षेति, सा तर्हि तत्प्राप्तिरात्मनस्तादात्म्यापत्तिः ? उत स्वेनैव रूपेण तत्रावस्थानम् ? यदि पूर्वकल्पः, तदा स्वरूपनाशः । अथ द्वितीयः, संयोगस्य विप्रयोगावसानत्वात् पुनरावृत्तिः । न चापुनरावृत्तिश्रुतिर्वर्तमानापदेशिनी ; तथाभावे प्रमाणान्तरमपेक्षमाणा स्वयं प्रमाणीभवति । संस्कार्यत्वमपि न सम्भवति ; गुणदोषयोराधेयापनेययोस्तत्रासम्भवात् । अथ विद्यमानस्याभिव्यक्तिरादर्शस्येव निघर्षणेन, तच्च न ; आत्मनः क्रियारहितत्वात् । अन्याश्रयायास्तु न विषयः ; प्रत्यग्रूपत्वात् ।
ननु ईश्वराभिध्यानान्मलापगमो भविष्यति दीपप्रभयेव घटावगुण्ठनेन तमोऽपनयः, उच्यते — किमसौ मलः परमार्थः सन् ? उताविद्यात्मकः । यदि परमार्थः सन् , न तर्हि स्वाश्रयविकारमन्तरेणापसारयितुं शक्यः । न हि विकार आत्मनः सम्भवति ; अविकारित्वश्रुतेः । अथाविद्यात्मकः, न तर्ह्यविद्यावद्गतेन सम्यग्ज्ञानेन विना तस्यापनयः ; लोके तथा दृष्टत्वात् , अन्यथा चादृष्टत्वात् । न च स्नानादिक्रिययेव संस्कार्यत्वसम्भवः ; अहङ्कर्तुरिदमंशस्यैव तत्र संस्कार्यत्वात् ।
तस्मान्न संस्कार्योऽपि मोक्षः
इत्युपसंहरति । अथापि त्वन्यदपि क्रियाफलमस्ति, तद्द्वारेण मोक्षस्य क्रियानुप्रवेशः स्यादित्याशङ्क्याह —
अतोऽन्यन्मोक्षं प्रतीत्यादि ॥
न हि दृष्टमदृष्टं वा क्रियाफलमुत्पत्त्यादिचतुष्टयातिरिक्तं शक्यं केनचिद् दर्शयितुम् । तस्माज्ज्ञानस्यैव मोक्षो गोचरः, न क्रियायाः ॥
ननु ज्ञानस्यापि न गोचरो ब्रह्मेत्युक्तं
‘न च विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः’ इति
वदता । सत्यं कर्मत्वं ज्ञानं प्रति निषिद्धम् ; न पुनरनुपयोग एवैकान्ततो ज्ञानस्याभिहितः ।
तथा च तत्रैवोपयोगप्रकारो दर्शितः —
अविद्यापरिकल्पितभेदनिवृत्तिपरत्वादित्यादिना भाष्येण ।
मा तर्हि वोचः क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यत इति,
ननु ज्ञानं मानसी क्रिया, न वैलक्षण्यादित्युत्तरम् ।
कथं वैलक्षण्यम् ? अजन्यफलत्वात् , उक्तमजन्यफलत्वमहङ्कारटीकायाम् । इदमपरं वैलक्षण्यं — ज्ञानं न चोदनाजन्यं, वस्तुजन्यं हि तत् । वस्तु च ज्ञानात्प्रागेव स्वरूपे व्यवस्थितम् । अतस्तत्तन्त्रं ज्ञानम् । न तद् ज्ञानेनान्यथा कर्तुं शक्यम् । अथापि स्यात् भवेत्प्रत्यक्षं वस्तुजन्यम् , अनुमानादिषु कथम् ? तत्रापि लिङ्गादिपरतन्त्रम् , न चोदनायास्तत्रानुप्रवेशः । किं च न चोदनाजन्यं ज्ञानमेकान्ततो वस्तुपरिच्छेदकम् ; योषादिष्वग्न्यादिदृष्टिविधानदर्शनात् । अतो वस्तुविषयस्य ज्ञानस्य क्रियात्वेऽपि न चोदनाजन्यत्वं, न वा पुरुषतन्त्रत्वम् , अपि तु प्रमाणवस्तुपरतन्त्रत्वम् , एवं सम्यग्ज्ञानत्वोपपत्तेरग्नाविवाग्निज्ञानस्य । एवं सति ब्रह्मात्मैकत्वविज्ञानस्यापि यथाभूतवस्तुविषयत्वान्न चोदनाजन्यत्वम् । अतो न विधेरत्रावकाशः ॥
अतः श्रूयमाणा अपि विधयः केवलप्रमाणवस्तुपरतन्त्रे ज्ञानेऽकिञ्चित्करत्वात् कुण्ठीभवन्ति । अतोऽर्थवादतयाऽऽत्मज्ञानस्तावकत्वेन तदुन्मुखीकरणात् सामर्थ्यसिद्धबहिर्मुखतानिरोधाच्च विधिकार्यलेशस्य विद्यमानत्वाद्विधय इव लक्ष्यन्ते ॥
तथा च श्रवणं नाम आत्मावगतये वेदान्तवाक्यविचारः, शारीरकश्रवणं च । मननं वस्तुनिष्ठवाक्यापेक्षितदुन्दुभ्यादिदृष्टान्तजन्मस्थितिलयवाचारम्भणत्वादियुक्तार्थवादानुसन्धानं, वाक्यार्थाविरोध्यनुमानानुसन्धानं च । निदिध्यासनं मननोपबृंहितवाक्यार्थविषये स्थिरीभावः, विधेयस्योपासनापर्यायस्य निष्फलत्वात् । दर्शनम् अतो वाक्यार्थे स्थैर्यान्निरस्तसमस्तप्रपञ्चावभासविज्ञानघनैकतानुभवः । कः पुनरत्रार्थवादः ? इदमत्र प्रस्तुतं — क्रियाकारकफलात्मकात् संसाराद्विरक्तायै मैत्रेय्यै मुमुक्षवे मोक्षसाधनमात्मज्ञानं प्रतिपिपादयिषन् ‘न वा अरे पत्युः कामाय पतिः प्रियो भवती’ति पत्यादेरीप्सितत्वं प्रतिषिध्यात्मन ईप्सिततमत्वमाह । ननु नैवात्मन ईप्सिततमत्वमुच्यते, किन्तु पत्यादीनामेवात्मार्थतयेप्सितत्वमुच्यते — ‘आत्मनस्तु कामाय पतिः प्रियो भवती’ति, मैवम् ; न हि तस्मिन्ननिष्टे तदर्थमिष्टं भवति । तस्मादनेनोपायेनात्मन एवेप्सितत्वमुक्तम् । ईप्सितश्चेत् , ‘द्रष्टव्यः श्रोतव्यः’ इत्येषोऽर्थवादः । एतच्च सर्वं प्रथमसूत्रेणैव सूत्रितं, विवृतं च भाष्ये ॥
अपि च नैवायं विधौ कृत्यः, किं तर्हि ? ‘अर्हे कृत्यतृचश्चे’त्यर्हे कृत्यः । एतेन (छा. उ. ८-१२-१)‘आत्मेत्येवोपासीत’ (बृ. उ. १-४-१५) ‘आत्मानमेव लोकमुपासीते’त्येवमादीनि विधिच्छायानि वाक्यानि व्याख्यातानि वेदितव्यानि ॥
अतो हानोपादानशून्यात्मावगमादेव कृतकृत्यता प्रतीयते श्रुतिस्मृतिवादानां च तथा प्रस्थितत्वात् ।
तस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणमित्युपसंहरति ॥
तस्यायमर्थः — न प्रमाणात्मकेनेतरेण वा ज्ञानव्यापारेण विधीयमानत्वेन कल्पितेन संस्पर्शो ब्रह्मण इति ॥