ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनः अविषयत्वं ब्रवीषिउच्यते तावयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः चामस्ति नियमःपुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमितिअप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्तिएवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः
कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थित एव विषये विषयान्तरमध्यस्यति; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनः अविषयत्वं ब्रवीषिउच्यते तावयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात् अपरोक्षत्वाच्च प्रत्यगात्मप्रसिद्धेः चामस्ति नियमःपुरोऽवस्थित एव विषये विषयान्तरमध्यसितव्यमितिअप्रत्यक्षेऽपि ह्याकाशे बालाः तलमलिनतादि अध्यस्यन्तिएवमविरुद्धः प्रत्यगात्मन्यपि अनात्माध्यासः

भवत्वध्यासः शुक्त्यादौ, आत्मनि तु न सम्भवतीत्याक्षिपति -

कथं पुनरिति ।

यत्रापरोक्षाध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयुक्तत्वं विषयत्वं चेति व्याप्तिः शुक्त्यादौ दृष्टा । तत्र व्यापकाभावादात्मनोऽधिष्ठानत्वं न सम्भवतीत्यभिप्रेत्याह -

प्रत्यगात्मनीति ।

प्रतीचि पूर्ण इन्द्रियाग्राह्ये विषयस्याहङ्कारादेस्तद्धर्माणां चाध्यासः कथमित्यर्थः ।

उक्तव्याप्तिमाह -

सर्वो हीति ।

पुरोऽवस्थितत्वमिन्द्रियसंयुक्तत्वम् ।

नन्वात्मनोऽप्यधिष्ठानत्वार्थं विषयत्वादिकमस्त्वित्यत आह -

युष्मदिति ।

इदंप्रत्ययानर्हस्य प्रत्यगात्मनो ‘न चक्षुषा गृह्यते’ इत्यादि श्रुतिमनुसृत्य त्वमविषयत्वं ब्रवीषि । संप्रत्यध्यासलोभेन विषयत्वाङ्गीकारे श्रुतिसिद्धान्तयोर्बाधः स्यादित्यर्थः ।

आत्मन्यध्याससम्भावनां प्रतिजानीते -

उच्यत इति ।

अधिष्ठानारोप्ययोरेकस्मिन् ज्ञाने भासमानत्वमात्रमध्यासव्यापकम् , तच्च भानप्रयुक्तसंशयनिवृत्त्यादिफलभाक्त्वम् , तदेव भानभिन्नत्वघटितं विषयत्त्वम् , तन्न व्यापकम् , गौरवादिति मत्वाह -

न तावदिति ।

अयमात्मा नियमेनाविषयो न भवति ।

तत्र हेतुमाह -

अस्मदिति ।

अस्मप्रत्ययोऽहमित्यध्यासस्तत्र भासमानत्वादित्यर्थः । अस्मदर्थचिदात्मा प्रतिबिम्बितत्वेन यत्र प्रतीयते सोऽस्मत्प्रत्ययोऽहङ्कारस्तत्र भासमानत्वादिति वार्थः । न चाध्यासे सति भासमानत्वं तस्मिन्सति स इति परस्पराश्रय इति वाच्यम् , अनादित्वात् , पूर्वाभ्यासे भासमानात्मन उत्तराध्यासाधिष्ठानत्वसम्भवात् ॥

नन्वहमित्यहङ्कारविषयकभानरूपस्यात्मनो भासमानत्वं कथम् , तद्विषयत्वं विना तत्फलभाक्त्वायोगादित्यत आह -

अपरोक्षत्वाच्चेति ।

चशब्दः शङ्कानिरासार्थः । स्वप्रकाशत्वादित्यर्थः ।

स्वप्रकाशत्वं साधयति -

प्रत्यगिति ।

आबालपण्डितमात्मनः संशयादिशून्यत्वेन प्रसिद्धेः स्वप्रकाशत्वमित्यर्थः । अतः स्वप्रकाशत्वेन भासमानत्वादात्मनोऽध्यासाधिष्ठानत्वं सम्भवतीति भावः ।

यदुक्तमपरोक्षाध्यासाधिष्ठानत्वस्येन्द्रियसंयुक्ततया ग्राह्यत्वं व्यापकमिति तत्राह -

न चायमिति ।

तत्र हेतुमाह -

अप्रत्यक्षेऽपीति ।

इन्द्रियाग्राह्येऽपीत्यर्थः । बाला अविवेकिनः तलमिन्द्रनीलकटाहकल्पं नभो मलिनं पीतमित्येवमपरोक्षमध्यस्यन्ति, तत्रेन्द्रियग्राह्यत्वं नास्तीति व्यभिचारान्न व्याप्तिः । एतेनात्मानात्मनोः सादृश्याभावान्नाध्यास इत्यपास्तम् , नीलनभसोस्तदभावेऽप्यध्यासदर्शनात् । सिद्धान्ते आलोकाकारचाक्षुषवृत्त्यभिव्यक्तसाक्षिवेद्यत्वं नभसि इति ज्ञेयम् ।

सम्भावनां निगमयति -

एवमिति ।