ननु ब्रह्मज्ञाननाश्यत्वेन सूत्रितामविद्यां हित्वा अध्यासः किमिति वर्ण्यत इत्यत आह -
तमेतमिति ।
आक्षिप्तं समाहितमुक्तलक्षणलक्षितमध्यासमविद्याकार्यत्वादविद्येति मन्यन्त इत्यर्थः ।
विद्यानिवर्त्यत्वाच्चास्याविद्यात्वमित्याह -
तद्विवेकेनेति ।
अध्यस्तनिषेधेनाधिष्ठानस्वरूपनिर्धारणं विद्यामध्यासनिवर्तिकामाहुरित्यर्थः ।
तथापि कारणाविद्यां त्यक्त्वा कार्याविद्या किमिति वर्ण्यते तत्राह -
तत्रेति ।
तस्मिन्नध्यासे उक्तन्यायेनाविद्यात्मके सतीत्यर्थः । मूलाविद्यायाः सषुप्तावनर्थत्वादर्शनात्कार्यात्मना तस्या अनर्थत्वज्ञापनार्थं तद्वर्णनमिति भावः । अध्यस्तकृतगुणदोषाभ्यामधिष्ठानं न लिप्यत इत्यक्षरार्थः ।
एवमध्यासस्य लक्षणसम्भावने उक्त्वा प्रमाणमाह -
तमेतमिति ।
तं वर्णितमेतं साक्षिप्रत्यक्षसिद्धं पुरस्कृत्य हेतुं कृत्वा लौकिकः कर्मशास्त्रीयो मोक्षशास्त्रीयश्चेति त्रिविधो व्यवहारः प्रवर्तत इत्यर्थः |
तत्र विधिनिषेधपराणि कर्मशास्त्राण्यृग्वेदादीनि, विधिनिषेधशून्यप्रत्यग्ब्रह्मपराणि मोक्षशास्त्राणि वेदान्तवाक्यानीति विभागः । एवं व्यवहारहेतुत्वेनाध्यासे प्रत्यक्षसिद्धेऽपि प्रमाणान्तरं पृच्छति -
कथं पुनरिति ।
अविद्यावानहमित्यध्यासवानात्मा प्रमाता स विषय आश्रयो येषां तानि अविद्यावद्विषयाणीति विग्रहः । तत्तत्प्रमेयव्यवहारहेतुभूतायाः प्रमाया अध्यासात्मकप्रमात्राश्रितत्वात्प्रमाणानामविद्यावद्विषयत्वं यद्यपि प्रत्यक्षं तथापि पुनरपि कथं केन प्रमाणेनाविद्यावद्विषयत्वमिति योजना । यद्वाऽविद्यावद्विषयाणि कथं प्रमाणानि स्युः, आश्रयदोषादप्रामाण्यापत्तेरित्याक्षेपः ।
तत्र प्रमाणप्रश्ने व्यवहारार्थापत्तिम् , तल्लिङ्गानुमानं चाह -
उच्यते इत्यादिना तस्मादित्यन्तेन ।
देवदत्तकर्तृको व्यवहारः, तदीयदेहादिष्वहंममाध्यासमूलः, तदन्वयव्यतिरेकानुसारित्वात् , यदित्थं तत्तथा, यथा मृन्मूलो घट इति प्रयोगः ।
तत्र व्यतिरेकं दर्शयति -
देहेति ।
देवदत्तस्य सुषुप्तावध्यासाभावे व्यवहाराभावो दृष्टः, जाग्रत्स्वप्नयोरध्यासे सति व्यवहार इत्यन्वयः स्फुटत्वान्नोक्तः । अनेन लिङ्गेन कारणतयाध्यासः सिध्यति, व्यवहाररूपकार्यानुपपत्त्या वेति भावः ।
ननु मनुष्यत्वादिजातिमति देहेऽहमित्याभिमानमात्राद्व्यवहारः सिध्यतु किमिन्द्रियादिषु ममाभिमानेनेत्याशङ्क्याह -
नहीति ।
इन्द्रियपदं लिङ्गादेरप्युपलक्षणम् , प्रत्यक्षादीत्यादिपदप्रयोगात् । तथा च प्रत्यक्षलिङ्गादिप्रयुक्तो यो व्यवहारो द्रष्टा अनुमाता श्रोताहमित्यादिरूपः स इन्द्रियादीनि ममतास्पदान्यगृहीत्वा न सम्भवतीत्यर्थः । यद्वा तानि ममत्वेनानुपादाय यो व्यवहारः स नेति योजना । पूर्वत्रानुपादानासम्भवक्रिययोरेको व्यवहारः कर्ता इति क्त्वाप्रत्ययः साधुः । उत्तरत्रानुपादानव्यवहारयोरेकात्मकर्तृकत्वात् , तत्साधुत्वमिति भेदः । इन्द्रियादिषु ममेत्यध्यासाभावेऽन्धादेरिव द्रष्टृत्वादिव्यवहारो न स्यादिति भावः ।
इन्द्रियाध्यासेनैव व्यवहारादलं देहाध्यासेनेत्यत आह -
न चेति ।
इन्द्रियाणामधिष्ठानमाश्रयः । शरीरमित्यर्थः ।
नन्वस्त्वात्मना संयुक्तं शरीरं तेषामाश्रयः किमध्यासेनेत्यत्राह -
न चानध्यस्तात्मभावेनेति ।
अनध्यस्त आत्मभावः आत्मतादात्म्यं यस्मिन् तेनेत्यर्थः । ‘असङ्गो हि’ इति श्रुतेः, आध्यासिक एव देहात्मनोः सम्बन्धो न संयोगादिरिति भावः ।
नन्वात्मनो देहादिभिराध्यासिकसम्बन्धोऽपि मास्तु, स्वतश्चेतनतया प्रमातृत्वोपपत्तेः । न च सुषुप्तौ प्रमातृत्वापत्तिः करणोपरमादिति तत्राह -
न चैतस्मिन्निति ।
प्रमाश्रयत्वं हि प्रमातृत्वम् । प्रमा यदि नित्यचिन्मात्रं तर्ह्याश्रयत्वायोगः करणवैयर्थ्यं च । यदि वृत्तिमात्रम् , जगदान्ध्यप्रसङ्गः, वृत्तेर्जडत्वात् । अतो वृत्तीद्धो बोधः प्रमा, तदाश्रयत्वमसङ्गस्यात्मनो वृत्तिमन्मनस्तादात्म्याध्यासं विना न सम्भवतीति भावः । देहाध्यासे, तद्धर्माध्यासे चासतीत्यक्षरार्थः ।
तर्ह्यात्मनः प्रमातृत्वं मास्तु इति वदन्तं प्रत्याह -
न चेति ।
तस्मादात्मनः प्रमातृत्वादिव्यवहारार्थमध्यासोऽङ्गीकर्तव्य इत्यनुमानार्थापत्त्योः फलमुपसंहरति -
तस्मादिति ।
प्रमाणसत्त्वादित्यर्थः ।
यद्वा प्रमाणप्रश्नं समाधायाक्षेपं परिहरति -
तस्मादिति ।
अहमित्यध्यासस्य प्रमात्रन्तर्गतत्वेनादोषत्वात् , अविद्यावदाश्रयाण्यपि प्रमाणान्येवेति योजना । सति प्रमातरि पश्चाद्भवन् दोष इत्युच्यते, यथा काचादिः । अविद्या तु प्रमात्रन्तर्गतत्वान्न दोषः, येन प्रत्यक्षादीनामप्रामाण्यं भवेदिति भावः ।
ननु यदुक्तमन्वयव्यतिरेकाभ्यां व्यवहारोऽध्यासकार्य इति, तदयुक्तं विदुषामध्यासाभावेऽपि व्यवहारदृष्टेरित्यत आह -
पश्वादिभिश्चेति ।
चशब्दः शङ्कानिरासार्थः, किं विद्वत्त्वं ब्रह्मास्मीति साक्षात्कारः उत यौक्तिकमात्मानात्मभेदज्ञानम् । आद्ये बाधिताध्यासानुवृत्त्या व्यवहार इति समन्वयसूत्रे वक्ष्यते । द्वितीये परोक्षज्ञानस्यापरोक्षभ्रान्त्यनिवर्तकत्वात् , विवेकिनामपि व्यवहारकाले पश्वादिभिरविशेषात् अध्यासवत्त्वेन तुल्यत्वाद्व्यवहारोऽध्यासकार्य इति युक्तमित्यर्थः । अत्रायं प्रयोगः विवेकिनोऽध्यासवन्तः, व्यवहारवत्त्वात् , पश्वादिवदिति ।
तत्र सङ्ग्रहवाक्यं व्याकुर्वन् दृष्टान्ते हेतुं स्फुटयति -
यथाहीति ।
विज्ञानस्यानुकूलत्वं प्रतिकूलत्वं चेष्टानिष्ठसाधनगोचरत्वम् , तदेवोदाहरति -
यथेति ।
अयं दण्डो मदनिष्टसाधनम् , दण्डत्वात् , अनुभूतदण्डवत् , इदं तृणमिष्टसाधनम् अनुभूतजातीयत्वात् , अनुभूततृणवदित्यनुमाय व्यवहारन्तीत्यर्थः ।
अधुना हेतोः पक्षधर्मतामाह -
एवमिति ।
व्युत्पन्नचित्ता अपीत्यन्वयः । विवेकिनोऽपीत्यर्थः ।
फलितमाह -
अत इति ।
अनुभवबलादित्यर्थः ।
समान इति ।
अध्यासकार्यत्वेन तुल्येत्यर्थः ।
नन्वस्माकं प्रवृत्तिरध्यासादिति न पश्वादयो ब्रुवन्ति, नापि परेषामेतत्प्रत्यक्षम् , अतः साध्यविकलो दृष्टान्त इति नेत्याह -
पश्वादीनां चेति ।
तेषामात्मानात्मनोर्ज्ञानमात्रमस्ति न विवेकः, उपदेशाभावात् । अतः सामग्रीसत्त्वादध्यासस्तेषां प्रसिद्ध इत्यर्थः ।
निगमयति -
तत्सामान्येति ।
तैः पश्वादिभिः सामान्यं व्यवहारवत्त्वं तस्य दर्शनाद्विवेकिनामप्ययं व्यवहारः समान इति निश्चीयत इति सम्बन्धः । समानत्वं व्यवहारस्याध्यासकार्यत्वेनेत्युक्तं पुरस्तात् ।
तत्रोक्तान्वयव्यतिरेकौ स्मारयति -
तत्काल इति ।
तस्याध्यासस्य काल एव कालो यस्य स तत्कालः । यदा अध्यासस्तदा व्यवहारः, तदभावे सुषुप्तौ तदभाव इत्युक्तान्वयादिमानिति यावत् । अतो व्यवहारलिङ्गाद्विवेकिनामपि देहादिष्वहंममाभिमानोऽस्तीत्यनवद्यम् ।
ननु लौकिकव्यवहारस्याध्यासिकत्वेऽपि ज्योतिष्टोमादिव्यवहारस्य नाध्यासजन्यत्वम् , तस्य देहातिरिक्तात्मज्ञानपूर्वकत्वादित्याशङ्क्य हेतुमङ्गीकरोति -
शास्त्रीये त्विति ।
तर्हि कथं वैदिककर्मणोऽध्यासजन्यत्वसिद्धिरित्याशङ्क्य किं तत्र देहान्यात्मधीमात्रमपेक्षितमुत, आत्मतत्त्वज्ञानम् , आद्ये तस्याध्यासाबाधकत्वात्तत्सिद्धिरित्याह -
तथापीति ।
न द्वितीय इत्याह -
न वेदान्तेति ।
क्षुत्पिपासादिग्रस्तो जातिविशेषवानहं संसारीति ज्ञानं कर्मण्यपेक्षितं न तद्विपरीतात्मतत्त्वज्ञानम् , अनुपयोगात्प्रवृत्तिबाधाच्चेत्यर्थः ।
शास्त्रीयकर्मणोऽध्यासजन्यत्वं निगमयति -
प्राक्चेति ।
अध्यासे आगमं प्रमाणयति -
तथा हीति ।
यथा प्रत्यक्षानुमानार्थापत्तयोऽध्यासे प्रमाणं तथागमोऽपीत्यर्थः । ‘ब्राह्मणो यजेत’, ‘न ह वै स्नात्वा भिक्षेत’, ‘अष्टवर्षं ब्राह्मणमुपनयीत’, ‘कृष्णकेशोऽग्नीनादधीत’ इत्यागमो ब्राह्मणादिपदैरधिकारिणं वर्णाद्यभिमानिनमनुवदन्नध्यासं गमयतीति भावः ।
एवमध्यासे प्रमाणसिद्धेऽपि कस्य कुत्राध्यास इति जिज्ञासायां तमुदाहर्तुं लक्षणं स्मारयति -
अध्यासो नामेति ।
उदाहरति -
तद्यथेति ।
तल्लक्षणं यथा स्पष्टं भवति तथोदाह्रियत इत्यर्थः । स्वदेहाद्भेदेन प्रत्यक्षाः पुत्रादयो बाह्याः तद्धर्मान्साकल्यादीन्देहविशिष्टात्मन्यध्यस्यति, तद्धर्मज्ञानात्स्वस्मिन्स्तत्तुल्यधर्मानध्यस्यतीत्यर्थः । भेदापरोक्षज्ञाने तद्धर्माध्यासायोगात् , अन्यथाख्यात्यनङ्गीकाराच्चेति द्रष्टव्यम् ।
देहेन्द्रियधर्मान्मनोविशिष्टात्मन्यध्यस्यतीत्याह -
तथेति ।
कृशत्वादिधर्मवतो देहादेरात्मनि तादात्म्येन कल्पितत्वात्तद्धर्माः साक्षादात्मन्यध्यस्ता इति मन्तव्यम् ।
अज्ञातप्रत्यग्रूपे साक्षिणि मनोधर्माध्यासमाह -
तथान्तःकरणेति ।
धर्माध्यासमुक्त्वा तद्वदेव धर्म्यध्यासमाह -
एवमिति ।
अन्तःकरणं साक्षिण्यभेदेनाध्यस्य तद्धर्मान् कामादीनध्यस्यतीति मन्तव्यम् । स्वप्रचारा मनोवृत्तयः । प्रति - प्रातिलोम्येनासज्जडदुःखात्मकाहङ्कारादिविलक्षणतया सच्चित्सुखात्मकत्वेनाञ्चति प्रकाशत इति प्रत्यक् ।
एवमात्मन्यनात्मतद्धर्माध्यासमुदाहृत्यानात्मन्यात्मनोऽपि संसृष्टत्वेनाध्यासमाह -
तञ्चेति ।
अहमित्यध्यासे चिदात्मनो भानं वाच्यम् , अन्यथा जगदान्ध्यापत्तेः । न चानध्यस्तस्याध्यासे भानमस्ति । तस्माद्रजतादाविदम् इवात्मनः संसर्गाध्यास एष्टव्यः ।
तद्विपर्ययेणेति ।
तस्याध्यस्तस्य जडस्य विपर्ययोऽधिष्ठानत्वम् , चैतन्यं च तदात्मना स्थितमिति यावत् । तत्राज्ञाने केवलात्मना संसर्गः, मनस्यज्ञानोपहितस्य देहादौ मन उपहितस्येति विशेषः । एवमात्मनि बुद्ध्याद्यध्यासात्कर्तृत्वादिलाभः, बुद्ध्यादौ चात्माध्यासाच्चैतन्यलाभ इति भावः ।
वर्णिताध्यासमुपसंहरति -
एवमयमिति ।
अनाद्यविद्यात्मकतया कार्याध्यासस्यानादित्वमध्यासात्संस्कारस्ततोऽध्यास इति । प्रवाहतो नैसर्गिकत्वम् । एवमुपादानं निमित्तं चोक्तं भवति । ज्ञानं विना ध्वंसाभावादानन्त्यम् । तदुक्तं भगवद्गीतासु ‘न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा’ इति ।
हेतुमुक्त्वा स्वरूपमाह -
मिथ्येति ।
मिथ्या माया तया प्रतीयत इति प्रत्ययः कार्यप्रपञ्चः तत्प्रतीतिश्चेत्येवंस्वरूप इत्यर्थः ।
तस्य कार्यमाह -
कर्तृत्वेति ।
प्रमाणं निगमयति -
सर्वेति ।
साक्षिप्रत्यक्षमेवाध्यासधर्मिग्राहकं मानम् , अनुमानादिकं तु सम्भावानार्थमित्यभिप्रेत्य प्रत्यक्षोपसंहारः कृतः ।
एवमध्यासं वर्णयित्वा तत्साध्ये विषयप्रयोजने दर्शयति -
अस्येति ।
कर्तृत्वाद्यनर्थहेतोरध्यासस्य समूलस्यात्यन्तिकनाशो मोक्षः स केनेत्यत आह -
आत्मेति ।
ब्रह्मात्मैक्यसाक्षात्कारस्य प्रतिपत्तिः श्रवणादिभिरप्रतिबन्धेन लाभस्तस्या इत्यर्थः ।
विद्यायां कारणमाह -
सर्व इति ।
आरभ्यन्ते अधीत्य विचार्यन्ते इत्यर्थः । विचारितवेदान्तानां ब्रह्मात्मैक्यं विषयः, मोक्षः फलमित्युक्तं भवति । अर्थात्तद्विचारात्मकशास्त्रस्यापि ते एव विषयप्रयोजने इति ज्ञेयम् ।
ननु वेदान्तेषु प्राणाद्युपास्तीनां भानादात्मैक्यमेव तेषामर्थ इति कथमित्यत आह -
यथा चेति ।
शरीरमेव शरीरकम् , कुत्सितत्वात् , तन्निवासी शारीरको जीवस्तस्य ब्रह्मत्वविचारो मीमांसा तस्यामित्यर्थः । उपास्तीनां चित्तैकाग्र्यद्वारात्मैक्यज्ञानार्थत्वात्तद्वाक्यानामपि महातात्पर्यमैक्ये इति वक्ष्यते । एवमध्यासोक्त्या ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनवत्वाच्छास्त्रमारम्भणीयमिति दर्शितम् ॥
विचारस्य साक्षाद्विषया वेदान्ताः, तेषां गतार्थत्वागतार्थत्वाभ्यामारम्भसन्देहे कृत्स्नस्य वेदस्य विधिपरत्वात् , विधेश्च ‘अथातो धर्मजिज्ञासा’ इत्यादिना पूर्वतन्त्रेण विचारितत्वात् , अवगतार्था एव वेदान्ता इत्यव्यवहितविषयाभावान्नारम्भ इति प्राप्ते ब्रूते -
वेदान्तेति ।
वेदान्तविषयकपूजितविचारात्मकशास्त्रस्य व्याख्यातुमिष्टस्य सूत्रसन्दर्भस्येदं प्रथमसूत्रमित्यर्थः । यदि विधिरेव वेदार्थः स्यात्तदा सर्वज्ञो बादरायणो ब्रह्मजिज्ञासां न ब्रूयात् , ब्रह्मणि मानाभावात् । अतो ब्रह्मणो जिज्ञास्यत्वोक्त्या केनापि तन्त्रेणानवगतब्रह्मपरवेदान्तविचार आरम्भणीय इति सूत्रकृद्दर्शयति । तच्च ‘व्याचिख्यासितस्य’ इति पदेन भाष्यकारो बभाषे ॥