ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
तत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते; नाधिकारार्थः, ब्रह्मजिज्ञासाया अनधिकार्यत्वात्मङ्गलस्य वाक्यार्थे समन्वयाभावात्अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवतिपूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात्सति आनन्तर्यार्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम्स्वाध्यायानन्तर्यं तु समानम्नन्वि कर्मावबोधानन्तर्यं विशेषः; ; धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेःयथा हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वात् , तथेह क्रमो विवक्षितःशेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावात्धर्मब्रह्मजिज्ञासयोः फलजिज्ञास्यभेदाच्चअभ्युदयफलं धर्मज्ञानम् , च्चानुष्ठानापेक्षम्; निःश्रेयसफलं तु ब्रह्मविज्ञानम् , चानुष्ठानान्तरापेक्षम्भव्यश्च धर्मो जिज्ञास्यो ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात्इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम्चोदनाप्रवृत्तिभेदाच्चया हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयतिब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम्अवबोधस्य चोदनाजन्यत्वात् , पुरुषोऽवबोधे नियुज्यतेयथा अक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत्तस्मात्किमपि वक्तव्यम् , यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इतिउच्यतेनित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं तेषु हि सत्सु, प्रागपि धर्मजिज्ञासाया ऊर्ध्वं , शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं ; विपर्ययेतस्मात् अथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यते
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
तत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते; नाधिकारार्थः, ब्रह्मजिज्ञासाया अनधिकार्यत्वात्मङ्गलस्य वाक्यार्थे समन्वयाभावात्अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवतिपूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात्सति आनन्तर्यार्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम्स्वाध्यायानन्तर्यं तु समानम्नन्वि कर्मावबोधानन्तर्यं विशेषः; ; धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेःयथा हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वात् , तथेह क्रमो विवक्षितःशेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावात्धर्मब्रह्मजिज्ञासयोः फलजिज्ञास्यभेदाच्चअभ्युदयफलं धर्मज्ञानम् , च्चानुष्ठानापेक्षम्; निःश्रेयसफलं तु ब्रह्मविज्ञानम् , चानुष्ठानान्तरापेक्षम्भव्यश्च धर्मो जिज्ञास्यो ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात्इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम्चोदनाप्रवृत्तिभेदाच्चया हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयतिब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम्अवबोधस्य चोदनाजन्यत्वात् , पुरुषोऽवबोधे नियुज्यतेयथा अक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत्तस्मात्किमपि वक्तव्यम् , यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इतिउच्यतेनित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं तेषु हि सत्सु, प्रागपि धर्मजिज्ञासाया ऊर्ध्वं , शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं ; विपर्ययेतस्मात् अथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यते
तत्राथशब्द इति ; नाधिकारार्थ इति ; मङ्गलस्येति ; अर्थान्तरेति ; पूर्वेति ; सति चेति ; स्वाध्यायेति ; नन्विति ; नेत्यादिना ; यथेति ; शेषेति ; फलेति ; अभ्युदयेति ; तच्चेति ; निश्रेयसेति ; न चेति ; भव्यश्चेति ; नेति ; पुरुषेति ; इह त्विति ; नित्येति ; नेति ; चोदनेति ; या हीति ; न पुरुष इति ; अवबोधस्येति ; यथेति ; तस्मादिति ; उपदिश्यते ; उच्यत इति ; तेष्विति ; तस्मादिति ; तत्राथशब्द इति ; नाधिकारार्थ इति ; मङ्गलस्येति ; अर्थान्तरेति ; पूर्वेति ; सति चेति ; स्वाध्यायेति ; नन्विति ; नेत्यादिना ; यथेति ; शेषेति ; फलेति ; अभ्युदयेति ; तच्चेति ; निश्रेयसेति ; न चेति ; भव्यश्चेति ; नेति ; पुरुषेति ; इह त्विति ; नित्येति ; नेति ; चोदनेति ; या हीति ; न पुरुष इति ; अवबोधस्येति ; यथेति ; तस्मादिति ; उपदिश्यते ; उच्यत इति ; तेष्विति ; तस्मादिति ;

एवं वर्णकद्वयेन वेदान्तविचारस्य कर्तव्यतायां विषयप्रयोजनवत्त्वमगतार्थत्वं चेति हेतुद्वयं सूत्रस्यार्थिकार्थं व्याख्यायाक्षरव्याख्यामारभमाणः पुनरप्यधिकारिभावाभावाभ्यां शास्त्रारम्भसन्देहे सति अथशब्दस्यानन्तर्यार्थकत्वोक्त्या अधिकारिणं साधयति -

तत्राथशब्द इति ।

सूत्र इत्यर्थः ।

‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ’ इत्यथशब्दस्य बहवोऽर्थाः सन्ति । तत्र ‘अथ योगानुशासनम्’ इत्यत्र सूत्रे यथा अथशब्द आरम्भार्थकः योगशास्त्रमारभ्यत इति तद्वदत्र किं न स्यादित्यत आह -

नाधिकारार्थ इति ।

अयमाशयः - किं जिज्ञासापदं ज्ञानेच्छापरमुत विचारलक्षकम् ? आद्येऽथशब्दस्यारम्भार्थत्वे ब्रह्मज्ञानेच्छारभ्यत इति सूत्रार्थः स्यात्स चासङ्गतः, तस्या अनारभ्यत्वात् । न हि प्रत्यधिकरणमिच्छा क्रियते किन्तु तया विचारः । न द्वितीयः, कर्तव्यपदाध्याहारं विना विचारलक्षकत्वायोगात् , अध्याहृते च तेनैवारम्भोक्तेरथशब्दवैयर्थ्यात् । किन्त्वधिकारिसिद्ध्यर्थमानन्तर्यार्थतैव युक्तेति ।

अधुना सम्भावितमर्थान्तरं दूषयति -

मङ्गलस्येति ।

वाक्यार्थो विचारकर्तव्यता न हि तत्र मङ्गलस्य कर्तृत्वादिनान्वयोऽस्तीत्यर्थः ।

ननु सूत्रकृता शास्त्रादौ मङ्गलं कार्यमित्यथशब्दः प्रत्युक्त इति चेत्सत्यम् , न तस्यार्थो मङ्गलं किन्तु तच्छ्रवणमुच्चारणं च मङ्गलकृत्यं करोति । तदर्थस्त्वानन्तर्यमेवेत्याह -

अर्थान्तरेति ।

अर्थान्तरमानन्तर्यम् । श्रुत्या श्रवणेन शङ्खवीणादिनादश्रवणवदोङ्काराथशब्दयोः श्रवणं मङ्गलफलकम् ।
‘ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकाविमौ ॥ ’
इति स्मरणादिति भावः ।

ननु प्रपञ्चो मिथ्येति प्रकृते सति, अथ मतं प्रपञ्चः सत्य इत्यत्र पूर्वप्रकृतार्थादुत्तरार्थस्यार्थान्तरत्वार्थोऽथशब्दो दृष्टः, तथात्र किं न स्यादित्यत आह -

पूर्वेति ।

फलतः फलस्येत्यर्थः । ब्रह्मजिज्ञासायाः पूर्वम् अर्थविशेषः प्रकृतो नास्ति यस्मात्तस्या अर्थान्तरत्वमथशब्देनोच्येत । यतः कुतश्चिदर्थान्तरत्वं सूत्रकृता न वक्तव्यम् , फलाभावात् । यदि फलस्य जिज्ञासापदोक्तकर्तव्यविचारस्य हेतुत्वेन यत्पूर्वं प्रकृतं तदपेक्षास्तीत्यपेक्षाबलात्प्रकृतहेतुमाक्षिप्य ततोऽर्थान्तरत्वमुच्यते, तदार्थान्तरत्वमानन्तर्येऽन्तर्भवति हेतुफलभावज्ञानायानन्तर्यस्यावश्यं वाच्यत्वात् । तस्मादिदमर्थान्तरमित्युक्ते तस्य हेतुत्वाप्रतीतेः । तस्मादिदमनन्तरमित्युक्ते भवत्येव हेतुत्वप्रतीतिः । न चाश्वादनन्तरो गौरित्यत्र हेतुत्वभानापत्तिरिति वाच्यम् , तयोर्देशतः कालतो वा व्यवधानेनानन्तर्यस्यामुख्यत्वात् । अतः सामग्रीफलयोरेव मुख्यमानन्तर्यम् , अव्यवधानात् । तस्मिन्नुक्ते सत्यर्थान्तरत्वं न वाच्यं ज्ञानत्वाद्वैफल्याच्चेति भावः । फलस्य विचारस्य पूर्वप्रकृतहेत्वपेक्षाया बलाद्यदर्थान्तरत्वं तस्यानन्तर्याभेदात् न पृथगथशब्दार्थत्वमित्यध्याहृत्य भाष्यं योजनीयम् । यद्वा पूर्वप्रकृतेऽर्थेऽपेक्षा यस्या अर्थान्तरतायास्तस्याः फलं ज्ञानं तद्द्वारानन्तर्याव्यतिरेकात्तज्ज्ञाने तस्याः ज्ञानतोऽन्तर्भावान्नाथशब्दार्थतेत्यर्थः ।

नन्वानन्तर्यार्थकत्वेऽप्यानन्तर्यस्यावधिः क इत्याशङ्क्याह -

सति चेति ।

यन्नियमेन पूर्ववृत्तं पूर्वभावि असाधारणकारणं पुष्कलकारणमिति यावत् , तदेवावधिरिति वक्तव्यमित्यर्थः ।

नन्वस्तु धर्मविचार इव ब्रह्मविचारेऽपि वेदाध्ययनं पुष्कलकारणमित्यत आह -

स्वाध्यायेति ।

समानं ब्रह्मविचारे साधारणकारणं न पुष्कलकारणमित्यर्थः ।

ननु संयोगपृथक्त्वन्यायेन ‘यज्ञेन दानेन’ इत्यादिश्रुत्या ‘यज्ञादिकर्माणि ज्ञानाय विधीयन्ते’ इति सर्वापेक्षाधिकरणे वक्ष्यते । तथा च पूर्वतन्त्रेण तदवबोधः पुष्कलकारणमिति शङ्कते -

नन्विति ।

इह ब्रह्मजिज्ञासायां विशेषोऽसाधारणं कारणम् । [‘एकस्य तूभयार्थत्वे संयोगपृथक्त्व’ इति जैमिनीसूत्रम् , तदर्थस्तु - एकस्य कर्मण उभयार्थत्वेऽनेकफलसम्बन्धे संयोगः उभयसम्बन्धबोधकं वाक्यं तस्य पृथक्त्वं भेदः स हेतुः । ततश्चात्रापि ज्योतिष्टोमादिकर्मणां स्वर्गादिफलकानामपि ‘यज्ञेन दानेन’ इत्यादि वचनात् ज्ञानार्थत्वं चेति । ]

परिहरति -

नेत्यादिना ।

अयमाशयः - न तावत्पूर्वतन्त्रस्थं न्यायसहस्रं ब्रह्मज्ञाने तद्विचारे वा पुष्कलं कारणम् , तस्य धर्मनिर्णयमात्रहेतुत्वात् । नापि कर्मनिर्णयः, तस्यानुष्ठानहेतुत्वात् । न हि धूमाग्न्योरिव धर्मब्रह्मणोर्व्याप्तिरस्ति, यया धर्मज्ञानात् ब्रह्मज्ञानं भवेत् । यद्यपि शुद्धिविवेकादिद्वारा कर्माणि हेतवः, तथापि तेषां नाधिकारिविशेषणत्वम् , अज्ञातानां तेषां जन्मान्तरकृतानामपि फलहेतुत्वात् । अधिकारिविशेषणं ज्ञायमानं प्रवृत्तिपुष्कलकारणमानन्तर्यावधित्वेन वक्तव्यम् । अतः कर्माणि, तदवबोधः, तन्न्यायविचारो वा नावधिरिति न ब्रह्मजिज्ञासाया धर्मजिज्ञासानन्तर्यमिति ।

ननु धर्मब्रह्मजिज्ञासयोः कार्यकारणत्वाभावेऽप्यानन्तर्योक्तिद्वारा क्रमज्ञानार्थोऽथशब्दः । ‘हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः’ इत्यवदानानां क्रमज्ञानार्थाथशब्दवदित्याशङ्क्याह -

यथेति ।

अवदानानामानन्तर्यनियमः क्रमो यथाथशब्दार्थस्तस्य विवक्षितत्वात् न तथेह धर्मब्रह्मजिज्ञासयोः क्रमो विवक्षितः, एककर्तृकत्वाभावेन तयोः क्रमानपेक्षणात् । अतो न क्रमार्थोऽथशब्द इत्यर्थः ।

ननु तयोरेककर्तृकत्वं कुतो नास्तीत्यत आह -

शेषेति ।

येषामेकप्रधानशेषता, यथावदानानां प्रयाजादीनां च । ययोश्च शेषशेषित्वम् , यथा प्रयाजदर्शयोः । यस्य चाधिकृताधिकारत्वम् , यथा अपां प्रणयनं दर्शपूर्णमासाङ्गमाश्रित्य ‘गोदोहनेन पशुकामस्य’ इति विहितस्य गोदोहनस्य । यथा वा ‘दर्शपूर्णमासाभ्यामिष्ट्वा सोमेन यजेत’ इति दर्शाद्युत्तरकाले विहितस्य सोमयागस्य दर्शाद्यधिकृताधिकारत्वं तेषामेककर्तृकत्वं भवति । ततश्चैकप्रयोगवचनगृहीतानां तेषां युगपदनुष्ठानसम्भवात्क्रमाकाङ्क्षायां श्रुत्यादिभिर्हि क्रमो बोध्यते, नैवं जिज्ञासयोः शेषशेषित्वे श्रुतिलिङ्गादिकं मानमस्ति । ननु ‘ब्रह्मचर्यं समाप्य गृही भवेत् गृहाद्वनी भूत्वा प्रव्रजेच्च’ इति श्रुत्या,
‘अधीत्य विधिवद्वेदान् पुत्रानुत्पाद्य धर्मतः ।
इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत्’ ।
इति स्मृत्या चाधिकृताधिकारत्वं भातीति तन्न । ‘ब्रह्मचर्यादेव प्रव्रजेत्’ । ‘आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे । ’ इति श्रुतिस्मृतिभ्यां त्वयोदाहृतश्रुतिस्मृत्योरशुद्धचित्तविषयत्वावगमात् । एतदुक्तं भवति यदि जन्मान्तरकृतकर्मभिः शुद्धं चित्तं तदा ब्रह्मचर्यादेव संन्यस्य ब्रह्म जिज्ञासितव्यम् , यदा न शुद्धमिति रागेण ज्ञायते तदा गृही भवेत् , तत्राप्यशुद्धौ वनीभवेत् , तत्राप्यशुद्धौ तथैव कालमाकलयेत् , वने शुद्धौ प्रव्रजेदिति । तथा च श्रुतिः - ‘यदहरेव विरजेत्तदहरेव प्रव्रजेत्’ इति । तस्मान्नानयोरधिकृताधिकारत्वे किञ्चिन्मानमिति भावः ।

ननु मीमांसयोः शेषशेषित्वमधिकृताधिकारत्वं च मास्तु । एकमोक्षफलकत्वेनैककर्तृकत्वं स्यादेव । वदन्ति हि - ‘ज्ञानकर्माभ्यां मुक्तिः’ इति समुच्चयवादिनः । एवमेकवेदार्थजिज्ञास्यकत्वाच्चैककर्तृकत्वम् । तथा चाग्नेयादिषड्यागानामेकस्वर्गफलकानाम् , द्वादशाध्यायानां चैकधर्मजिज्ञास्यकानां क्रमवत्तयोः क्रमो विवक्षित इति क्रमार्थोऽथशब्द इत्यशङ्क्याह -

फलेति ।

फलभेदाज्जिज्ञास्यभेदाच्च न क्रमो विवक्षित इत्यनुषङ्गः । यथा सौर्यार्यम्णप्राजापत्यचरूणां ब्रह्मवर्चसस्वर्गायुःफलभेदात् , यथा वा कामचिकित्सातन्त्रयोर्जिज्ञास्यभेदान्न क्रमापेक्षा तद्वन्मीमांसयोर्न क्रमापेक्षेति भावः ।

तत्रफलभेदं विवृणोति -

अभ्युदयेति ।

विषयाभिमुख्येनोदेतीत्यभ्युदयो विषयाधीनं सुखं स्वर्गादिकं तच्च धर्मज्ञानहेतोर्मीमांसायाः फलमित्यर्थः ।

न केवलं फलस्य स्वरूपतो भेदः किन्तु हेतुतोऽपीत्याह -

तच्चेति ।

ब्रह्मज्ञानहेतोर्मीमांसायाः फलं तु तद्विरुद्धमित्याह -

निश्रेयसेति ।

नित्यं निरपेक्षं श्रेयो निश्रेयसं मोक्षस्तत्फलमित्यर्थः ।

ब्रह्मज्ञानं च स्वोत्पत्तिव्यतिरिक्तमनुष्ठानं नापेक्षत इत्याह -

न चेति ।

स्वरूपतो हेतुतश्च फलभेदान्न समुच्चय इति भावः ।

जिज्ञास्यभेदं विवृणोति -

भव्यश्चेति ।

भवतीति भव्यः । साध्य इत्यर्थः ।

साध्यत्वे हेतुमाह -

नेति ।

तर्हि तुच्छत्वम् , नेत्याह -

पुरुषेति ।

पुरुषव्यापारः प्रयत्नस्तन्त्रं हेतुर्यस्य तत्त्वादित्यर्थः । कृतिसाध्यत्वात्कृतिजनकज्ञानकाले धर्मस्यासत्वं न तुच्छत्वादित्यर्थः ।

ब्रह्मणो धर्माद्वैलक्षण्यमाह -

इह त्विति ।

उत्तरमीमांसायामित्यर्थः । भूतमसाध्यम् ।

तत्र हेतुः -

नित्येति ।

सदा सत्वादित्यर्थः ।

साध्यासाध्यत्वेन धर्मब्रह्मणोः स्वरूपभेदमुक्त्वा हेतुतोऽप्याह -

नेति ।

धर्मवत्कृत्यधीनं नेत्यर्थः ।

मानतोऽपि भेदमाह -

चोदनेति ।

अज्ञातज्ञापकं वाक्यमत्र चोदना । तस्याः प्रवृत्तिर्बोधकत्वं तद्वैलक्षण्याच्च जिज्ञास्यभेद इत्यर्थः ।

सङ्ग्रहवाक्यं विवृणोति -

या हीति ।

लक्षणं प्रमाणं ‘स्वर्गकामो यजेत’ इत्यादिवाक्यं हि स्वविषये धर्मे यागादिकरणस्वर्गादिफलकभावनारूपे फलहेतुयागादिगोचरनियोगे वा हितसाधने यागादौ वा पुरुषं प्रवर्तयदेवावबोधयति । ‘अयमात्मा ब्रह्म’ इत्यादि त्वमर्थं केवलमप्रपञ्चं ब्रह्म बोधयत्वेव न प्रवर्तयति विषयाभावादित्यर्थः ।

नन्ववबोध एव विषयस्तत्राह -

न पुरुष इति ।

ब्रह्मचोदनया पुरुषोऽवबोधे न प्रवर्तत इत्यत्र हेतुं पूर्ववाक्येनाह -

अवबोधस्येति ।

स्वजन्यज्ञाने स्वयं प्रमाणं न प्रवर्तकमित्यत्र दृष्टान्तमाह -

यथेति ।

मानादेव बोधस्य जातत्वात् , जाते च विध्ययोगात् , न वाक्यार्थज्ञाने पुरुषप्रवृत्तिः । तथा च प्रवर्तकमानमेयो धर्मः, उदासीनमानमेयं ब्रह्म, इति जिज्ञास्यभेदात् , न तन्मीमांसयोः क्रमार्थोऽथशब्द इति भावः ।

एवमथशब्दस्यार्थान्तरासम्भवात् आनन्तर्यवाचित्वे सति तदवधित्वेन पुष्कलकारणं वक्तव्यमित्याह -

तस्मादिति ।

उपदिश्यते ।

सूत्रकृतेति शेषः ।

तत्किमित्यत आह -

उच्यत इति ।

विवेकादीनामागमिकत्वेन प्रामाणिकत्वं पुरस्तादेवोक्तम् । लौकिकव्यापारात् मनस उपरमः शमः बाह्यकरणानामुपरमो दमः । ज्ञानार्थं विहितनित्यादिकर्मसन्यास उपरतिः । शीतोष्णादिद्वन्द्वसहनं तितिक्षा । निद्रालस्यप्रमादत्यागेन मनःस्थितिः समाधानम् । सर्वत्रास्तिकता श्रद्धा । एतत्षट्कप्राप्तिः शमादिसम्पत् । अत्र विवेकादीनामुत्तरोत्तरहेतुत्वेनाधिकारिविशेषणत्वं मन्तव्यम् ।

तेषामन्वयव्यतिरेकाभ्यां ब्रह्मजिज्ञासाहेतुत्वमाह -

तेष्विति ।

यथाकथञ्चित्कुतूहलितया ब्रह्मविचारप्रवृत्तस्यापि फलपर्यन्तं तज्ज्ञानानुदयाद्व्यतिरेकसिद्धिः ।

अथशब्दव्याख्यानमुपसंहरति -

तस्मादिति ।