ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
अतःशब्दः हेत्वर्थःयस्माद्वे एव अग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयतितद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इत्यादिः; तथा ब्रह्मविज्ञानादपि परं पुरुषार्थं दर्शयतिब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्यादिःतस्मात् यथोक्तसाधनसम्पत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या

ननूक्तविवेकादिकं न सम्भवति, ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्’ इत्यादिश्रुत्या कर्मफलस्य नित्यत्वेन ततो वैराग्यसिद्धेः । जीवस्य ब्रह्मस्वरूपमोक्षश्चायुक्तः, भेदात्तस्य लोष्टादिवत्पुरुषार्थत्वायोगाच्च । ततो न मुमुक्षासम्भव इत्याक्षेपपरिहारार्थोऽतःशब्दः तं व्याचष्टे -

अतःशब्द इति ।

अथशब्देनानन्तर्यवाचिना तदवधित्वेनार्थाद्विवेकादिचतुष्टयस्य ब्रह्मजिज्ञासाहेतुत्वं यदुक्तं तस्यार्थिकहेतुत्वस्याक्षेपनिरासायानुवादकोऽतःशब्द इत्यर्थः ।

उक्तं विवृणोति -

यस्मादिति ।

तस्मादित्युत्तरेण सम्बन्धः । ‘यदल्पं तन्मर्त्य’ ‘यत्कृतकं तदनित्यम्’ इति न्यायवती ‘तद्यथेह’ इत्यादिश्रुतिः कर्मफलाक्षयत्वश्रुतेर्बाधका । तस्मात् अतोऽन्यदार्तम्’ इति श्रुत्या अनात्ममात्रस्यानित्यत्वविवेकात् वैराग्यलाभ इति भावः ।

मुमुक्षां सम्भावयति -

तथेति ।

यथा वेदः कर्मफलानित्यत्वं दर्शयति, तथा ब्रह्मज्ञानात् प्रशान्तशोकानिलमपारं स्वयञ्ज्योतिरानन्दं दर्शयतीत्यर्थः । जीवत्वादेरध्यासोक्त्या ब्रह्मत्वसम्भव उक्त एवेति भावः ।

एवमथातःशब्दाभ्यां पुष्कलकारणवतोऽधिकारिणः समर्थनात् शास्त्रमारब्धव्यमित्याह -

तस्मादिति ।