ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासाब्रह्म वक्ष्यमाणलक्षणम्जन्माद्यस्य यतःइतिअत एव ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम्ब्रह्मण इति कर्मणि षष्ठी, शेषे; जिज्ञास्यापेक्षत्वाज्जिज्ञासायाःजिज्ञास्यान्तरानिर्देशाच्चननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं विरुध्यते, सम्बन्धसामान्यस्य विशेषनिष्ठत्वात्एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात् व्यर्थः, ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेत् ; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वात्ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम्तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते, यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं भवति, तान्यर्थाक्षिप्तान्येवेति पृथक्सूत्रयितव्यानियथाराजासौ गच्छतिइत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वत्श्रुत्यनुगमाच्चयतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्याद्याः श्रुतयः तद्विजिज्ञासस्वतद्ब्रह्म’ (तै. उ. ३ । १ । १) इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्तितच्च कर्मणिषष्ठीपरिग्रहे सूत्रेणानुगतं भवतितस्माद्ब्रह्मण इति कर्मणि षष्ठी

सुत्रवाक्यपूरणार्थमध्याहृतकर्तव्यपदान्वयार्थं ब्रह्मजिज्ञासापदेन विचारं लक्षयितुं तस्य स्वाभिमतसमासकथनेनावयवार्थं दर्शयति -

बह्मण इति ।

ननु धर्माय जिज्ञासा इतिवत् ब्रह्मणे जिज्ञासेति चतुर्थीसमासः किं न स्यादिति चेत् । उच्यते जिज्ञासा पदस्य हि मुख्यार्थमिच्छा, तस्याः प्रथमं कर्मकारकमपेक्षितं पश्चात्फलम् , ततश्चादौ कर्मज्ञानार्थं षष्ठीसमासो युक्तः । कर्मण्युक्ते सत्यर्थात्फलमुक्तं भवति, इच्छायाः कर्मण एव फलत्वात् । यथा स्वर्गस्येच्छा इत्युक्ते स्वर्गस्य फलत्वं लभ्यते तद्वत् । अत एव ‘धर्मजिज्ञासा’ इत्यत्रापि ‘सा हि तस्य ज्ञातुमिच्छा’ इति इच्छां गृहीत्वा षष्ठीसमासो दर्शितः । विचारलक्षणायां तु विचारस्य क्लेशात्मकतया प्रथमं फलाकाङ्क्षत्वात् धर्माय जिज्ञासेति चतुर्थीसमास उक्तः, तथा वृत्तिकारैर्ब्रह्मणे जिज्ञासा इत्युक्तं चेदस्तु ज्ञानत्वेन ब्रह्मणः फलत्वादिति ।

अधुना ब्रह्मपदार्थमाह -

ब्रह्म चेति ।

ननु ‘ब्रह्मक्षत्रमिदं ब्रह्म आयाति ब्रह्म स्वयम्भूर्ब्रह्म प्रजापतिः’ इति श्रुतिषु लोके च ब्राह्मणत्वजातौ जीवे वेदे कमलासने च ब्रह्मशब्दः प्रयुज्यत इत्याशङ्क्याह -

अत एवेति ।

जगत्कारणत्वलक्षणप्रतिपादकसूत्रासाङ्गत्यप्रसङ्गादेवेत्यर्थः ।

वृत्त्यन्तरे शेषे षष्ठीत्युक्तं दूषयति -

ब्रह्मण इतीति ।

सम्बन्धसामान्यं शेषः । जिज्ञासेत्यत्र सन्प्रत्ययवाच्याया इच्छाया ज्ञानं कर्म, तस्य ज्ञानस्य ब्रह्म कर्म । तत्र सकर्मकक्रियायाः कर्मज्ञानं विना ज्ञातुमशक्यत्वात् , इच्छाया विषयज्ञानजन्यत्वाच्च प्रथमापेक्षितं कर्मैव षष्ठ्या वाच्यं न शेष इत्यर्थः ।

ननु प्रमाणादिकमन्यदेव तत्कर्मास्तु ब्रह्म तु शेषितया सम्बध्यतां तत्राह -

जिज्ञास्यान्तरेति ।

श्रुतं कर्म त्यक्त्वान्यदश्रुतं कल्पयन् ‘पिण्डमुत्सृज्य करं लेढि’ इति न्यायमनुसरतीति भावः ।

गूढाभिसन्धिः शङ्क्यते -

नन्विति ।

‘षष्ठी शेषे’ इति विधानात् , षष्ठ्या सम्बन्धमात्रं प्रतीतमपि विशेषाकाङ्क्षायां सकर्मकक्रियासंनिधानात् कर्मत्वे पर्यवस्यतीत्यर्थः ।

अभिसन्धिमजानन्निवोत्तरमाह -

एवमपीति ।

कर्मलाभेऽपि प्रत्यक्षं ‘कर्तृकर्मणोः कृति’ इति सूत्रेण जिज्ञासापदस्याकारप्रत्ययान्तत्वेन कृदन्तस्य योगे विहितं प्रथमापेक्षितं च कर्मत्वं त्यक्त्वा परोक्षमशाब्दं कल्पयत इत्यर्थः ।

शेषवादी स्वाभिसन्धिमुद्धाटयति -

न व्यर्थ इति ।

शेषषष्ठ्यां ब्रह्मसम्बन्धिनी जिज्ञासा प्रतिज्ञाता भवति । तत्र यानि ब्रह्माश्रितानि लक्षणप्रमाणयुक्तिज्ञानसाधनफलानि तेषामपि विचारः प्रतिज्ञातो भवति । तज्जिज्ञासाया अपि ब्रह्मज्ञानार्थत्वेन ब्रह्मसम्बन्धित्वात् । कर्मणिषष्ठ्यां तु ब्रह्मकर्मक एव विचारः प्रतिज्ञातो भवतीत्यभिसन्धिना शेषषष्ठीत्युच्यते । अतो मत्प्रयासो न व्यर्थः । ब्रह्मतत्सम्बन्धिनां सर्वेषां विचारप्रतिज्ञानमर्थः फलं यस्य तत्त्वादित्यर्थः ।

त्वत्प्रयासस्येदं फलं न युक्तम् , सूत्रेण मुखतः प्रधानस्य ब्रह्मणो विचारे प्रतिज्ञाते सति तदुपकरणानां विचारस्यार्थिकप्रतिज्ञाया उदितत्वादित्याह सिद्धान्ती -

न प्रधानेति ।

सङ्गृहीतमर्थं सदृष्टान्तं व्याकरोति -

ब्रह्म हीत्यादिना ।

’तद्विजिज्ञासस्व’ इति मूलश्रुत्यनुसाराच्च कर्मणि षष्ठीत्याह -

श्रुत्यनुगमाच्चेति ।

श्रुतिसूत्रयोरेकार्थत्वलाभाच्चेत्यर्थः ।