ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
ज्ञातुमिच्छा जिज्ञासाअवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म, फलविषयत्वादिच्छायाःज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्मब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात्तस्माद्ब्रह्म जिज्ञासितव्यम्
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
ज्ञातुमिच्छा जिज्ञासाअवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म, फलविषयत्वादिच्छायाःज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्मब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात्तस्माद्ब्रह्म जिज्ञासितव्यम्

जिज्ञासापदस्यावयवार्थमाह -

ज्ञातुमिति ।

नन्वनवगते वस्तुनीच्छाया अदर्शनात्तस्या मूलं विषयज्ञानं वक्तव्यम् । ब्रह्मज्ञानं तु जिज्ञासायाः फलम् , तदेव मूलं कथमित्याशङ्क्याह -

अवगतीति ।

आवरणनिवृत्तिरूपाभिव्यक्तिमच्चैतन्यमवगतिः पर्यन्तोऽवधिर्यस्याखण्डसाक्षात्कारवृत्तिज्ञानस्य तदेव जिज्ञासायाः कर्म, तदेव फलम् । मूलं त्वापातज्ञानमित्यधुना वक्ष्यत इति फलमूलज्ञानयोर्भेदान्न जिज्ञासानुपपत्तिरित्यर्थः ।

ननु गमनस्य ग्रामः कर्म, तत्प्राप्तिः फलमिति भेदात्कर्म एव फलमित्युक्तं तत्राह -

फलेति ।

क्रियान्तरे तयोर्भेदेऽपि इच्छायाः फलविषयत्वात्कर्मैव फलमित्यर्थः ।

ननु ज्ञानावगत्योरैक्याद्भेदोक्तिरयुक्तेत्यत आह -

ज्ञानेनेति ।

ज्ञानं वृत्तिः अवगतिस्तत्फलमिति भेद इति भावः । अवगन्तुमभिव्यञ्जयितुम् ।

अवगतेः फलत्वं स्फुटयति -

ब्रह्मेति ।

हिशब्दोक्तं हेतुमाह -

निःशेषेति ।

बीजमविद्या आदिर्यस्यानर्थस्य तन्नाशकत्वादित्यर्थः ।

अवयवार्थमुक्त्वा सूत्रवाक्यार्थमाह -

तस्मादिति ।

अत्र सन्प्रत्ययस्य विचारलक्षकत्वं तव्यप्रत्ययेन सूचयति । अथातशब्दाभ्यामधिकारिणः साधितत्त्वात्तेन ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थः ॥

॥ इति तृतीयं वर्णकम् ॥