प्रथमवर्णके बन्धस्याध्यासत्वोक्त्या विषयादिप्रसिद्धावपि ब्रह्मप्रसिद्ध्यप्रसिद्ध्योर्विषयादिसम्भवासम्भवाभ्यां शास्त्रारम्भसन्देहे पूर्वपक्षमाह -
तत्पुनरिति । -
पुनःशब्दो वर्णकान्तरद्योतनार्थः । यदि वेदान्तविचारात्प्रागेव ब्रह्मज्ञानं तर्ह्यज्ञातत्वरूपविषयत्वं नास्ति, अज्ञानाभावेन तन्निवृत्तिरूपफलमपि नास्तीति न विचारयितव्यम् । अथाज्ञातं केनापि तर्हि तदुद्देशेन विचारः कर्तुं न शक्यते, अज्ञातस्योद्देशायोगात् । तथा च बुद्धावनारूढस्य विचारात्मकशास्त्रेण वेदान्तैश्च प्रतिपादनायोगात् । तत्प्रतिपाद्यत्वरूपः सम्बन्धो नास्तीति ज्ञानानुत्पत्तेः फलमपि नास्तीत्यनारभ्यं शास्त्रमित्यर्थः ॥
आपातप्रसिद्ध्या विषयादिलाभादारम्भणीयमिति सिद्धान्तयति -
उच्यत इत्यादिना ।
प्रसिद्धं तावदित्यर्थः । अस्तित्वस्याप्रकृतत्वेनास्तिपदस्य प्रसिद्धिपरत्वात् ।
ननु केन मानेन ब्रह्मणः प्रसिद्धिः । न च ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुत्या सेति वाच्यम् । ब्रह्मपदस्य लोके सङ्गतिग्रहाभावेन तद्घटितवाक्यस्याबोधकत्वादित्याशङ्क्य ब्रह्मपदव्युत्पत्त्या प्रथमं तस्य निर्गुणस्य सगुणस्य च प्रसिद्धिरित्याह -
ब्रह्मशब्दस्य हीति ।
अस्यार्थः श्रुतौ सूत्रे च ब्रह्मपदस्य प्रयोगान्यथानुपपत्त्या कश्चिदर्थोऽस्तीति ज्ञायते, प्रमाणवाक्ये निरर्थकशब्दप्रयोगादर्शनात् । स चार्थो महत्वरूप इति व्याकरणान्निश्चीयते, ‘बृहि वृद्धौ’ इति स्मरणात् । सा च वृद्धिर्निरवधिकमहत्वमिति सङ्कोचकाभावात् , श्रुतावनन्तपदेन सह प्रयोगाच्च ज्ञायते । निरवधिकमहत्वं चान्तवत्त्वादिदोषवत्त्वे सर्वज्ञत्वादिगुणहीनत्वे च न सम्भवति, लोके गुणहीनदोषवतोरल्पत्वप्रसिद्धेः । अतो बृंहणाद्ब्रह्मेति व्युत्पत्त्या देशकालवस्तुतः परिच्छेदाभावरूपं नित्यत्वं प्रतीयते । अविद्यादिदोषशून्यत्वं शुद्धत्वम् । जाड्यराहित्यं बुद्धत्वम् । बन्धकालेऽपि स्वतोबन्धाभावो मुक्तत्वं च प्रतीयते । एवं सकलदोषशून्यं निर्गुणं प्रसिद्धम् । तथा सर्वज्ञत्वादिगुणकं च तत्पदवाच्यं प्रसिद्धम् । ज्ञेयस्य कार्यस्य वा परिशेषेऽल्पत्वप्रसङ्गेन सर्वज्ञत्वस्य सर्वकार्यशक्तिमत्त्वस्य च लाभादिति ।
एवं तत्पदात्प्रसिद्धेरप्रमाणत्वेनापातत्वादज्ञानानिवर्तकत्वाज्जिज्ञासोपपत्तिरित्युक्त्वा त्वम्पदार्थात्मनापि ब्रह्मणः प्रसिद्ध्या तदुपपत्तिरत्याह -
सर्वस्येति ।
सर्वस्य लोकस्य योऽयमात्मातदभेदाद्ब्रह्मणः प्रसिद्धिरित्यर्थः ।
नन्वात्मनः प्रसिद्धिः केत्यत आह -
सर्वो हीति ।
अहमस्मीति न प्रत्येतीति न किन्तु प्रत्येत्येव । सैव सच्चिदात्मनः प्रसिद्धिरित्यर्थः ।
आत्मनः कुतः सत्तेति शून्यमतमाशङ्क्याह -
यदि हीति ।
आत्मनः शून्यस्य प्रतीतौ अहं नास्मीति लोको जानीयात् । लोकस्तु अहमस्मीति जानाति तस्मादात्मनोऽस्तित्वप्रसिद्धिरित्यर्थः ।
आत्मप्रसिद्धावपि ब्रह्मणः किमायातं तत्राह -
आत्मा चेति ।
‘अयमात्मा ब्रह्म’ इत्यादिश्रुतेरिति भावः ।
प्रसिद्धिपक्षोक्तं दोषं पूर्वपक्षेण स्मारयति -
यदीति ।
अज्ञातत्वाभावेन विषयाद्यभावादविचार्यत्वं प्राप्तमित्यर्थः । यथा इदं रजतमिति वस्तुतः शुक्तिप्रसिद्धिस्तद्वत् अहमस्मीति सत्त्वचैतन्यरूपत्वसामान्येन वस्तुतो ब्रह्मणः प्रसिद्धिः, नेयं पूर्णानन्दब्रह्मत्वरूपविशेषगोचरा, वादिनां विवादाभावप्रसङ्गात् ।
न हि शुक्तित्वविशेषदर्शने सति रजतं रङ्गमन्यद्वेति विप्रतिपत्तिरस्ति । अतो विप्रतिपत्त्यन्यथानुपपत्त्या सामान्यतः प्रसिद्धावपि विशेषस्याज्ञातत्वाद्विषयादिसिद्धिरिति सिद्धान्तयति -
न इत्यादिना ।
सामान्यविशेषभावः स्वात्मनि सच्चित्पूर्णादिपदवाच्यभेदात्कल्पित इति मन्तव्यम् ।
तत्र स्थूलसूक्ष्मक्रमेण विप्रतिपत्तीरुपन्यस्यति -
देहमात्रमित्यादिना ।
शास्त्रज्ञानशून्याः प्राकृताः ।
वेदबाह्यमतान्युक्त्वा तार्किकादिमतमाह -
अस्तीति ।
साङ्ख्यमतमाह -
भोक्तेति ।
किमात्मा देहादिरूपः उत तद्भिन्न इति विप्रतिपत्तिकोटित्वेन देहेन्द्रियमनोबुद्धिशून्यान्युक्त्वा तद्भिन्नोऽपि कर्तृत्वादिमान्न वेति विप्रतिपत्तिकोटित्वेन तार्किकसाङ्ख्यपक्षावुपन्यस्याकर्तापीश्वराद्भिन्नो न वेति विवादकोटित्वेन योगिमतमाह -
अस्ति तद्व्यतिरिक्त ईश्वर इति ।
निरतिशयत्वं गृहीत्वा ईश्वरः सर्वज्ञत्वादिसम्पन्न इति योगिनो वदन्ति ।
भेदकोटिमुक्त्वा सिद्धान्तकोटिमाह -
आत्मा स भोक्तुरिति ।
भोक्तुर्जीवस्याकर्तुः साक्षिणः स ईश्वर आत्मास्वरूपमिति वेदान्तिनो वदन्तीत्यर्थः ।
विप्रतिपत्तीरुपसंहरति -
एवं बहवः इति ।
विप्रतिपत्तीनां प्रपञ्चो निरासश्च विवरणोपन्यासेन दर्शितः सुखबोधायेतीहोपरम्यते । तत्र युक्तिवाक्याश्रयः सिद्धान्तिनः जीवो ब्रह्मैव आत्मत्वात् , ब्रह्मवत् इत्यादि युक्तेः, ‘तत्त्वमसि’ इत्यादिश्रुतेश्चाबाधितायाः सत्त्वात् । अन्ये तु देहादिरात्मा, अहंप्रत्ययगोचरत्वात् , व्यतिरेकेण घटादिवदित्यादियुक्त्याभासम् , ‘स वा एष पुरुषोन्नरसमयः’ इन्द्रियसंवादे ‘चक्षुरादयस्ते ह वाचमूचुः’ ‘मन उवाच’, ‘योऽयं विज्ञानमयः’, ‘असदेवेदमग्र आसीत्’, ‘कर्ता बोद्धा', ‘अनश्नन्नन्यः’, ‘आत्मानमन्तरो यमयति’ इति वाक्याभासं चाश्रिता इति विभागः । देहादिरनात्मा, भौतिकत्वात् , दृश्यत्वात् इत्यादिन्यायैः, ‘आनन्दमयोऽभ्यासात्’ इत्यादिसूत्रैश्चाभासत्वं वक्ष्यते ।
ननु सन्तु विप्रतिपत्तयस्तथापि यस्य यन्मते श्रद्धा तदाश्रयणात्तस्य स्वार्थः सेत्स्यति किं ब्रह्मविचारारम्भेणेत्यत आह -
तत्राविचार्येति ।
ब्रह्मात्मैक्यविज्ञानादेव मुक्तिरिति वस्तुगतिः । मतान्तराश्रयणे तदभावान्मोक्षसिद्धिः । किञ्चात्मानमन्यथा ज्ञात्वा तत्पापेन संसारान्धकूपे पतेत् , ‘अन्धं तमः प्रविशन्ति’ ‘ये के चात्महनो जनाः’ इति श्रुतेः, ‘योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥ ’ इति वचनाच्चेत्यर्थः ।
अतः सर्वेषां मुमुक्षूणां निःश्रेयसफलाय वेदान्तविचारः कर्तव्य इतिसूत्रार्थमुपसंहरति -
तस्मादिति ।
बन्धस्याध्यस्तत्वेन विषयादिसद्भावादगतार्थत्वात् , अधिकारिलाभादापातप्रसिद्ध्या विषयादिसम्भवाच्च वेदान्तविषया मीमांसापूजिता विचारणा, वेदान्ताविरोधिनो ये तर्कास्तन्त्रान्तरस्थास्तान्युपकरणानि यस्याः सा निश्रेयसायारभ्यत इत्यर्थः ।
ननु सूत्रे विचारवाचिपदाभावात्तदारम्भः कथं सूत्रार्थ इत्यत आह -
ब्रह्मेति ।
ब्रह्मज्ञानेच्छोक्तिद्वारा विचारं लक्षयित्वा तत्कर्तव्यतां ब्रवीतीति भावः । एवं प्रथमसूत्रस्य चत्वारोऽर्थाः व्याख्यानचतुष्टयेन दर्शिताः । सूत्रस्य चानेकार्थत्वं भूषणम् । नन्विदं सूत्रं शास्त्राद्बहिः स्थित्वा शास्त्रमारम्भयति अन्तर्भूत्वा वा । आद्ये तस्य हेयता, शास्त्रासम्बन्धात् । द्वितीये तस्यारम्भकं वाच्यम् । न च स्वयमेवारम्भकम् , स्वस्मात्स्वोत्पत्तेरित्यात्माश्रयात् । न चारम्भकान्तरं पश्याम इति । उच्यते - श्रवणविधिना आरब्दमिदं शास्त्रं शास्त्रान्तर्गतमेव शास्त्रारम्भं प्रतिपादयति । यथाध्ययनविधिर्वेदान्तर्गत एव कृत्स्नवेदस्याध्ययने प्रयुङ्क्ते तद्वदित्यनवद्यम् ॥ १ ॥