प्रथमसूत्रेण शास्त्रारम्भमुपपाद्य शास्त्रमारभमाणः पूर्वोत्तराधिकरणयोः सङ्गतिं वक्तुं वृत्तं कीर्तयति -
ब्रह्मेति ।
मुमुक्षुणा ब्रह्मज्ञानाय वेदान्तविचारः कर्तव्य इत्युक्तम् । ब्रह्मणो विचार्यत्वोक्त्या अर्थात्प्रमाणादि विचाराणां प्रतिज्ञातत्वेऽपि ब्रह्मप्रमाणं विना कर्तुमशक्यत्वात् , तत्स्वरूपज्ञानायादौ लक्षणं वक्तव्यम् , तन्न सम्भवतीत्याक्षिप्य सूत्रकृतं पूजयन्नेव लक्षणसूत्रमवधारयति -
किं लक्षणकमिति ।
किमाक्षेपे । नास्त्येव लक्षणमित्यर्थः । आक्षेपेणास्योत्थानादाक्षेपसङ्गतिः । लक्षणद्योतिवेदान्तानां स्पष्टब्रह्मलिङ्गानां लक्ष्ये ब्रह्मणि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसङ्गतयः । तथा हि ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादिवाक्यं विषयः । तत्किं ब्रह्मणो लक्षणं न वेति सन्देहः । तत्र पूर्वपक्षे ब्रह्मस्वरूपसिद्ध्या मुक्त्यसिद्धिः फलम् , सिद्धान्ते तत्सिद्धिरिति भेदः । यद्यप्याक्षेपसङ्गतौ पूर्वाधिकरणफलमेव फलमिति कृत्वा पृथङ्न वक्तव्यम् । तदुक्तम् -
‘आक्षेपे चापवादे च प्राप्त्यां लक्षणकर्मणि ।
प्रयोजनं न वक्तव्यं यच्च कृत्वा प्रवर्तते’ इति । तथापि स्पष्टार्थमुक्तमिति मन्तव्यम् । यत्र पूर्वाधिकरणसिद्धान्तेन पूर्वपक्षः तत्रापवादिकी सङ्गतिः प्राप्तिस्तदर्था चिन्ता । तत्र नेति प्राप्तम् , जन्मादेर्जगद्धर्मत्वेन ब्रह्मलक्षणत्वायोगात् । न च जगदुपादानत्वे सति कर्तृत्वं लक्षणमिति वाच्यम् , कर्तुरुपादानत्वे दृष्टान्ताभावेनानुमानाप्रवृत्तेः । न च श्रौतस्य ब्रह्मणः श्रुत्यैव लक्षणसिद्धेः किमनुमानेनेति वाच्यम् , अनुमानस्य श्रुत्यनुग्राहकत्वेन तदभावे तद्विरोधे वा श्रुत्यर्थासिद्धेः । -