न च जगत्कर्तृत्वमुपादानत्वं वा प्रत्येकं लक्षणमस्त्विति वाच्यम् , कर्तृमात्रस्योपादानाद्भिन्नस्य ब्रह्मत्वायोगात् , वस्तुतः परिच्छेदादिति प्राप्ते पुरुषाभ्यूहमात्रस्यानुमानस्याप्रतिष्ठितस्यातीन्द्रियार्थे स्वातन्त्र्यायोगात् , अपौरुषेयतया निर्दोषश्रुत्युक्तोभयकारणत्वस्य सुखादिदृष्टान्तेन सम्भावयितुं शक्यत्वात् , तदेव लक्षणमिति सिद्धान्तयति -
जन्माद्यस्य यतः इति ।
अत्र यद्यपि जगज्जन्मस्थितिलयकारणत्वं लक्षणं प्रतिपाद्यते तथाप्यग्रे ‘प्रकृतिश्च’ इत्यधिकरणे तत्कारणत्वं न कर्तृत्वमात्रं किन्तु कर्तृत्वोपादानत्वोभयरूपत्वमिति वक्ष्यमाणं सिद्धवत्कृत्योभयकारणत्वं लक्षणमित्युच्यत इति न पौनरुक्त्यम् । ननु जिज्ञास्यनिर्गुणब्रह्मणः कारणत्वं कथं लक्षणमिति चेत् , उच्यते - यथा रजतं शुक्तेर्लक्षणं यद्रजतं सा शुक्तिरिति, तथा यज्जगत्कारणं तद्ब्रह्मेति कल्पितं कारणत्वं तटस्थं सदेव ब्रह्मणो लक्षणमित्यनवद्यम् ॥
सूत्रं व्याचष्टे -
जन्मेत्यादिना ।
बहुव्रीहौ पदार्थाः सर्वे वाक्यार्थस्यान्यपदार्थस्य विशेषणानि । यथा चित्रगोर्देवदत्तस्य चित्रा गावः तद्वदत्रापि जन्मादीति नपुंसकैकवचनद्योतितस्य समाहारस्य जन्मस्थितिभङ्गस्य जन्म विशेषणम् , तथा च जन्मनः समासार्थैकदेशस्य गुणत्वेन संविज्ञानं यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञान इत्यर्थः । तत्र यज्जन्मकारणं तद्ब्रह्मेति ब्रह्मत्वविधानमयुक्तम् , स्थितिलयकारणाद्भिन्नत्वेन ज्ञाते ब्रह्मत्वस्य ज्ञातुमशक्यत्वात् । अतो जन्मस्थितिभङ्गैर्निरूपितानि त्रीणि कारणत्वानि मिलितान्येव लक्षणमिति मत्वा सूत्रे समाहारो द्योतित इति ध्येयम् ।
नन्वादित्वं जन्मनः कथं ज्ञातव्यम् , संसारस्यानादित्वादित्यत आह -
जन्मनश्चेति ।
मूलश्रुत्या वस्तुगत्या चादित्वं ज्ञात्वा तदपेक्ष्य सूत्रकृता जन्मन आदित्वमुक्तमित्यर्थः ।
इदमः प्रत्यक्षार्थमात्रवाचित्वमाशङ्क्योपस्थितसर्वकार्यवाचित्वमाह -
अस्येतीति ।
वियदादिजगतो नित्यत्वात् न जन्मादिसम्बन्ध इत्यत आह -
षष्ठीति ।
विषयादिमहाभूतानां जन्मादिसम्बन्धो वक्ष्यत इति भावः ।
ननु जगतो जन्मादेर्वा ब्रह्मसम्बन्धाभावान्न लक्षणत्वमित्याशङ्क्य तत्कारणत्वं लक्षणमिति पञ्चम्यर्थमाह -
यत इतीति ।
यच्छब्देन सत्यं ज्ञानमनन्तमानन्दरूपं वस्तूच्यते ‘आनन्दाद्ध्येव’ इति निर्णीतत्वात् । तथा च स्वरूपलक्षणसिद्धिरिति मन्तव्यम् ।
पदार्थमुक्त्वा पूर्वसूत्रस्थब्रह्मपदानुषङ्गेण तच्छब्दाध्याहारेण च सूत्रवाक्यार्थमाह -
अस्येत्यादिना ।
कारणस्य सर्वज्ञत्वादिसम्भावनार्थानि जगतो विशेषणानि । यथा कुम्भकारः प्रथमं कुम्भशब्दाभेदेन विकल्पितं पृथुबुध्नोदराकारस्वरूपं बुद्धावालिख्य तदात्मना कुम्भं व्याकरोति - बहिः प्रकटयति, तथा परमकारणमपि स्वेप्सितनामरूपात्मना व्याकरोतीत्यनुमीयत इति मत्वाह -
नामरूपाभ्यामिति ।
इत्थम्भावे तृतीया । आद्यकार्यं चेतनजन्यम् , कार्यत्वात् , कुम्भवदिति प्रधानशून्ययोर्निरासः ।
हिरण्यगर्भादिजीवजन्यत्वं निरस्यति -
अनेकेति ।
श्राद्धवैश्वानरेष्ट्यादौ पितापुत्रयोः कर्तृभोक्त्रोर्भेदात्पृथगुक्तिः । ‘यो ब्रह्माणं विदधाति पूर्वं सर्व एत आत्मनो व्युच्चरन्ति’ इति श्रुत्या स्थूलसूक्ष्मदेहोपाधिद्वारा जीवानां कार्यत्वेन जगन्मध्यपातित्वान्न जगत्कारणत्वमित्यर्थः ।
कारणस्य सर्वज्ञत्वं सम्भावयति -
प्रतिनियतेति ।
प्रतिनियतानि व्यवस्थितानि देशकालनिमित्तानि येषां क्रियाफलानां तदाश्रयस्येत्यर्थः । स्वर्गस्य क्रियाफलस्य मेरुपृष्ठं देशः । देहपातादूर्ध्वं काल उत्तरायणमरणादिनिमित्तं च प्रतिनियतम् । एवं राजसेवाफले ग्रामादेर्देशादिव्यवस्था ज्ञेया । तथा च यथा सेवाफलं देशाद्यभिज्ञदातृकं तथा कर्मफलम् , फलत्वादिति सर्वज्ञत्वसिद्धिरिति भावः ।
सर्वशक्तित्वं सम्भावयति -
मनसापीति ।
नन्वन्येऽपि वृद्धिपरिणामादयो भावविकाराः सन्तीति किमिति जन्मादीत्यादिपदेन न गृह्यन्ते तत्राह -
अन्येषामिति ।
वृद्धिपरिणामयोर्जन्मनि अपक्षयस्य नाशेऽन्तर्भावः इति भावः ।
ननु देहो ‘जायते, अस्ति, वर्धते, विपरिणमते, अपक्षीयते, विनश्यति’ इति यास्कमुनिवाक्यमेतत्सूत्रमूलं किं न स्यादत आह -
यास्केति ।
यास्कमुनिः किल महाभूतानामुत्पन्नानां स्थितिकाले भौतिकेषु प्रत्यक्षेण जन्मादिषट्कमुपलभ्य निरुक्तवाक्यं चकार । तन्मूलीकृत्य जन्मादिषट्ककारणत्वं लक्षणं सूत्रार्थ इति ग्रहणे सूत्रकृता ब्रह्मलक्षणं न सङ्गृहीतं किन्तु महाभूतानां लक्षणमुक्तमिति शङ्का स्यात्सा मा भूदिति ये श्रुत्युक्ता जन्मादयस्त एव गृह्यन्त इत्यर्थः । यदि निरुक्तस्यापि श्रुतिर्मूलमिति महाभूतजन्मादिकमर्थस्तर्हि सा श्रुतिरेव सूत्रस्य मूलमस्तु, किमन्तर्गडुना निरुक्तेनेति भावः । यदि जगतो ब्रह्मातिरिक्तं कारणं स्यात्तदा ब्रह्मलक्षणस्य तत्रातिव्याप्त्यादिदोषः स्यात् , अतस्तन्निरासाय लक्षणसूत्रेण ब्रह्म विना जगज्जन्मादिकं न सम्भवति, कारणान्तरासम्भवादिति युक्तिः सूत्रिता । सा तर्कपादे विस्तरेण वक्ष्यते ।
अधुना सङ्क्षेपेण तां दर्शयति -
न यथोक्तेत्यादिना ।
नामरूपाभ्यां व्याकृतस्येत्यादीनां च चतुर्णां जगद्विशेषणानां व्याख्यानावसरे प्रधानशून्ययोः संसारिणश्च निरासो दर्शितः । परमाणूनामचेतनानां स्वतः प्रवृत्त्ययोगात् , जीवान्यस्य ज्ञानशून्यत्वनियमेनानुमानात्सर्वज्ञेश्वरासिद्धौ तेषां प्रेरकाभावात् , जगदारम्भकत्वासम्भव इति भावः ।
स्वभावादेव विचित्रं जगदिति लोकायतस्तं प्रत्याह -
न चेति ।
जगत उत्पत्त्यादि सम्भावयितुं न शक्यमित्यन्वयः ।
किं स्वयमेव स्वस्य हेतुरिति स्वभाव उत कारणानपेक्षत्वम् । नाद्यः, आत्माश्रयात् । न द्वितीय इत्याह -
विशिष्टेति ।
विशिष्टान्यसाधारणानि देशकालनिमित्तानि । तेषां कार्यार्थिभिरुपादीयमानत्वात्कार्यस्य कारणानपेक्षत्वं न युक्तमित्यर्थः । अनेपेक्षत्वे धान्यार्थिनां भूविशेषे वर्षादिकाले बीजादिनिमित्ते च प्रवृत्तिर्न स्यादिति भावः ।
पूर्वोक्तसर्वज्ञत्वादिविशेषणकमीश्वरं मुक्त्वा जगत उत्पत्यादिकं न सम्भवतीति भाष्येण कर्तारं विना कार्यं नास्तीति व्यतिरेक उक्तः । तेन यत्कार्यं तत्सकर्तृकमिति व्याप्तिर्ज्ञायते । एतदेव व्याप्तिज्ञानं जगति पक्षे कर्तारं साधयत्सर्वज्ञेश्वरं साधयति किं श्रुत्येति तार्किकाणां भ्रान्तिमुपन्यस्यति -
एतदेवेति ।
एतदेवानुमानमेव साधनं न श्रुतिरिति मन्यन्त इति योजना । अथवा एतद्व्याप्तिज्ञानमेव श्रुत्यनुग्राहकयुक्तिमात्रत्वेनास्मत्सम्मतं सदनुमानं स्वतन्त्रमिति मन्यन्त इत्यर्थः । सर्वज्ञत्वमादिशब्दार्थः । यद्वा व्याप्तिज्ञानसहकृतमेतल्लक्षणमेवानुमानं स्वतन्त्रं मन्यन्त इत्यर्थः । तत्रायं विभागः व्याप्तिज्ञानात् जगतः कर्तास्तीत्यस्तित्वसिद्धिः । पश्चात्स कर्ता, सर्वज्ञः, जगत्कारणत्वात् , व्यतिरेकेण कुलालादिवदिति सर्वज्ञत्वसिद्धिर्लक्षणादिति । अत्र मन्यन्त इत्यनुमानस्याभासत्वं सूचितम् । तथाहि - अङ्कुरादौ तावज्जीवः कर्ता न भवति जीवाद्भिन्नस्य घटवदचेतनत्वनियमादन्यः कर्ता नास्त्येवेति व्यतिरेकनिश्चयात् , यत्कार्यं तत्सकर्तृकमिति व्याप्तिज्ञानासिद्धिः । लक्षणलिङ्गकानुमाने तु बाधः अशरीरस्य जन्मज्ञानायोगात् , यज्ज्ञानं तन्मनोजन्यमिति व्याप्तिविरोधेन नित्यज्ञानासिद्धेर्ज्ञानाभावनिश्चयात् , तस्मादतीन्द्रियार्थे श्रुतिरेव शरणम् । श्रुत्यर्थसम्भावनार्थत्वेनानुमानं युक्तिमात्रं न स्वतन्त्रमिति भावः ।