ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
जन्माद्यस्य यतः ॥ २ ॥
न्विहापि तदेवोपन्यस्तं जन्मादिसूत्रे; वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम्वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्तेवाक्यार्थविचारणाध्यवसाननिर्वृत्ता हि ब्रह्मावगतिः, नानुमानादिप्रमाणान्तरनिर्वृत्तासत्सु तु वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु, तदर्थग्रहणदार्ढ्याय अनुमानमपि वेदान्तवाक्याविरोधि प्रमाणं भवत् , निवार्यते, श्रुत्यैव सहायत्वेन तर्कस्याभ्युपेतत्वात्तथा हिश्रोतव्यो मन्तव्यः’ (बृ. उ. २ । ४ । ५) इति श्रुतिः पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद’ (छा. उ. ६ । १४ । २) इति पुरुषबुद्धिसाहाय्यमात्मनो दर्शयति धर्मजिज्ञासायामिव श्रुत्यादय एव प्रमाणं ब्रह्मजिज्ञासायाम्किन्तु श्रुत्यादयोऽनुभवादयश्च यथासम्भवमिह प्रमाणम् , अनुभवावसानत्वाद्भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्यकर्तव्ये हि विषये नानुभवापेक्षास्तीति श्रुत्यादीनामेव प्रामाण्यं स्यात् , पुरुषाधीनात्मलाभत्वाच्च कर्तव्यस्यकर्तुकर्तुमन्यथा वा कर्तुं शक्यं लौकिकं वैदिकं कर्म; यथा अश्वेन गच्छति, पद्भ्याम् , अन्यथा वा, वा गच्छतीतितथाअतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णाति’ ‘उदिते जुहोति, अनुदिते जुहोतिइति विधिप्रतिषेधाश्च अत्र अर्थवन्तः स्युः, विकल्पोत्सर्गापवादाश्च तु वस्तुएवम् , नैवम्’ ‘अस्ति, नास्तिइति वा विकल्प्यतेविकल्पनास्तु पुरुषबुद्ध्यपेक्षाः वस्तुयाथात्म्यज्ञानं पुरुषबुद्ध्यपेक्षम्किं तर्हि ? वस्तुतन्त्रमेव तत् हि स्थाणावेकस्मिन्स्थाणुर्वा, पुरुषोऽन्यो वाइति तत्त्वज्ञानं भवतितत्रपुरुषोऽन्यो वाइति मिथ्याज्ञानम् । ‘स्थाणुरेवइति तत्त्वज्ञानम् , वस्तुतन्त्रत्वात्एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम्त्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव, भूतवस्तुविषयत्वात्ननु भूतवस्तुत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमेवेति वेदान्तवाक्यविचारणा अनर्थिकैव प्राप्ता; इन्द्रियाविषयत्वेन सम्बन्धाग्रहणात्स्वभावतो विषयविषयाणीन्द्रियाणि, ब्रह्मविषयाणिसति हीन्द्रियविषयत्वे ब्रह्मणः इदं ब्रह्मणा सम्बद्धं कार्यमिति गृह्येतकार्यमात्रमे तु गृह्यमाणम्किं ब्रह्मणा सम्बद्धम् ? किमन्येन केनचिद्वा सम्बद्धम् ? — इति शक्यं निश्चेतुम्तस्माज्जन्मादिसूत्रं नानुमानोपन्यासार्थम्किं तर्हि ? वेदान्तवाक्यप्रदर्शनार्थम्किं पुनस्तद्वेदान्तवाक्यं यत् सूत्रेणेह लिलक्षयिषितम् ? भृगुर्वै वारुणिःवरुणं पितरमुपससारअधीहि भगवो ब्रह्मेति’ (तै. उ. ३ । १ । १) इत्युपक्रम्याहयतो वा इमानि भूतानि जायन्तेयेन जातानि जीवन्तियत्प्रयन्त्यभिसंविशन्तितद्विजिज्ञासस्वतद्ब्रह्मेति । ’ (तै. उ. ३ । १ । १) तस्य निर्णयवाक्यम्आनन्दाद्ध्येव खल्विमानि भूतानि जायन्तेआनन्देन जातानि जीवन्तिआनन्दं प्रयन्त्यभिसंविशन्ति’ (तै. उ. ३ । ६ । १) इतिअन्यान्यप्येवंजातीयकानि वाक्यानि नित्यशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारणविषयाणि उदाहर्तव्यानि ॥ २ ॥

नन्विति ; नेति ; वाक्यार्थेति ; सत्सु त्विति ; पण्डित इति ; नेति ; अनुभवेति ; पुरुषेत्यादिना ; कर्तुमिति ; यथेति ; तथेति ; उदित इति ; विधीति ; न इत्यादिना भूतवस्तुविषयत्वात् इत्यन्तेन ; विकल्पनास्त्विति ; नेति ; नहि स्थाणाविति ; तत्रेति ; एवमिति ; तत्रैवं सतीति ; नन्विति ; नेति ; स्वभावत इति ; सति हीति ; कार्यमात्रमिति ; तस्मादिति ; किं पुनरिति ; भृगुरिति ; तस्य चेति ; अन्यान्यपीति ; नित्येति ; नन्विति ; नेति ; वाक्यार्थेति ; सत्सु त्विति ; पण्डित इति ; नेति ; अनुभवेति ; पुरुषेत्यादिना ; कर्तुमिति ; यथेति ; तथेति ; उदित इति ; विधीति ; न त्वित्यादिना(तु इति नास्ति)* भूतवस्तुविषयत्वात् इत्यन्तेन ; विकल्पनास्त्विति ; नेति ; नहि स्थाणाविति ; तत्रेति ; एवमिति ; तत्रैवं सतीति ; नन्विति ; नेति ; स्वभावत इति ; सति हीति ; कार्यमात्रमिति ; तस्मादिति ; किं पुनरिति ; भृगुरिति ; तस्य चेति ; अन्यान्यपीति ; नित्येति ;

नन्विदमयुक्तम् , श्रुतेरनुमानान्तर्भावमभिप्रेत्य भवदीयसूत्रकृतानुमानस्यैवोपन्यस्यत्वादिति वैशेषिकः शङ्कते -

नन्विति ।

अतो मन्यन्ते इत्यनुमानस्याभासोक्तिरयुक्तेति भावः ।

यदि श्रुतीनां स्वतन्त्रमानत्वं न स्यात्तर्हि ‘तत्तु समन्वयात्’ इत्यादिना तासां तात्पर्यं सूत्रकृन्न विचारयेत् , तस्मादुत्तरसूत्राणां श्रुतिविचारार्थत्वात् जन्मादिसूत्रेऽपि श्रुतिरेव स्वातन्त्र्येण विचार्यते नानुमानमिति परिहरति -

नेति ।

किं च मुमुक्षोर्ब्रह्मावगतिरभीष्टा यदर्थमस्य शास्त्रस्यारम्भः, सा च नानुमानात् , ‘तं त्वौपनिषदम्’ इति श्रुतेः । अतो नानुमानं विचार्यमित्याह -

वाक्यार्थेति ।

वाक्यस्य तदर्थस्य च विचाराद्यध्यवसानं तात्पर्यनिश्चयः प्रमेयसम्भवनिश्चयश्च तेन जाता ब्रह्मावगतिर्मुक्तये भवतीत्यर्थः । सम्भवो बाधाभावः ।

ननु किमनुमानमुपेक्षितमेव नेत्याह -

सत्सु त्विति ।

विमतमभिन्ननिमित्तोपादानकम् , कार्यत्वादूर्णनाभ्यारब्धतन्त्वादिवत् , विमतं चेतनप्रकृतिकम् , कार्यत्वात् , सुखादिवदित्यनुमानं श्रुत्यर्थदार्ढ्याय अपेक्षितमित्यर्थः । दार्ढ्यं संशयविपर्यासनिवृत्तिः । ‘मन्तव्यः’ इति श्रुतार्थस्तर्केण सम्भावनीय इत्यर्थः । यथा कश्चित् गान्धारदेशेभ्यश्चोरैरन्यत्रारण्ये बद्धनेत्र एव त्यक्तः केनचिन्मुक्तबन्धस्तदुक्तमार्गग्रहणसमर्थः पण्डितः स्वयं तर्ककुशलो मेधावी स्वदेशानेव प्राप्नुयात् एवमेवेहाविद्याकामादिभिः स्वरूपानन्दात् प्रच्याव्यस्मिन्नरण्ये संसारे क्षिप्तः केनचिद्दयापरवशेनाचार्येण नासि त्वं संसारी किन्तु ‘तत्त्वमसि’ इत्युपदिष्टस्वरूपः स्वयं तर्ककुशलश्चेत्स्वरूपं जानीयान्नान्यथेति ।

श्रुतिः स्वस्याः पुरुषमतिरूपतर्कापेक्षां दर्शयतीत्याह -

पण्डित इति ।

आत्मनः श्रुतेरित्यर्थः ।

ननु ब्रह्मणो मननाद्यपेक्षा न युक्ता, वेदार्थत्वात् , धर्मवत् । किन्तु श्रुतिलिङ्गवाक्यादय एवापेक्षिता इत्यत आह -

नेति ।

जिज्ञास्ये धर्म इव जिज्ञास्ये ब्रह्मणीति व्याख्येयम् । अनुभवो ब्रह्मसाक्षात्काराख्यो विद्वदनुभवः । आदिपदान्मनननिदिध्यासनयोर्ग्रहः ।

तत्र हेतुमाह -

अनुभवेति ।

मुक्त्यर्थं ब्रह्मज्ञानस्य शाब्दस्य साक्षात्कारावसानत्वापेक्षणात्प्रत्यग्भूतसिद्धब्रह्मगोचरत्वेन साक्षात्कारफलकत्वसम्भवात् , तदर्थं मननाद्यपेक्षा युक्ता । धर्मे तु नित्यपरोक्षे साध्ये साक्षात्कारस्यानपेक्षितत्वादसम्भवाच्च श्रुत्या निर्णयमात्रमनुष्ठानायापेक्षितम् । लिङ्गादयस्तु श्रुत्यन्तर्भूता एव श्रुतिद्वारा निर्णयोपयोगित्वेनापेक्ष्यन्ते न मननादयः अनुपयोगादित्यर्थः । निरपेक्षः शब्दः श्रुतिः । शब्दस्यार्थप्रकाशनसामर्थ्यं लिङ्गम् । पदं योग्येतरपदाकाङ्क्षं वाक्यम् । अङ्गवाक्यसापेक्षं प्रधानवाक्यं प्रकरणम् । क्रमपठितानामर्थानां क्रमपठितैर्यथाक्रमं सम्बन्धः स्थानम् । यथा ऐन्द्राग्न्यादय इष्टयो दश क्रमेण पठिताः दशमन्त्राश्च ‘इन्द्राग्नी रोचना दिवि’ इत्याद्याः तत्र प्रथमेष्टौ प्रथममन्त्रस्य विनियोग इत्याद्यूहनीयम् । संज्ञासाम्यं समाख्या । यथाध्वर्यवसंज्ञकानां मन्त्राणामाध्वर्यवसंज्ञके कर्मणि विनियोग इति विवेकः । एवं तावद्ब्रह्म मननाद्यपेक्षम् , वेदार्थत्वात् , धर्मवत् , इत्यनुमाने साध्यत्वेन धर्मस्यानुभवायोग्यत्वम् , अनपेक्षितानुभवत्वं चोपाधिरित्युक्तम् । उपाधिव्यतिरेकाद्ब्रह्मणि मननाद्यपेक्षत्वं चोक्तम् । तत्र यदि वेदार्थत्वमात्रेण ब्रह्मणो धर्मेण साम्यं त्वयोच्येत तर्हि कृतिसाध्यत्वं विधिनिषेधविकल्पोत्सर्गापवादाश्च ब्रह्मणि धर्मवत् स्युरिति ।

विपक्षे बाधकमाह -

पुरुषेत्यादिना ।

पुरुषकृत्यधीना आत्मलाभ उत्पत्तिर्यस्य तद्भावाच्च धर्मे श्रुत्यादीनामेव प्रामाण्यमित्यन्वयः ।

धर्मस्य साध्यत्वं लौकिककर्मदृष्टान्तेन स्फुटयति -

कर्तुमिति ।

लौकिकवदित्यर्थः ।

दृष्टान्तं स्फुटयति -

यथेति ।

दार्ष्टान्तिकमाह -

तथेति ।

तद्वद्धर्मस्य कर्तुमकर्तुं शक्यत्वमुक्त्वा अन्यथाकर्तुं शक्यत्वमाह -

उदित इति ।

धर्मस्य साध्यत्वमुपपाद्य तत्र विध्यादियोग्यतामाह -

विधीति ।

विधिप्रतिषेधाश्च विकल्पादयश्च धर्मे साध्ये येऽर्थवन्तः सावकाशा भवन्ति ते ब्रह्मण्यपि स्युरित्यर्थः ।

‘यजेत’ ‘न सुरां पिबेत्’ इत्यादयो विधिनिषेधाः । व्रीहिभिर्यवैर्या यजेतेति सम्भावितो विकल्पः ग्रहणाग्रहणयोरैच्छिकः । उदितानुदितहोमयोर्व्यवस्थितविकल्पः । ‘न हिंस्यात्’ इत्युत्सर्गः, ‘अग्नीषोमीयं पशुमालभेत’ इत्यपवादः । तथा ‘आहवनीये जुहोति’ इत्युत्सर्गः, ‘अश्वस्य पदे पदे जुहोति’ इत्यपवाद इति विवेकः । एते ब्रह्मणि स्युरित्यत्रेष्टापत्तिं वारयति -

न इत्यादिना भूतवस्तुविषयत्वात् इत्यन्तेन ।

इदं वस्तु, एवम् , नैवम् , घटः पटो वेति प्रकारविकल्पः । अस्ति नास्ति वेति सत्तास्वरूपविकल्पः ।

ननु वस्तुन्यपि आत्मादौ वादिनामस्ति नास्तीत्यादिविकल्पा दृश्यन्ते तत्राह -

विकल्पनास्त्विति ।

अस्तित्वादिकोटिस्मरणं पुरुषबुद्धिस्तन्मूला मनःस्पन्दितमात्राः संशयविपर्ययविकल्पा न प्रमारूपा इत्यक्षरार्थः । अयं भावः धर्मो हि यथा यथा ज्ञायते तथा तथा कर्तुं शक्यते इति यथाशास्त्रं पुरुषबुद्ध्यपेक्षा विकल्पाः सर्वे प्रमारूपा एव भवन्ति, तत्साम्येन ब्रह्मण्यपि सर्वे विकल्पा यथार्थाः स्युरिति ।

तत्राप्येवमिति वदन्तं प्रत्याह -

नेति ।

यदि सिद्धवस्तुज्ञानमपि साध्यज्ञानवत्पुरुषबुद्धिमपेक्ष्य जायेत तदा सिद्धे विकल्पा यथार्थाः स्युः, न सिद्धवस्तुज्ञानं पौरुषं किं तर्हि प्रमाणवस्तुजन्यम् , तथा च वस्तुन एकरूपत्वादेकमेव ज्ञानं प्रमा, अन्ये विकल्पा अयथार्था एवेत्यर्थः ।

अत्र दृष्टान्तमाह -

नहि स्थाणाविति ।

स्थाणुरेवेत्यवधारणे सिद्धे सर्वे विकल्पा यथार्था न भवन्तीत्यर्थः ।

तत्र यद्वस्तुतन्त्रं ज्ञानं तद्यथार्थम् , यत्पुरुषतन्त्रं तन्मिथ्येति विभजते -

तत्रेति ।

स्थाणावित्यर्थः ।

स्थाणावुक्तन्यायं घटादिष्वतिदिशति -

एवमिति ।

प्रकृतमाह -

तत्रैवं सतीति ।

सिद्धेऽर्थे ज्ञानप्रमात्वस्य वस्त्वधीनत्वे सति ब्रह्मज्ञानमपि वस्तुजन्यमेव यथार्थं न पुरुषतन्त्रं भूतार्थविषत्वात् , स्थाणुज्ञानवदित्यर्थः । अतः साध्येऽर्थे सर्वे विकल्पाः पुन्तन्त्रा न सिद्धेऽर्थे इति वैलक्षण्यात् न धर्मसाम्यं ब्राह्मण इति मननाद्यपेक्षा सिद्धेति भावः ।

ननु तर्हि ब्रह्म प्रत्यक्षादिगोचरम् , धर्मविलक्षणत्वात् , घटादिवत् । तथा च जन्मादिसूत्रे जगत्कारणानुमानं विचार्यम् , सिद्धार्थे तस्य मानत्वात् , न श्रुतिः, सिद्धार्थे तस्या अमानत्वेन तद्विचारस्य निष्फलत्वादिति शङ्कते -

नन्विति ।

प्रमाणान्तरविषयत्वमेव प्राप्तमिति कृत्वा प्रमाणान्तरस्यैव विचारप्राप्ताविति शेषः ।

अत्र पूर्वपक्षी प्रष्टव्यः, किं यत्कार्यं तद्ब्रह्मजमित्यनुमानं ब्रह्मसाधकं किं वा यत्कार्यं तत्सकारणमिति । नाद्यः, व्याप्त्यसिद्धेरित्याह -

नेति ।

ब्रह्मण इन्द्रियाग्राह्यत्वात्प्रत्यक्षेण व्याप्तिग्रहायोगान्न प्रमाणान्तरविषयत्वमित्यर्थः ।

इन्द्रियाग्राह्यत्वं कुत इत्यत आह -

स्वभावत इति ।

‘पराञ्चि खानि व्यतृणत्स्वयम्भूः’ इति श्रुतेः, ब्रह्मणो रूपादिहीनत्वाच्चेत्यर्थः ।

इन्द्रियाग्राह्यत्वेऽपि व्याप्तिग्रहः किं न स्यादत आह -

सति हीति ।

तन्नास्तीति शेषः । इदं कार्यं ब्रह्मजमिति व्याप्तिप्रत्यक्षं ब्रह्मणोऽतीन्द्रियत्वान्न सम्भवतीत्यर्थः ।

द्वितीये कारणसिद्धावपि कारणस्य ब्रह्मत्वं श्रुतिं विना ज्ञातुमशक्यमित्याह -

कार्यमात्रमिति ।

सम्बद्धं कृतं यस्मात् श्रुतिमन्तरेण जगत्कारणं ब्रह्मेति निश्चयालाभस्तस्मात्तल्लाभाय श्रुतिरेव प्राधान्येन विचारणीया, अनुमानं तूपादानत्वादिसामान्यद्वारा मृदादिवत् ब्रह्मणः स्वकार्यात्मकत्वादिश्रौतार्थसम्भावनार्थं गुणतया विचार्यमित्युपसंहरति -

तस्मादिति ।

एतत्सूत्रस्य विषयवाक्यं पृच्छति -

किं पुनरिति ।

इह ब्रह्मणि लक्षणार्थत्वेन विचारयितुमिष्टं वाक्यं किमित्यर्थः ।

अत्र हि प्रथमसूत्रे विशिष्टाधिकारिणो ब्रह्मविचारं प्रतिज्ञाय ब्रह्मज्ञातुकामस्य द्वितीयसूत्रे लक्षणमुच्यते । तथैव श्रुतावपि मुमुक्षोर्ब्रह्मज्ञातुकामस्य जगत्कारणत्वोपलक्षणानुवादेन ब्रह्म ज्ञाप्यत इति श्रौतार्थक्रमानुसारित्वं सूत्रस्य दर्शयितुं सोपक्रमं वाक्यं पठति -

भृगुरिति ।

अधीहि स्मारय उपदिशेत्यर्थः । अत्र येनेत्येकत्वं विवक्षितम् , नानात्वे ब्रह्मत्वविधानायोगात् । यज्जगत्कारणं तदेकमित्यवान्तरवाक्यम् । यदेकं कारणं तद्ब्रह्मेति वा यत्कारणं तदेकं बह्मेति वा महावाक्यमिति भेदः ।

किं तर्हि स्वरूपलक्षणमित्याशङ्क्य वाक्यशेषान्निर्णितो यतःशब्दार्थः सत्यज्ञानानन्द इत्याह -

तस्य चेति ।

‘यः सर्वज्ञः’ ‘तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते’ ‘विज्ञानमानन्दं ब्रह्म’ इत्यादि शाखान्तरीयवाक्यान्यप्यस्य विषय इत्याह -

अन्यान्यपीति ।

एवं जातीयकत्वमेवाह -

नित्येति ।

तदेवं सर्वासु शाखासु लक्षणद्वयवाक्यानि जिज्ञास्ये ब्रह्मणि समन्वितानि, तद्धिया मुक्तिरिति सिद्धम् ॥ २ ॥