यस्य निःश्वसितं वेदाः सर्वार्थज्ञानशक्तयः ।
श्रीरामं सर्ववेत्तारं वेदवेद्यमहं भजे ॥ १ ॥
वृत्तानुवादेन सङ्गतिं वदन्नुत्तरसुत्रमवतारयति -
जगदिति ।
चेतनस्य ब्रह्मणो जगत्कारणत्वोक्त्या सर्वज्ञत्वमर्थात्प्रतिज्ञातं सूत्रकृता, चेतनसृष्टेर्ज्ञानपूर्वकत्वात् । तथा च ब्रह्म सर्वज्ञम् , सर्वकारणत्वात् , यो यत्कर्ता स तज्ज्ञः, यथा कुलाल इति स्थितम् । तदेवार्थिकं सर्वज्ञत्वं प्रधानादिनिरासाय वेदकर्तृत्वहेतुना द्रढयन्नाहेत्यर्थः । हेतुद्वयस्यैकार्थसाधनत्वात् , एकविषयत्वमवान्तरसङ्गतिः । यद्वा वेदस्य नित्यत्वाद्ब्रह्मणः सर्वहेतुता नास्तीत्याक्षेपसङ्गत्या वेदहेतुत्वमुच्यते ‘अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसः’ इति वाक्यं विषयः तत्किं वेदहेतुत्वेन ब्रह्मणः सर्वज्ञत्वं साधयति उत न साधयति इति सन्देहः । तत्र व्याकरणादिवद्वेदस्य पौरुषेयत्वे मूलप्रमाणसापेक्षत्वेनाप्रामाण्यापातान्न साधयतीति पूर्वपक्षे जगद्धेतोश्चेतनत्वासिद्धिः फलम् । सिद्धान्ते तत्सिद्धिः । अस्य वेदान्तवाक्यस्य स्पष्टब्रह्मलिङ्गस्य वेदकर्तरि समन्वयोक्तेः श्रुतिशास्त्राध्यायपादसङ्गतयः । एवमापादं श्रुत्यादिसङ्गतय ऊह्याः ।