अधुना ब्रह्मणो लक्षणानन्तरं प्रमाणजिज्ञासायां वर्णकान्तरमाह -
अथवेति ।
लक्षणप्रमाणयोर्ब्रह्मनिर्णयार्थत्वादेकफलकत्वं सङ्गतिः ।
‘तं त्वौपनिषदं पुरुषम्’ इति श्रुतिर्ब्रह्मणो वेदैकवेद्यत्वं ब्रूते न वेति संशये, कार्यलिङ्गेनैव लाघवात्कर्तुरेकस्य सर्वज्ञस्य ब्रह्मणः सिद्धेर्न ब्रूते इति प्राप्ते वेदप्रमाणकत्वात् ब्रह्मणो न प्रमाणान्तरवेद्यत्वमिति सिद्धान्तयति -
शास्त्रयोनित्वादिति ।
तद्व्याचष्टे -
यथोक्तमिति ।
सर्वत्र पूर्वोत्तरपक्षयुक्तिद्वयं संशयबीजं द्रष्टव्यम् । अत्र पूर्वपक्षे अनुमानस्यैव विचार्यतासिद्धिः फलं सिद्धान्ते वेदान्तानामिति भेदः । अनुमानादिना ब्रह्मसिद्धिः पूर्वसूत्रे प्रसङ्गान्निरस्ता । किञ्च विचित्रप्रपञ्चस्य प्रासादादिवदेककर्तृकताबाधान्न लाघवावतारः ।
न च सर्वज्ञत्वात्कर्तुरेकत्वसम्भवः । एकत्वज्ञानात्सर्वज्ञत्वज्ञानं ततस्तदित्यन्योन्याश्रयमभिप्रेत्याह -
शास्त्रादेवेति ।
किं तच्छास्त्रमिति तदाह -
शास्त्रमिति ।
पृथगारम्भमाक्षिपति -
किमर्थमिति ।
येन हेतुना दर्शितं ततः किमर्थमित्यर्थः ।
जन्मादिलिङ्गकानुमानस्य स्वातन्त्र्येणोपन्यासशङ्कानिरासार्थं पृथक्सूत्रमित्याह -
उच्यत इति ॥ ३ ॥