वेदान्ताः सिद्धब्रह्मपरा उत कार्यपरा इति निष्फलत्वसापेक्षत्वयोः प्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वसूत्रे द्वितीयवर्णकेनाक्षेपसङ्गत्या पूर्वपक्षमाह
कथं पुनरित्यादिना ।
‘सदेव सोम्य’ इत्यादीनां सर्वात्मत्वादिस्पष्टब्रह्मलिङ्गानां ब्रह्मणि समन्वयोक्तेः, श्रुत्यादिसङ्गतयः । पूर्वपक्षे वेदान्तेषु मुमुक्षुप्रवृत्त्यसिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः ।
कथमित्याक्षेपे हेतुः -
यावतेति ।
यतो जैमिनिसूत्रेण शास्त्रस्य वेदस्य क्रियापरत्वं दर्शितमतोऽक्रियार्थत्वाद्वेदान्तनामानर्थक्यं फलवदर्थशून्यत्वं प्राप्तमित्यन्वयः । सूत्रस्यायमर्थः - प्रथमसूत्रे तावद्वेदस्याध्ययनकरणकभावनाविधिभाव्यस्य फलवदर्थपरत्वमुक्तम् । ‘चोदनालक्षणोऽर्थो धर्मः’ इति द्वितीयसूत्रे धर्मे कार्ये चोदना प्रमाणमिति वेदप्रामाण्यव्यापकं कार्यपरत्वमवसितम् । तत्र ‘वायुर्वै क्षेपिष्ठा’ इत्याद्यर्थवादानां धर्मे प्रामाण्यमस्ति न वेति संशये आम्नायप्रामाण्यस्य क्रियार्थत्वेन व्याप्तत्वात् , अर्थवादेषु धर्मस्याप्रतीतेः अक्रियार्थानां तेषामानर्थक्यं निष्फलार्थत्वम् ।
न चाध्ययनविध्युपात्तानां निष्फले सिद्धेऽर्थे प्रामाण्यं युक्तम् , तस्मादनित्यमेषां प्रामाण्यमुच्यते । व्यापकाभावाद्व्याप्यं प्रामाण्यं नास्त्येवेति यावत् । एवं पूर्वपक्षेऽपि ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’ इति सूत्रेण सिद्धान्तमाह -
क्रियापरत्वमिति ।
अनित्यमिति प्राप्ते दर्शितमित्यर्थः । वायुर्वै क्षिप्रतमगामिनी देवता तद्देवताकं कर्म क्षिप्रमेव फलं दास्यति, इत्येवं विधेयार्थानां स्तुतिरूपार्थेन द्वारेण ‘वायव्यं श्वेतमालभेत’ इत्यादिविधिवाक्येनैकवाक्यत्वादर्थवादाः सफलाः स्युः । स्तुतिलक्षणया सफलकार्यपरत्वात्प्रमाणमर्थवादा इति यावत् ।
नन्वध्ययनविधिगृहीतानां वेदान्तानामानर्थक्यं न युक्तमित्यत आह -
कर्त्रिति ।
न वयं वेदान्तानामानर्थक्यं साधयामः किन्तु लोके सिद्धस्य मानान्तरवेद्यत्वान्निष्फलत्वाच्च सिद्धब्रह्मपरत्वे तेषां मानान्तरसापेक्षत्वनिष्फलत्वयोः प्रसङ्गादप्रामाण्यापातात् , कार्यशेषकर्तृदेवताफलानां प्रकाशनद्वारा कार्यपरत्वं वक्तव्यमिति ब्रूमः । तत्र त्वन्तत्पदार्थवाक्यानां कर्तृदेवतास्तावकत्वम् , विविदिषादिवाक्यानां फलस्तावकत्वम् ।
ननु कर्मविशेषमनारभ्य प्रकरणान्तराधीतानां वेदान्तानां कथं तच्छेषत्वम् , मानाभावादित्यरुच्या पक्षान्तरमाह -
उपासनेति ।
मोक्षकामोऽसद्ब्रह्माभेदमारोप्य अहं ब्रह्मास्मीत्युपासीत इत्युपासनाविधिः, आदिशब्दाच्छ्रवणादयः । तत्कार्यपरत्वं वा वक्तव्यमित्यर्थः ।
ननु श्रुतं ब्रह्म विहायाश्रुतं कार्यपरत्वं किमर्थं वक्तव्यमिति तत्राह -
नहीति ।
परितः समन्तान्निश्चयेन स्थितं परिनिष्ठितं कृत्यनपेक्षम् । सिद्धमिति यावत् । तस्य प्रतिपादनमज्ञातस्य वेदेन ज्ञापनम् , तन्न सम्भवति, मानन्तरयोग्येऽर्थे वाक्यस्य संवादे सत्यनुवादकत्वात् , ‘अग्निर्हिमस्य भेषजम्’ इति वाक्यवत् । विसंवादे च बोधकत्वात् , ‘आदित्यो यूपः’ इति वाक्यवदित्यर्थः ।
सिद्धो न वेदार्थः, मानान्तरयोग्यत्वाद्घटवदित्युक्त्वा निष्फलत्वाच्च तथेत्याह -
तदिति ।
सिद्धज्ञापने हेयोपादेयागोचरे फलाभावाच्च तन्न सम्भवतीत्यर्थः । फलं हि सुखाव्याप्तिर्दुःखहानिश्च । तच्च प्रवृत्ति निवृत्तिभ्यां साध्यम् । ते चोपादेयस्य प्रवृत्तिप्रयत्नकार्यस्य हेयस्य निवृत्तिप्रयत्नकार्यस्य ज्ञानाभ्यां जायेते, न सिद्धज्ञानादिति भावः ।
तर्हि सिद्धबोधिवेदवादानां साफल्यं कथमित्याशङ्क्य ‘आम्नायस्य’ इत्यादिसङ्ग्रहवाक्यं विवृणोति -
अत एवेति ।
सिद्धवस्तुज्ञानात्फलाभावादेवेत्यर्थः । ‘देवैर्निरुद्धः सोऽग्निररोदीत्’ इति वाक्यस्याश्रुजत्वेन रजतस्य निन्दाद्वारा ‘बर्हिषि न देयं’ इति सफलनिषेधशेषत्ववत् वेदान्तानां विध्यादिशेषत्वं वाच्यमित्यर्थः ।
ननु तेषां मन्त्रवत्स्वातन्त्र्यमस्तु नार्थवादवद्विध्येकवाक्यत्वमित्याशङ्क्य दृष्टान्तासिद्धिमाह -
मन्त्राणां चेति ।
प्रथमाध्याये प्रमाणलक्षणेऽर्थवादचिन्तानन्तरं मन्त्रचिन्ता कृता ‘इषे त्वा’ इति मन्त्रे ‘छिनद्मि’ इत्यध्याहाराच्छाखाच्छेदनक्रियाप्रतीतेः, ‘अग्निर्मूर्धा’ इत्यादौ च क्रियासाधनदेवतादिप्रतीतेः मन्त्राः श्रुत्यादिभिः क्रतौ विनियुक्ताः, ते किमुच्चारणमात्रेणादृष्टं कुर्वन्तः क्रतावुपकुर्वन्ति उत दृष्टेनैवार्थस्मरणेनेति सन्देहे चिन्तादिनाप्यध्ययनकालावगतमन्त्रार्थस्य स्मृतिसम्भवाददृष्टार्था मन्त्रा इति प्राप्ते सिद्धान्तः - ‘अविशिष्टस्तु वाक्यार्थः’ इति लोकवेदयोर्वाक्यार्थस्याविशेषान्मन्त्रवाक्यानां दृष्टेनैव स्वार्थप्रकाशनेन क्रतूपकारकत्वसम्भवात् , दृष्टे सम्भवति अदृष्टकल्पनानुपपत्तेः, फलवदनुष्ठानापेक्षितेन क्रियातत्साधनस्मरणेन द्वारेण मन्त्राणां कर्माङ्गत्वम् । ‘मन्त्रैरेवार्थः स्मर्तव्यः’ इति नियमस्त्वदृष्टार्थ इति । तथा चार्थवादानां स्तुतिपदार्थद्वारा पदैकवाक्यत्वं विधिभिः, मन्त्राणां तु वाक्यार्थज्ञानद्वारा तैर्वाक्यैकवाक्यत्वमिति विभागः ।
नन्वस्तु कर्मप्रकरणस्थवाक्यानां विध्येकवाक्यत्वम् , वेदान्तानां तु सिद्धे प्रामाण्यं किं न स्यादिति तत्राह -
न क्वचिदिति ।
वेदान्ता विध्येकवाक्यत्वेनैवार्थवन्तः, सिद्धार्थावेदकत्वात् , मन्त्रार्थवादादिवदित्यर्थः ।
अन्यत्रादृष्टापि वेदान्तेषु कल्प्यतामिति तत्राह -
उपपन्ना वेति ।
नेत्यनुषङ्गः । सिद्धे फलाभावास्योक्तत्वादिति भावः ।
तर्हि ब्रह्मण्येव स्वार्थे विधिः कल्प्यतां कृतं वेदान्तानां विध्यन्तरशेषत्वेनेत्यत आह -
न चेति ।
ननु ‘दध्ना जुहोति’ इति सिद्धे दधनि विधिर्दृष्टस्तत्राह -
क्रियेति ।
दध्नः क्रियासाधनस्य प्रयुज्यमानतया साध्यत्वाद्विधेयता, निष्क्रियब्रह्मणः कथमप्यसाध्यत्वान्न विधेयत्वमित्यर्थः ।
भाट्टमतमुपसंहरति -
तस्मादिति ।
स्वयमेवारुचिं वदन्पक्षान्तरमाह -
अथेति ।