सिद्धान्तसूत्रं व्याचष्टे -
तुशब्द इति ।
तद्ब्रह्म वेदान्तप्रमाणकमिति प्रतिज्ञातेऽर्थे हेतुं पृच्छति -
कथमिति ।
हेतुमाह -
समिति ।
अन्वयतात्पर्यविषयत्वं तस्मादित्येव हेतुः । तात्पर्यस्य सम्यक्त्वमखण्डार्थविषयकत्वं सूचयितुं सम् - पदं प्रतिज्ञान्तर्गतमेव । तथा चाखण्डं ब्रह्म वेदान्तजप्रमाविषयः, वेदान्ततात्पर्यविषयत्वात् , यो यद्वाक्यतात्पर्यविषयः स तद्वाक्यप्रमेयः, यथा कर्मवाक्यप्रमेयो धर्म इति प्रयोगः । वाक्यार्थस्याखण्डत्वं - असंसृष्टत्वम् । वाक्यस्य चाखण्डार्थकत्वं - स्वपदोपस्थिता ये पदार्थास्तेषां यः संसर्गस्तद्गोचरप्रमाजनकत्वम् । न चेदमप्रसिद्धम् । प्रकृष्टप्रकाशश्चन्द्र इत्यादि लक्षणवाक्यानां लोके लक्षणया चन्द्रादिव्यक्तिमात्रप्रमाहेतुत्वात् । सर्वपदलक्षणा चाविरुद्धा सर्वैरर्थवादपदैरेकस्याः स्तुतेर्लक्ष्यत्वाङ्गीकारात् । तथा सत्यज्ञानादिपदैरखण्डं ब्रह्म भातीति न पक्षासिद्धिः । नापि हेत्वसिद्धिः, उपक्रमादिलिङ्गैर्वेदान्तानामद्वितीयाखण्डब्रह्मणि तात्पर्यनिर्णयात् ।
तत्र छान्दोग्यषष्ठे उपक्रमं दर्शयति -
सदेवेति ।
उद्दालकः पुत्रमुवाच - हे सोम्य प्रियदर्शन, इदं सर्वं जगत् , अग्रे उत्पत्तेः प्राक्काले सदबाधितं ब्रह्मैवासीत् । एवकारेण जगतः पृथक्सत्ता निषिध्यते । सजातीयविजातीयस्वगतभेदनिरासार्थं ‘एकमेवाद्वितीयम्’ इति पदत्रयम् । एवमद्वितीयं ब्रह्मोपक्रम्य ‘ऐतदात्म्यमिदं सर्वम्’ इत्युपसंहरति । इदमुपक्रमोपसंहारैकरूप्यं तात्पर्यलिङ्गम् , यथा ‘तत्त्वमसि’ इति नवकृत्वोऽभ्यासः । रूपादिहीनाद्वितीयब्रह्मणो मानान्तरायोग्यत्वादपूर्वत्वमुक्तम् - ‘अत्र वाव किल सत्सोम्य न निभालयसे’ इति । सङ्घाते स्थितं प्रत्यग्ब्रह्म न जानासीत्यर्थः । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये’ इति ब्रह्मज्ञानात्फलमुक्तं विदुषः । तस्य यावत्कालं देहो न विमोक्ष्यते तावदेव देहपातपर्यन्तो विलम्बः । अथ देहपातानन्तरं विद्वान् ब्रह्म सम्पत्स्यते । विदेहकैवल्यमनुभवतीत्यर्थः । ‘अनेन जीवेनात्मनानुप्रविश्य’ इत्याद्यद्वितीयज्ञानार्थोऽर्थवादः । मृदादिदृष्टान्तैः प्रकृत्यतिरेकेण विकारो नास्तीत्युपपत्तिरुक्ता ।
एवं षङ्विधानि तात्पर्यलिङ्गानि व्यस्तानि समस्तानि वा प्रतिवेदान्तं दृश्यन्त इत्यैतरेयोपक्रमवाक्यं पठति -
आत्मा वा इति ।
बृहदारण्यके मधुकाण्डोपसंहारवाक्यं सदात्मनो निर्विशेषत्वार्थमाह -
तदेतदिति ।
मायाभिर्बहुरूपं तद्ब्रह्म । एतदपरोक्षम् । अपूर्वं कारणशून्यम् । अनपरं कार्यरहितम् । अनन्तरं जात्यन्तरमस्य नास्तीत्यनन्तरम् । एकरसमित्यर्थः । अबाह्यमद्वितीयम् ।
तस्यापरोक्षत्वमुपपादयति -
अयमिति ।
सर्वमनुभवतीति सर्वानुभूः । चिन्मात्रमित्यर्थः ।
ऋग्यजुःसामवाक्यानुक्त्वा आथर्वणवाक्यमाह -
ब्रह्मैवेदमिति ।
यत्पुरस्तात्पूर्वदिग्वस्तुजातमिदमब्रह्मेव विदुषां भाति तदमृतं ब्रह्मैव वस्तु इत्यर्थः । आदिपदेन ‘सत्यं ज्ञानम्’ इत्यादिवाक्यानि गृह्यन्ते ।
नन्वस्तु ब्रह्मणस्तात्पर्यविषयत्वम् , वेदान्तानां कार्यमेवार्थः किं न स्यादिति तत्राह -
न चेति ।
वेदान्तानां ब्रह्मणि तात्पर्ये निश्चीयमाने कार्यार्थत्वं न युक्तं ‘यत्परः शब्दः स शब्दार्थः’ इति न्यायादित्यर्थः ।
यदुक्तमर्थवादन्यायेन वेदान्तानां कर्त्रादिस्तावकत्वमिति तत्राह -
न च तेषामिति ।
तेषां कर्मशेषस्तावकत्वं न भाति किन्तु ज्ञानद्वारा कर्म तत्साधननाशकत्वमेव । तत्तत्र विद्याकाले कः कर्ता केन करणेन कं विषयं पश्येत् इति श्रुतेरित्यर्थः । अर्थवादानां तु स्वार्थे फलाभावात्स्तुतिलक्षणतेति भावः ।
यदुक्तं सिद्धत्वेन मानान्तरवेद्यं ब्रह्म न वेदार्थ इति तत्राह -
न च परीति ।
’तत्त्वमसि’ इति शास्त्रमन्तरेणेति सम्बन्धः । धर्मो न वेदार्थः, साध्यत्वेन पाकवन्मानान्तरवेद्यत्वात् । यदि वेदं विना धर्मस्यानिर्णयान्न मानान्तरवेद्यता तदा ब्रह्मण्यपि तुल्यम् ।
यच्चोक्तं निष्फलत्वाद्ब्रह्म न वेदार्थ इति तदनूद्य परिहरति -
यत्त्वित्यादिना ।
रहितत्वाद्भिन्नत्वात् । ब्रह्मण इति शेषः ।
यदप्युक्तम् - ‘उपासनापरत्वं वेदान्तानाम्’ इति तत्र किं प्राणपञ्चाग्न्यादिवाक्यानामुत सर्वेषामिति । तत्राद्यमङ्गीकरोति -
देवतादीति ।
ज्येष्ठत्वादिगुणः फलं चादिशब्दार्थः । न द्वितीयः, विधिशून्यानां ‘सत्यं ज्ञानम्’ इत्यादीनां स्वार्थे फलवतामुपासनापरत्वकल्पनायोगात् ।
किञ्च तदर्थस्य ब्रह्मणस्तच्छेषत्वं ज्ञानात्प्रागूर्ध्वं वा । आद्ये, अध्यस्तगुणवतस्तस्य तच्छेषत्वेऽपि न द्वितीय इत्याह -
न तु तथेति ।
प्राणादिदेवतावदित्यर्थः ।
‘अहं ब्रह्मास्मि’ इत्येकत्वे ज्ञाते सति हेयोपादेयशून्यतया ब्रह्मात्मनः फलाभावात् , उपास्योपासकद्वैतज्ञानस्य कारणस्य नाशाच्च नोपासनाशेषत्वमित्याह -
एकत्व इति ।
द्वैतज्ञानस्य संस्कारबलात्पुनरुदये विधानमिति नेत्याह -
नहीति ।
दृढस्येति शेषः । भ्रान्तित्वानिश्चयो दार्ढ्यम् , संस्कारोत्थं तु भ्रान्तित्वेन निश्चितं न विधिनिमित्तम् ।
येनेति ।
उपासनायां कारणस्य सत्वेनेत्यर्थः ।
वेदप्रामाण्यस्य व्यापकं क्रीयार्थकत्वमनुवदति -
यद्यपीति ।
कर्मकाण्डेऽर्थवादादीनामित्यर्थः । तथा च व्यापकाभावाद्वेदान्तेषु व्याप्याभावानुमानमिति भावः ।
वेदान्ता न स्वार्थे मानम् , अक्रियार्थत्वात् ‘सोऽरोदीत्’ इत्यादिवदित्यनुमाने निष्फलार्थकत्वमुपाधिरित्याह -
तथापीति ।
अर्थवादानां निष्फलस्वार्थामानत्वेऽपीत्यर्थः । तद्विषयस्य तत्करणस्य । स्वार्थे ब्रह्मात्मनीति शेषः । सफलज्ञानकरणत्वेन वेदान्तानां स्वार्थे मानत्वसिद्धेर्न क्रियार्थकत्वं तद्व्यापकमिति भावः ।
ननु माभूद्वेदप्रामाण्यस्य व्यापकं क्रियार्थकत्वम् , व्याप्यं तु भविष्यति, तदभावाद्वेदान्तानां प्रामाण्यं दुर्ज्ञानमिति, नेत्याह -
न चेति ।
येन वेदप्रामाण्यं स्वस्यानुमानगम्यत्वेनान्यत्र क्वचिद्दृष्टं दृष्टान्तमपेक्षेत तदेव नास्तीत्यर्थः । चक्षुरादिवद्वेदस्य स्वतःप्रामाण्यज्ञानान्न तद्व्याप्तिलिङ्गाद्यपेक्षा । प्रामाण्यसंशये तु फलवदज्ञाताबाधितार्थतात्पर्यात्प्रामाण्यनिश्चयो न क्रियार्थत्वेन । कूपे पतेदिति वाक्ये व्यभिचारादिति भावः ।
वर्णकार्थमुपसंहरति -
तस्मादिति ।
समन्वयादित्यर्थः ।