विधिवाक्यानामपि फलवदज्ञातार्थत्वेन प्रामाण्यं तत्तुल्यं वेदान्तानामपीति स्थितम् । एवं पदानां सिद्धेऽर्थे व्युत्पत्तिमिच्छतां ब्रह्मनास्तिकानां मतम् , ब्रह्मणो मानान्तरायोग्यत्वात् , सफलत्वाच्च वेदान्तैकमेयत्वमित्युक्त्या निरस्तम् । सम्प्रति सर्वेषां पदानां कार्यान्वितार्थे शक्तिमिच्छतां विधिशेषत्वेन प्रत्यग्ब्रह्म वेदान्तैर्बोध्यते न स्वातन्त्र्येणेति वदतां वृत्तिकाराणां मतनिरासाय सूत्रस्य वर्णकान्तरमारभ्यते । तत्र वेदान्ताः किमुपासनाविधिशेषत्वेन ब्रह्म बोधयन्ति उत स्वातन्त्र्येणेति सिद्धे व्युत्पत्त्यभावभावाभ्यां संशये पूर्वपक्षमाह -
अत्रापर इति ।
ब्रह्मणो वेदान्तवेद्यत्वोक्तौ वृत्तिकाराः पूर्वपक्षयन्तीत्यर्थः । उपासनातो मुक्तिः पूर्वपक्षे, तत्त्वज्ञानादेवेति सिद्धान्ते फलम् । विधिर्नियोगः तस्य विषयः प्रतिपत्तिरुपासना ।
अस्याः को विषय इत्याकाङ्क्षायां सत्यादिवाक्यैर्विधिपरैरेव ब्रह्मसमर्प्यत इत्याह -
प्रतिपत्तीति ।
विधिविषयप्रतिपत्तिविषयतयेत्यर्थः ।
विधिपराद्वाक्यात्तच्छेषलाभे दृष्टान्तमाह -
यथेति ।
‘यूपे पशुं बध्नाति’ ‘आहवनीये जुहोति’ ‘इन्द्रं यजेत’ इति विधिषु के यूपादय इत्याकाङ्क्षायां ‘यूपं तक्षति, अष्टाश्रीकरोति’ इति तक्षणादिसंस्कृतं दारु यूपः । ‘अग्नीनादधीत’ इत्याधानसंस्कृतोऽग्निराहवनीयः । ‘वज्रहस्तः पुरन्दरः’ इति विधिपरैरेव वाक्यैः समर्प्यन्ते तद्वद्ब्रह्मेत्यर्थः । विधिपरवाक्यस्यापि अन्यार्थबोधित्वे वाक्यभेदः स्यादिति शङ्कानिरासार्थमपिशब्दः । मानान्तराज्ञातान्यपि शेषतयोच्यन्ते न प्रधानत्वेनेति न वाक्यभेदः । प्रधानार्थभेदस्यैव वाक्यभेदकत्वादिति भावः ।
ननूक्तषड्विधलिङ्गैस्तात्पर्यविषयस्य ब्रह्मणः कुतो विधिशेषत्वमिति शङ्कते -
कुत इति ।
वृद्धव्यवहारेण हि शास्त्रतात्पर्यनिश्चयः । वृद्धव्यवहारे च श्रोतुः प्रवृत्तिनिवृत्ती उद्दिश्यापूर्वप्रयोगो दृश्यते । अतः शास्त्रस्यापि ते एव प्रयोजने । ते च कार्यज्ञानजन्ये इति कार्यपरत्वं शास्त्रस्य । ततः कार्यशेषत्वं ब्रह्मण इत्याह -
प्रवृत्तीति ।
शास्त्रस्य नियोगपरत्वे वृद्धसम्मतिमाह -
न तथाहीत्यादिना ।
क्रिया, कार्यम् , नियोगो, विधिः धर्मोऽपूर्वमित्यनर्थान्तरम् ।
को वेदार्थ इत्याकाङ्क्षायां शाबरभाष्यकृतोक्तम् -
दृष्टो हीति ।
तस्य वेदस्य ।
कार्यं वेदार्थ इत्यत्र चोदनासूत्रस्थं भाष्यमाह -
चोदनेति ।
क्रियाया नियोगस्य ज्ञानद्वारा प्रवर्तकं वाक्यं चोदनेत्युच्यत इत्यर्थः ।
शबरस्वामिसम्मतिमुक्त्वा जैमिनिसम्मतिमाह -
तस्य ज्ञानमिति ।
तस्य धर्मस्य ज्ञापकमपौरुषेयविधिवाक्यमुपदेशः । तस्य धर्मेणाव्यतिरेकादित्यर्थः ।
पदानां कार्यान्वितार्थे शक्तिरित्यत्र सूत्रं पठति -
तद्भूतानामिति ।
तत्तत्र वेदे भूतानां सिद्धार्थनिष्ठानां पदानां क्रियार्थेन कार्यवाचिना लिङादिपदेन समाम्नायः सहोच्चारणं कर्तव्यम् । पदार्थज्ञानस्य वाक्यार्थरूपकार्यधीनिमित्तत्वादित्यर्थः । कार्यान्वितार्थे शक्तानि पदानि कार्यवाचिपदेन सह पदार्थस्मृतिद्वारा कार्यमेव वाक्यार्थं बोधयन्तीति भावः ।
फलितमाह -
अत इति ।
यतो वृद्धा एवमाहुः, अतो विधिनिषेधवाक्यमेव शास्त्रम् । अर्थवादादिकं तु तच्छेषतयोपक्षीणम् । तेन कर्मशास्त्रेण सामान्यं शास्त्रत्वम् । तस्माद्वेदान्तानां कार्यपरत्वेनैव अर्थवत्वं स्यादित्यर्थः ।
ननु वेदान्तेषु नियोज्यस्य विधेयस्य चादर्शनात्कथं कार्यधीरिति । तत्राह -
सति चेति ।
ननु धर्मब्रह्मजिज्ञासासूत्रकाराभ्यामिह काण्डद्वयेऽर्थभेद उक्तः, एककार्यार्थत्वे शास्त्रभेदानुपपत्तेः । तत्र काण्डद्वये जिज्ञास्यभेदे सति फलवैलक्षण्यं वाच्यम् । तथा च न मुक्तिफलाय ज्ञानस्य विधेयता, मुक्तेर्विधेयक्रियाजन्यत्वे कर्मफलादविशेषप्रसङ्गादविशेषे जिज्ञास्यभेदासिद्धेः । अतः कर्मफलविलक्षणत्वान्नित्यसिद्धमुक्तेस्तद्व्यञ्जकज्ञानविधिरयुक्त इत्याशङ्कते -
नन्विहेति ।
मुक्तेः कर्मफलाद्वैलक्षण्यमसिद्धमिति तदर्थं ज्ञानं विधेयम् ।
न च तर्हि सफलं कार्यमेव वेदान्तेष्वपि जिज्ञास्यमिति तद्भेदासिद्धिरिति वाच्यम् , इष्टत्वात् । न च ब्रह्मणो जिज्ञास्यत्वसूत्रविरोधः, ज्ञानविधिशेषत्वेन सूत्रकृता ब्रह्मप्रतिपादनादिति परिहरति -
नेति ।
ब्रह्मणो विधिप्रयुक्तत्वं स्फुटयति -
आत्मा वा इति ।
‘ब्रह्म वेद’ इत्यत्र ब्रह्मभावकामो ब्रह्मवेदनं कुर्यादिति विधिः परिणम्यत इति द्रष्टव्यम् । लोकं ज्ञानस्वरूपम् ।
वेदान्तानेवार्थतो दर्शयति -
नित्य इति ।
ननु किं विधिफलमिति तदाह -
तदुपासनादिति ।
प्रत्यग्ब्रह्मोपासनात् ‘ब्रह्मविदाप्नोति परम्’ इति शास्त्रोक्तो मोक्षः स्वर्गवल्लोकाप्रसिद्धः फलमित्यर्थः ।
ब्रह्मणः कर्तव्योपासनाविषयकविधिशेषत्वानङ्गीकारे बाधकमाह -
कर्तव्येति ।
विध्यसम्बद्धसिद्धबोधे प्रवृत्त्यादिफलाभावाद्वेदान्तानां वैफल्यं स्यादित्यर्थः । नन्विति शङ्का स्पष्टार्था ।
दृष्टान्तवैषम्येण परिहरति -
स्यादिति ।
एतदर्थवत्वमेवंचेत्स्यादित्यर्थः ।
एवं शब्दार्थमाह -
यदिति ।
किञ्च यदि ज्ञानादेव मुक्तिस्तदा श्रवणजन्यज्ञानानन्तरं मननादिविधिर्न स्यात् , तद्विधेश्च कार्यसाध्या मुक्तिरित्याह -
श्रोतव्य इति ।
शब्दानां कार्यान्वितशक्तेः, प्रवृत्त्यादिफलस्यैव शास्त्रत्वात् , सिद्धे फलाभावात् , मननादिविधेश्च कार्यपरा वेदान्ता इति पूर्वपक्षमुपसंहरति -
तस्मादिति ।
वेदान्ता न विधिपराः स्वार्थे फलवत्वे सति नियोज्यविधुरत्वात् , नायं सर्प इति वाक्यवत् ।