ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
अत्राभिधीयते; कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात्शारीरं वाचिकं मानसं कर्म श्रुतिस्मृतिसिद्धं धर्माख्यम् , यद्विषया जिज्ञासा अथातो धर्मजिज्ञासा’ (जै. सू. १ । १ । १) इति सूत्रिताअधर्मोऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाज्जिज्ञास्यः परिहारायतयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धेमनुष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयतेततश्च तद्धेतोर्धर्मस्यापि तारतम्यं गम्यतेधर्मतारतम्यादधिकारितारतम्यम्प्रसिद्धं चार्थित्वसामर्थ्यादिकृतमधिकारितारतम्यम्तथा यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनम् , केवलैरिष्टापूर्तदत्तसाधनैर्धूमादिक्रमेण दक्षिणेन पथा गमनम् , तत्रापि सुखतारतम्यम् , तत्साधनतारतम्यं शास्त्रात् यावत्सम्पातमुषित्वा’ (छा. उ. ५ । १० । ५) इत्यस्माद्गम्यतेतथा मनुष्यादिषु स्थावरान्तेषु सुखलवश्चोदनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्तमानःतथोर्ध्वगतेष्वधोगतेषु देहवत्सु दुःखतारतम्यदर्शनात्तद्धेतोरधर्मस्य प्रतिषेधचोदनालक्षणस्य तदनुष्ठायिनां तारतम्यं गम्यतेएवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यमनित्यं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्धम्तथा श्रुतिः वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्तिइति यथावर्णितं संसाररूपमनुवदतिअशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यतेधर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्येतअशरीरत्वमेव धर्मकार्यमिति चेत् , तस्य स्वाभाविकत्वात्अशरीरꣳ शरीरेष्वनवस्थेष्ववस्थितम्महान्तं विभुमात्मानं मत्वा धीरो शोचति’ (क. उ. १ । २ । २२), अप्राणो ह्यमनाः शुभ्रः’ (मु. उ. २ । १ । २), असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४ । ३ । १५) इत्यादिश्रुतिभ्यःअत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम्तत्र किञ्चित्परिणामिनित्यं यस्मिन्विक्रियमाणेऽपि तदेवेदमिति बुद्धिर्न विहन्यते; यथा पृथिव्यादि जगन्नित्यत्ववादिनाम् , यथा वा साङ्ख्यानां गुणाःइदं तु पारमार्थिकं कूटस्थनित्यं व्योमवत्सर्वव्यापि सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयंज्योतिःस्वभावम् , यत्र धर्माधर्मौ सह कार्येण कालत्रयं नोपावर्तेतेतदेतदशरीरत्वं मोक्षाख्यम्अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्अन्यत्र भूताच्च भव्याच्च’ (क. उ. १ । २ । १४) इत्यादिश्रुतिभ्यःअतस्तद्ब्रह्म, यस्येयं जिज्ञासा प्रस्तुतातद्यदि कर्तव्यशेषत्वेनोपदिश्येत, तेन कर्तव्येन साध्यश्चेन्मोक्षोऽभ्युपगम्येत, अनित्य एव स्यात्त्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येतनित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यतेअतो कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तःअपि ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९), क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९), आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १), अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४,) तदात्मानमेवावेदहं ब्रह्मास्मीति, तस्मात्तत्सर्वमभवत्’ (वाजसनेयि ब्रह्मण. उ. १ । ४ । १०), तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरमेव मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्तितथा तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च’ (बृ. उ. १ । ४ । १०) इति ब्रह्मदर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम्यथातिष्ठन्गायतिइति तिष्ठतिगायत्योर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यतेत्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसि’ (प्र. उ. ६ । ८), श्रुतं ह्ये मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति; सोऽहं भगवः शोचामि, तं मा भगवाञ्छोकस्य पारं तारयतु’ (छा. उ. ७ । १ । ३) तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः’ (छा. उ. ७ । २६ । २) इति चैवमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्शयन्तितथा आचार्यप्रणीतं न्यायोपबृंहितं सूत्रम्दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः’ (न्या. सू. १ । १ । २) इतिमिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति चेदं ब्रह्मात्मैकत्वविज्ञानं सम्पद्रूपम्यथा अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव तेन लोकं जयति’ (बृ. उ. ३ । १ । ९) इति चाध्यासरूपम्यथा मनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) आदित्यो ब्रह्मेत्यादेशः’ (छा. उ. ३ । १९ । १) इति मनआदित्यादिषु ब्रह्मदृष्ट्यध्यासःनापि विशिष्टक्रियायोगनिमित्तम् वायुर्वाव संवर्गः’ (छा. उ. ४ । ३ । १) प्राणो वाव संवर्गः’ (छा. उ. ४ । ३ । ३) इतिवत्नाप्याज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम्सम्पदादिरूपे हि ब्रह्मात्मैकत्वविज्ञानेऽभ्युपगम्यमाने, तत्त्वमसि’ (छा. उ. ६ । ८ । ७) अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येतभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः’ (मु. उ. २ । २ । ९) इति चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन्ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) इति चैवमादीनि तद्भावापत्तिवचनानि सम्पदादिरूपत्वे सामञ्जस्येनोपपद्येरन्तस्मान्न सम्पदादिरूपं ब्रह्मात्मैकत्वविज्ञानम्अतो पुरुषव्यापारतन्त्रा ब्रह्मविद्याकिं तर्हि ? प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रैवएवंभूतस्य ब्रह्मणस्तज्ज्ञानस्य कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणःअन्यदेव तद्विदितादथो अविदितादधि’ (के. उ. १ । ४) इति विदिक्रियाकर्मत्वप्रतिषेधात् , येनेदं सर्वं विजानाति तं केन विजानीयात्’ (बृ. उ. २ । ४ । १४) इति तथोपास्तिक्रियाकर्मत्वप्रतिषेधोऽपि भवति — ‘यद्वाचानभ्युदितं येन वागभ्युद्यतेइत्यविषयत्वं ब्रह्मण उपन्यस्य, तदेव ब्रह्म त्वं विद्धि, नेदं यदिदमुपासते’ (के. उ. १ । ५) इतिअविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरिति चेत् , ; अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य हि शास्त्रमिदंतया विषयभूतं ब्रह्म प्रतिपिपादयिषतिकिं तर्हि ? प्रत्यगात्मत्वेनाविषयतया प्रतिपादयत् अविद्याकल्पितं वेद्यवेदितृवेदनादिभेदमपनयतितथा शास्त्रम्यस्यामतं तस्य मतं मतं यस्य वेद सःअविज्ञातं विजानतां विज्ञातमविजानताम्’ (के. उ. २ । ३) दृष्टेर्द्रष्टारं पश्येः’ (बृ. उ. ३ । ४ । २) विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इति चैवमादिअतोऽविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषःयस्य तूत्पाद्यो मोक्षः, तस्य मानसं वाचिकं कायिकं वा कार्यमपेक्षत इति युक्तम्तथा विकार्यत्वे तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् हि दध्यादि विकार्यम् उत्पाद्यं वा घटादि नित्यं दृष्टं लोके आप्यत्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात्; स्वरूपव्यतिरिक्तत्वेऽपि ब्रह्मणो नाप्यत्वम् , सर्वगतत्वेन नित्याप्तस्वरूपत्वात्सर्वेण ब्रह्मण आकाशस्येवनापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेतसंस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्यात् , दोषापनयनेन वा तावद्गुणाधानेन सम्भवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्यनापि दोषापनयनेन, नित्यशुद्धब्रह्मस्वरूपत्वान्मोक्षस्यस्वात्मधर्म एव सन् तिरोभूतो मोक्षः क्रिययात्मनि संस्क्रियमाणेऽभिव्यज्यतेयथा आदर्शे निघर्षणक्रियया संस्क्रियमाणे भास्वरत्वं धर्म इति चेत् , ; क्रियाश्रयत्वानुपपत्तेरात्मनःयदाश्रया हि क्रिया, तमविकुर्वती नैवात्मानं लभतेद्यात्मा क्रियया विक्रियेत, अनित्यत्वमात्मनः प्रसज्येत । ‘अविकार्योऽयमुच्यते’(भ. गी. २ । २५) इति चैवमादीनि वाक्यानि बाध्येरन्तच्चानिष्टम्तस्मान्न स्वाश्रया क्रिया आत्मनः सम्भवतिअन्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियतेननु देहाश्रयया स्नानाचमनयज्ञोपवीतधारणादिना क्रियया देही संस्क्रियमाणो दृष्टः, ; देहादिसंहतस्यैवाविद्यागृहीतस्यात्मनः संस्क्रियमाणत्वात्प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायित्वम्तया देहाश्रयया तत्संहत एव कश्चिविद्ययात्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम्यथा देहाश्रयचिकित्सानिमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलम् , ‘अहमरोगःइति यत्र बुद्धिरुत्पद्यतेएवं स्नानाचमनयज्ञोपवीतधारणादिकयाअहं शुद्धः संस्कृतःइति यत्र बुद्धिरुत्पद्यते, संस्क्रियते देहेन संहत एवतेनैव ह्यहंकर्त्रा अहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्तेतत्फलं एवाश्नाति, तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति’ (मु. उ. ३ । १ । १) इति मन्त्रवर्णात्आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः’ (क. उ. १ । ३ । ४) इति तथा एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माकर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च’ (श्वे. उ. ६ । ११) इति, पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम्’ (ई. उ. ८) इति, एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां ब्रह्मणो दर्शयतःब्रह्मभावश्च मोक्षःतस्मान्न संस्कार्योऽपि मोक्षःअतोऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं शक्यं केनचिद्दर्शयितुम्तस्माज्ज्ञानमेकं मुक्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यतेननु ज्ञानं नाम मानसी क्रिया, ; वैलक्षण्यात्क्रिया हि नाम सा, यत्र वस्तुस्वरूपनिरपेक्षैव चोद्यते, पुरुषचित्तव्यापाराधीना , यथायस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यन्’(ऐ॰ब्रा॰ ३-१-८) इति, सन्ध्यां मनसा ध्यायेत्’ (ऐ. ब्रा. ३ । ८ । १) इति चैवमादिषुध्यानं चिन्तनं यद्यपि मानसम् , तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यम् , पुरुषतन्त्रत्वात्ज्ञानं तु प्रमाणजन्यम्प्रमाणं यथाभूतवस्तुविषयम्अतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुमशक्यम्केवलं वस्तुतन्त्रमेव तत्; चोदनातन्त्रम् , नापि पुरुषतन्त्रम्तस्मान्मानसत्वेऽपि ज्ञानस्य महद्वैलक्षण्यम्यथा पुरुषो वाव गौतमाग्निः’ (छा. उ. ५ । ७ । १) योषा वाव गौतमाग्निः’ (छा. उ. ५ । ८ । १) इत्यत्र योषित्पुरुषयोरग्निबुद्धिर्मानसी भवतिकेवलचोदनाजन्यत्वात् क्रियैव सा पुरुषतन्त्रा या तु प्रसिद्धेऽग्नावग्निबुद्धिः, सा चोदनातन्त्रा; नापि पुरुषतन्त्राकिं तर्हि ? प्रत्यक्षविषयवस्तुतन्त्रैवेति ज्ञानमेवैतत्; क्रियाएवं सर्वप्रमाणविषयवस्तुषु वेदितव्यम्त्रैवं सति यथाभूतब्रह्मात्मविषयमपि ज्ञानं चोदनातन्त्रम्तद्विषये लिङादयः श्रूयमाणा अपि अनियोज्यविषयत्वात्कुण्ठीभवन्ति उपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत् , अहेयानुपादेयवस्तुविषयत्वात्किमर्थानि तर्हि आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ (बृ. उ. २ । ४ । ५) इत्यादीनि विधिच्छायानि वचनानि ? स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीति ब्रूमःयो हि बहिर्मुखः प्रवर्तते पुरुषःइष्टं मे भूयादनिष्टं मा भूत्इति, तत्रात्यन्तिकं पुरुषार्थं लभते, मात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविकात्कार्यकरणसङ्घातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्तिआत्मा वा अरे द्रष्टव्यःइत्यादीनि; तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्यतेइदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् ... केन कं विजानीयात्’ (बृ. उ. ४ । ५ । १५) विज्ञातारमरे केन विजानीयात्’ (बृ. उ. २ । ४ । १४) अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) इत्यादिभिःयदप्यकर्तव्यप्रधानमात्मज्ञानं हानायोपादानाय वा भवतीति, त्तथैवेत्यभ्युपगम्यतेअलङ्कारो ह्ययमस्माकम्यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेतितथा श्रुतिःआत्मानं चेद्विजानीयादयमस्मीति पूरुषःकिमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्’ (बृ. उ. ४ । ४ । १२) इति, एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत’ (भ. गी. १५ । २०) इति स्मृतिःतस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम्

अत्रेति ; नेति ; शारीरमित्यादिना वर्णितं संसाररूपमनुवदति इत्यन्तेन ; अधर्मोऽपीति ; तयोरिति ; मनुष्यत्वादीति ; ततश्च ; धर्मेति ; तथेति ; तत्रापि ; तथेति ; तथोर्ध्वमिति ; एवमिति ; तथाचेति ; अशरीरमिति ; धर्मकार्यत्वे हीति ; अशरीरत्वमेवेति ; नेति ; विभुमिति ; अप्राण इति ; अत एवेति ; तत्र किञ्चिदिति ; इदं त्विति ; व्योमवदिति ; सर्वविक्रियारहितमिति ; नित्यतृप्तमिति ; यत्रेति ; कालेति ; अन्यत्रेति ; अत इति ; अत इति ; तद्यदीति ; तत्रैवं सतीति ; अत इति ; अपिचेति ; ब्रह्मेति ; तथेति ; यथेति ; त्वं हीति ; श्रुतमिति ; तथा चेति ; मिथ्येति ; न चेदमित्यादिना ; न चेति ; नापीति ; नाप्याज्येति ; सम्पदादीति ; अत इति ; एवंभूतस्येति ; न चेति ; तथेति ; अविषयत्व इति ; नेति ; नहीति ; तथा चेति ; अविज्ञातमिति ; नेति ; अत इति ; यस्य तु इत्यादिना तस्माज्ज्ञानमेकं मुक्त्वा इत्यन्तेन ; तयोरिति ; न चेति ; स्वात्मेत्यादिना ; नापीत्यादिना ; स्वात्मधर्म इति ; यथेति ; न, क्रियेति ; यदिति ; अन्येति ; नन्विति ; नेति ; कश्चिदिति ; तेनेति ; तयोरिति ; एक इति ; गूढ इति ; सर्वव्यापी सर्वभूतान्तरात्मेति ; चेता केवल इति ; अत इति ; तस्मादिति ; नन्विति ; नेति ; क्रिया हीति ; यथेति ; ध्यानमित्यादिना ; ज्ञानं त्विति ; यथा चेति ; एवं सर्वेति ; तत्रैवं सति ; तद्विषय इति ; अहेयेति ; किमर्थानीति ; स्वाभाविकेति ; यो हीत्यादिना ; तस्येति ; तथा चेति ; तस्मादिति ; अत्रेति ; नेति ; शारीरमित्यादिना यथावर्णितं(यथेति नास्ति्)* संसाररूपमनुवदति इत्यन्तेन ; अधर्मोऽपीति ; तयोरिति ; मनुष्यत्वादीति ; ततश्च ; धर्मेति ; तथेति ; तत्रापि ; तथेति ; तथोर्ध्वेति(तथोर्ध्वमिति)* ; एवमिति ; तथाचेति ; अशरीरमिति ; धर्मकार्यत्वे हीति ; अशरीरत्वमेवेति ; नेति ; विभुमिति ; अप्राण इति ; अत एवेति ; तत्र किञ्चिदिति ; इदं त्विति ; व्योमवदिति ; सर्वविक्रियारहितमिति ; नित्यतृप्तमिति ; यत्रेति ; कालेति ; अन्यत्रेति ; अत इति ; अत इति ; तद्यदीति ; तत्रैवं सतीति ; अत इति ; अपिचेति ; ब्रह्मेति ; तथेति ; यथेति ; त्वं हीति ; श्रुतमिति ; तथा चेति ; मिथ्येति ; न चेदमित्यादिना ; न चेति ; नापीति ; नाप्याज्येति ; सम्पदादीति ; अत इति ; एवंभूतस्येति ; न चेति ; तथेति ; अविषयत्व इति ; नेति ; नहीति ; तथा चेति ; अविज्ञातमिति ; नेति ; अत इति ; यस्य तु इत्यादिना तस्माज्ज्ञानमेकं मुक्त्वा इत्यन्तेन ; तयोरिति ; न चेति ; स्वात्मेत्यादिना ; नापीत्यादिना ; स्वात्मधर्म इति ; यथेति ; न, क्रियेति ; यदिति ; अन्येति ; नन्विति ; नेति ; कश्चिदिति ; तेनेति ; तयोरिति ; एक इति ; गूढ इति ; सर्वव्यापी सर्वभूतान्तरात्मेति ; चेता केवल इति ; अत इति ; तस्मादिति ; नन्विति ; नेति ; क्रिया हीति ; यथेति ; ध्यानमित्यादिना ; ज्ञानं त्विति ; यथा चेति ; एवं सर्वेति ; तत्रैवं सति ; तद्विषय इति ; अहेयेति ; किमर्थानीति ; स्वाभाविकेति ; यो हीत्यादिना ; तस्येति ; तथा चेति ; तस्मादिति ;

‘सोऽरोदीत्’ ‘स्वर्गकामो यजेत’ इति वाक्ययोर्निरासाय हेतौ विशेषणद्वयमिति सिद्धान्तयति -

अत्रेति ।

यदुक्तं मोक्षकामस्य नियोज्यस्य ज्ञानं विधेयमिति, तन्नेत्याह -

नेति ।

मोक्षो न विधिजन्यः, कर्मफलविलक्षणत्वात् , आत्मवदित्यर्थः ।

उक्तहेतुज्ञानाय कर्मतत्फले प्रपञ्चयति -

शारीरमित्यादिना वर्णितं संसाररूपमनुवदति इत्यन्तेन ।

अथ वेदाध्ययनानन्तरम् , अतो - वेदस्य फलवदर्थपरत्वात् , धर्मनिर्णयाय कर्मवाक्यविचारः कर्तव्य इति सूत्रार्थः ।

न केवलं धर्माख्यं कर्म किन्तु अधर्मोऽपीत्याह -

अधर्मोऽपीति ।

निषेधवाक्यप्रमाणत्वादित्यर्थः ।

कर्मोक्त्वा फलमाह -

तयोरिति ।

मोक्षस्तु अतीन्द्रियो विशोकः शरीराद्यभोग्यो विषयाद्यजन्योऽनात्मवित्स्वप्रसिद्ध इति वैलक्षण्यज्ञानाय प्रत्यक्षादीनि विशेषणानि ।

सामान्येन कर्मफलमुक्त्वा धर्मफलं पृथक्प्रपञ्चयति -

मनुष्यत्वादीति ।

‘स एको मानुष आनन्दः’ ततः शतगुणो गन्धर्वादीनामिति श्रुतेरनुभवानुसारित्वमनुशब्दार्थः ।

ततश्च ।

सुखतारतम्यादित्यर्थः । मोक्षस्तु निरतिशयः, तत्साधनं च तत्वज्ञानमेकरूपमिति वैलक्षण्यम् ।

किं च साधनचतुष्टयसम्पन्न एकरूप एव मोक्षविद्याधिकारी, कर्मणि तु नानाविध इति वैलक्षण्यमाह -

धर्मेति ।

गम्यते न केवलं किं तु प्रसिद्धं चेत्यर्थः । अर्थित्वं फलकामित्वम् । सामर्थ्यं लौकिकं पुत्रादि । आदिपदाद्विद्वत्त्वं शास्त्रानिन्दितत्वं च ।

किं च कर्मफलं मार्गप्राप्यम् , मोक्षस्तु नित्याप्त इति भेदमाह -

तथेति ।

उपासनायां चित्तस्थैर्यप्रकर्षादर्चिरादिमार्गेण ब्रह्मलोकगमनं ‘तेऽर्चिषम्’ इत्यादिना श्रूयत इत्यर्थः ।
‘अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् ।
आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥
वापीकूपतडागादि देवतायतनानि च ।
अन्नप्रदानमारामः पूर्तमित्यभिधीयते ॥
शरणागतसन्त्राणं भूतानां चाप्यहिंसनम् ।
बहिर्वेदि च यद्दानं दत्तमित्यभिधीयते ॥ ’

तत्रापि ।

चन्द्रलोकेऽपीत्यर्थः । सम्पतति गच्छति अस्माल्लोकादमुं लोकमनेनेति सम्पातः कर्म । यावत्कर्म भोक्तव्यं तावत्स्थित्वा पुनरायान्तीत्यर्थः ।

मनुष्यत्वादूर्ध्वङ्गतेषु सुखस्य तारतम्यमुक्त्वा अधोगतेषु तदाह -

तथेति ।

इदानीं दुःखतद्धेतुतदनुष्ठायिनां तारतम्यं वदन्नधर्मफलं प्रपञ्चयति -

तथोर्ध्वमिति ।

द्विविधं कर्मफलं मोक्षस्य तद्वैवलक्षण्यज्ञानाय प्रपञ्चितमुपसंहरति -

एवमिति ।

अस्मिताकामक्रोधभयान्यादिशब्दार्थः । ‘ते तं मुक्त्वा स्वर्गलोकं विशालम्’ इत्याद्या स्मृतिः । काष्ठोपचयाज्ज्वालोपचयदर्शनात् , फलतारतम्येन साधनतारतम्यानुमानं न्यायः ।

श्रुतिमाह -

तथाचेति ।

मोक्षो न कर्मफलम् , कर्मफलविरुद्धातीन्द्रियत्वविशोकत्वशरीराद्यभोग्यत्वादिधर्मवत्वात् , व्यतिरेकेण स्वर्गादिवदिति न्यायानुग्राह्यां श्रुतिमाह -

अशरीरमिति ।

वावेत्यवधारणे । तत्त्वतो विदेहं सन्तमात्मानं वैषयिके सुखदुःखे नैव स्पृशत इत्यर्थः ।

मोक्षश्चेदुपासनारूपधर्मफलम् , तदेव प्रियमस्तीति तन्निषेधायोग इत्याह -

धर्मकार्यत्वे हीति ।

ननु प्रियं नाम वैषयिकं सुखं तन्निषिध्यते, मोक्षस्तु धर्मफलमेव, कर्मणां विचित्रदानसामर्थ्यादिति शङ्कते -

अशरीरत्वमेवेति ।

आत्मनो देहासङ्गित्वमशरीरत्वम् , तस्यानादित्वान्न कर्मसाध्यतेत्याह -

नेति ।

अशरीरं स्थूलदेहशून्यम् , देहेष्वनेकेषु अनित्येषु एकं नित्यमवस्थितम् , महान्तं व्यापिनम् ।

आपेक्षिकमहत्त्वं वारयति -

विभुमिति ।

तमात्मानं ज्ञात्वा धीरः सन् शोकोपलक्षितं संसारं नानुभवतीत्यर्थः ।

सूक्ष्मदेहाभावे श्रुतिमाह -

अप्राण इति ।

प्राणमनसोः क्रियाज्ञानशक्त्योर्निषेधात् , तदधीनानां कर्मज्ञानेन्द्रियाणां निषेधो हि यतः, अतः शुद्ध इत्यर्थः । देहद्वयाभावे श्रुतिः ‘असङ्गो हि’ इति ।

निर्देहात्मस्वरूपमोक्षस्यानादिभावत्वे सिद्धे फलितमाह -

अत एवेति ।

नित्यत्वेऽपि परिणामितया धर्मकार्यत्वं मोक्षस्येत्याशङ्क्य नित्यं द्वेधा विभजते -

तत्र किञ्चिदिति ।

नित्यवस्तुमध्य इत्यर्थः । परिणामि च तन्नित्यं चेति परिणामिनित्यम् ।

आत्मा तु कूटस्थनित्य इति न कर्मसाध्य इत्याह -

इदं त्विति ।

परिणामिनो नित्यत्वं प्रत्यभिज्ञाकल्पितं मिथ्यैव । कूटस्थस्य तु नाशकाभावान्नित्यत्वं पारमार्थिकम् ।

कूटस्थत्वसिध्यर्थं परिस्पन्दाभावमाह -

व्योमवदिति ।

परिणामाभावमाह -

सर्वविक्रियारहितमिति ।

फलानपेक्षित्वान्न फलार्थापि क्रियेत्याह -

नित्यतृप्तमिति ।

तृप्तिरनपेक्षत्वम् , विशोकं सुखं वा । निरवयवत्वान्न क्रिया । तस्य भानार्थमपि न क्रिया, स्वयञ्ज्योतिष्ट्वात् । अतः कूटस्थत्वान्न कर्मसाध्यो मोक्ष इत्युक्तम् ।

कर्मतत्कार्यासङ्गित्वाच्च तथेत्याह -

यत्रेति ।

कालानवच्छिन्नत्वाच्चेत्याह -

कालेति ।

कालत्रयं च नोपावर्तत इति योग्यतया सम्बन्धनीयम् ।

धर्माद्यनवच्छेदे मानमाह -

अन्यत्रेति ।

अन्यदित्यर्थः । कृतात्कार्यात् , अकृताच्च कारणात् , भूताद्भव्याच्च, चकाराद्वर्तमानाच्च अन्यद्यत्पश्यसि तद्वदेत्यर्थः ।

ननु उक्ताः श्रुतयो ब्रह्मणः कूटस्थासङ्गित्वं वदन्तु, मोक्षस्य नियोगफलत्वं किं न स्यादिति, तत्राह -

अत इति ।

तत्कैवल्यं ब्रह्मैव । कर्मफलविलक्षणत्वादित्यर्थः । ब्रह्माभेदान्मोक्षस्य कूटस्थत्वं धर्माद्यसङ्गित्वं चेति भावः । यद्वा तज्जिज्ञास्यं तद्ब्रह्म अतः पृथग्जिज्ञास्यत्वाद्धर्माद्यस्पृष्टमित्यर्थः । अतः शब्दाभावपाठेऽप्ययमेवार्थः । ब्रह्मणो विधिस्पर्शो शास्त्रपृथक्त्वं न स्यात् , कार्यविलक्षणानधिगतविषयलाभात् । नहि ब्रह्मात्मैक्यं भेदप्रमाणे जाग्रति विधिपरवाक्याल्लब्धुं शक्यम् । न वा तद्विना विधेरनुपपत्तिः । योषिदग्न्यैक्योपास्तिविधिदर्शनादिति भावः ।

अथवा मोक्षस्य नियोगासाध्यत्वे फलितं सूत्रार्थमाह -

अत इति ।

यदत्र जिज्ञास्यं ब्रह्म तत्स्वतन्त्रमेव वेदान्तैरुपदिश्यते । समन्वयादित्यर्थः ।

विपक्षे दण्डं पातयति -

तद्यदीति ।

तत्रैवं सतीति ।

मोक्षे साध्यत्वेनानित्ये सतीत्यर्थः ।

अत इति ।

मुक्तेर्नियोगासाध्यत्वेन नियोज्यालाभात् । कर्तव्यनियोगाभावादित्यर्थः ।

प्रदीपात्तमोनिवृत्तिवज्ज्ञानादज्ञाननिवृत्तिरूपमोक्षस्य दृष्टफलत्वाच्च न नियोगसाध्यत्वमित्याह -

अपिचेति ।

यो ब्रह्माहमिति वेद स ब्रह्मैव भवति । परं कारणमवरं कार्यं तद्रूपे तदधिष्ठाने तस्मिन्दृष्टे सति अस्य द्रष्टुरनारब्धफलानि कर्माणि नश्यन्ति । ब्रह्मणः स्वरूपमानन्दं विद्वान्निर्भयो भवति, द्वितीयाभावात् । अभयं ब्रह्म प्राप्तोऽसि, अज्ञानहानात्तज्जीवाख्यं ब्रह्म गुरूपदेशादात्मानमेव अहं ब्रह्मास्मीत्यवेत् विदितवत् । तस्माद्वेदनात्तद्ब्रह्म पूर्णमभवत् । परिच्छेदभ्रान्तिहानादेकत्वम् , अहं ब्रह्म इत्यनुभवतस्तत्रानुभवकाले मोहशोकौ न स्त इति श्रुतीनामर्थः ।

तासां तात्पर्यमाह -

ब्रह्मेति ।

विद्यातत्फलयोर्मध्य इत्यर्थः । मोक्षस्य विधिफलत्वे स्वर्गादिवत्कालान्तरभावित्वं स्यात् , तथा च श्रुतिबाध इति भावः ।

इतश्च मोक्षो वैधो नेत्याह -

तथेति ।

तद्ब्रह्मैतत्प्रत्यगस्मीति पश्यन् तस्माज्ज्ञानात् वामदेवो मुनीन्द्रः शुद्धं ब्रह्म प्रतिपेदे ह तत्र ज्ञाने तिष्ठन् दृष्टवानात्ममन्त्रान् स्वस्य सर्वात्मत्वप्रकाशकान् ‘अहं मनुः’ इत्यादीन्ददर्शेत्यर्थः ।

यद्यपि स्थितिर्गानक्रियाया लक्षणम् , ब्रह्मदर्शनं तु ब्रह्मप्रतिपत्तिक्रियाया हेतुरिति वैषम्यमस्ति तथापि ‘लक्षणहेत्वोः क्रियायाः’ इति सूत्रेण क्रियां प्रति लक्षणहेत्वोरर्थयोर्वर्तमानाद्धातोः परस्य लटः शतृशानचावादेशौ भवत इति विहितशतृप्रत्ययसामर्थ्यात्तिष्ठन्गायति इत्युक्ते तत्कर्तृकं कार्यान्तरं मध्ये न भातीत्येतावता पश्यन् प्रतिपेदे इत्यस्य दृष्टान्तमाह -

यथेति ।

किं च ज्ञानादज्ञाननिवृत्तिः श्रूयते । ज्ञानस्य विधेयत्वे कर्मत्वादविद्यानिवर्तकत्वं न युक्तम् , अतो बोधका एव वेदान्ता न विधायका इत्याह -

त्वं हीति ।

भारद्वाजादयः षडृषयः पिप्पलादं गुरुं पादयोः प्रणम्य ऊचिरे - त्वं खल्वस्माकं पिता । यस्त्वमविद्यामहोदधेः परं पुनरावृत्तिशून्यं पारं ब्रह्म विद्याप्लवेनास्मांस्तारयसि प्रापयसि । ज्ञानेनाज्ञानं नाशयसीति यावत् ।

प्रश्नवाक्यमुक्त्वा छान्दोग्यमाह -

श्रुतमिति ।

अत्र ‘तारयतु’ इत्यन्तमुपक्रमस्थम् , शेषमुपसंहारस्थमिति भेदः । आत्मविच्छोकं तरतीति भगवत्तुल्येभ्यो मया श्रुतमेव हि न दृष्टम् , सोऽहमज्ञत्वात् हे भगवः, शोचामि, तं शोचन्तं मां भगवानेव ज्ञानप्लवेन शोकसागरस्य परं पारं प्रापयत्विति नारदेनोक्तः सनत्कुमारस्तस्मै तपसा दग्धकिल्बिषाय नारदाय तमसः शोकनिदानाज्ञानस्य ज्ञानेन निवृत्तिरूपं पारं ब्रह्म दर्शितवानित्यर्थः । ‘एतद्यो वेदसोऽविद्याग्रन्थिं विकिरति’ इति वाक्यमादिशब्दार्थः ।

एवं श्रुतेस्तत्त्वप्रमा मुक्तिहेतुर्न कर्मेत्युक्तम् । तत्राक्षपादगौतममुनिसंमतिमाह -

तथा चेति ।

गौरोऽहमिति मिथ्याज्ञानस्यापाये रागद्वेषमोहादिदोषाणां नाशः, दोषापायाद्धर्माधर्मस्वरूपप्रवृत्तेरपायः, प्रवृत्यपायात्पुनर्देहप्राप्तिरूपजन्मापायः, एवं पाठक्रमेणोत्तरोत्तरस्य हेतुनाशान्नाशे सति तस्य प्रवृत्तिरूपहेतोरनन्तरस्य कार्यस्य जन्मनोऽपायाद्दुःखध्वंसरूपोऽपवर्गो भवतीत्यर्थः ।

ननु पूर्वसूत्रे ‘तत्त्वज्ञानान्निःश्रेयसाधिगमः’ इत्युक्ते सतीतरपदार्थभिन्नात्मतत्त्वज्ञानं कथं मोक्षं साधयतीत्याकाङ्क्षायां मिथ्याज्ञाननिवृत्तिद्वारेणेति वक्तुमिदं सूत्रं प्रवृत्तम् । तथा च भिन्नात्मज्ञानान्मुक्तिं वदत्सूत्रं सम्मतं चेत्परमतानुज्ञा स्यादित्यत आह -

मिथ्येति ।

तत्त्वज्ञानान्मुक्तिरित्यंशे सम्मतिरुक्ता भेदज्ञानं तु ‘यत्र हि द्वैतमिव भवति’ इति श्रुत्या भ्रान्तित्वात् ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इति श्रुत्या अनर्थहेतुत्वाच्च न मुक्तिहेतुरिति भावः ।

ननु ब्रह्मात्मैकत्वविज्ञानमपि भेदज्ञानवन्न प्रमा, सम्पदादिरूपत्वेन भ्रान्तित्वादित्यत आह -

न चेदमित्यादिना ।

अल्पालम्बनतिरस्कारेणोत्कृष्टवस्त्वभेदध्यानं सम्पत् , यथा मनःस्ववृत्त्यानन्त्यादनन्तम् , तत उत्कृष्टा विश्वेदेवा अप्यनन्ता इत्यनन्तत्वसाम्यात् विश्वेदेवा एव मन इति सम्पत्तयानन्तफलप्राप्तिर्भवति तथा चेतनत्वसाम्याज्जीवे ब्रह्माभेदः सम्पदिति न चेत्यर्थः ।

आलम्बनस्य प्राधान्येन ध्यानं प्रतीकोपास्तिरध्यासः । यथा ब्रह्मदृष्ट्या मनस आदित्यस्य वा । तथा अहं ब्रह्मेति ज्ञानमध्यासो नेत्याह -

न चेति ।

आदेश उपदेशः ।

क्रियाविशेषो विशिष्टक्रिया तथा योगो निमित्तं यस्य ध्यानस्य तत्तथा । यथा प्रलयकाले वायुरग्न्यादीन्संवृणोति संहरतीति संवर्गः, स्वापकाले प्राणो वागादीन्संहरतीति संहारक्रियायोगात्संवर्ग इति ध्यानं छान्दोग्ये विहितम् , तथा वृद्धिक्रियायोगाज्जीवो ब्रह्मेति ज्ञानमिति नेत्याह -

नापीति ।

यथा ‘पत्न्यवेक्षितमाज्यं भवति’ इति उपांशुयाजाद्यङ्गस्याज्यस्य संस्कारकमवेक्षणं विहितं तथा कर्मणि कर्तृत्वेनाङ्गस्यात्मनः संस्कारार्थं ब्रह्मज्ञानं नेत्याह -

नाप्याज्येति ।

प्रतिज्ञाचतुष्टये हेतुमाह -

सम्पदादीति ।

उपक्रमादिलिङ्गैर्ब्रह्मात्मैकत्ववस्तुनि प्रमितिहेतुर्यः समानाधिकरणवाक्यानां पदनिष्ठः समन्वयस्तात्पर्यं निश्चितं तत्पीड्येत । किं च एकत्वज्ञानादाज्ञानिकहृदयस्यान्तःकरणस्य यो रागादिग्रन्थिश्चिन्मयस्तादात्म्यरूपाहङ्कारग्रन्थिर्वा नश्यतीत्यज्ञाननिवृत्तिफलवाक्यबाधः स्यात् , सम्पदादिज्ञानस्याप्रमात्वेनाज्ञानानिवर्तकत्वात् । किञ्च जीवस्य ब्रह्मत्वसम्पदा कथं तद्भावः । पूर्वरूपे स्थिते नष्टे वान्यस्यान्यात्मतायोगात् । तस्मान्न सम्पदादिरूपमित्यर्थः ।

सम्पदादिरूपत्वाभावे फलितमाह -

अत इति ।

प्रमात्वान्न कृतिसाध्या किं तर्हि नित्यैव । न प्रमाणसाध्येत्यर्थः ।

उक्तरीत्या सिद्धब्रह्मरूपमोक्षस्य कार्यसाध्यत्वं तज्ज्ञानस्य नियोगविषयत्वं च कल्पयितुमशक्यं कृत्यसाध्यत्वादित्याह -

एवंभूतस्येति ।

ननु ब्रह्म कार्याङ्गम् , कारकत्वात्पत्न्यवेक्षणकर्मकारकाज्यवदिति चेत् , किं ज्ञाने ब्रह्मणः कर्मकारकत्वमुतोपासनायाम् । नाद्य इत्याह -

न चेति ।

शाब्दज्ञानं विदिक्रियाशब्दार्थः - विदितं कार्यमविदितं कारणं तस्मादधि अन्यदित्यर्थः । येनात्मना इदं सर्वं दृश्यं लोको जानाति तं केन करणेन जानीयात् । तस्मादविषय आत्मेत्यर्थः ।

न द्वितीय इत्याह -

तथेति ।

‘यन्मनसा न मनुते’ इति श्रुत्या लोको मनसा यद्ब्रह्म न जानातीत्यविषयत्वमुक्त्वा तदेवावेद्यं ब्रह्म त्वं विद्धि । तत्तूपाधिविशिष्टं देवतादिकमित्युपासते जना नेदं ब्रह्मेत्यर्थः ।

ब्रह्मणः शाब्दबोधाविषयत्वे प्रतिज्ञाहानिरिति शङ्कते -

अविषयत्व इति ।

वेदान्तजन्यवृत्तिकृताविद्यानिवृत्तिफलशालितया शास्त्रप्रमाणकत्वं वृत्तिविषयत्वेऽपि स्वप्रकाशब्रह्मणो वृत्त्यभिव्यक्तस्फुरणाविषयत्वादप्रमेयत्वमिति परिहरति -

नेति ।

परत्वात्फलत्वादित्यर्थः । निवृत्तिरूपब्रह्मतात्पर्यादिति वार्थः ।

उक्तं विवृणोति -

नहीति ।

चिद्विषयत्वमिदन्त्वम् । अविषयता अनिदन्तया ।

अदृश्यत्वे श्रुतिमाह -

तथा चेति ।

यस्य ब्रह्मामतं चैतन्यविषय इति निश्चयस्तेन सम्यगवगतम् । यस्य त्वज्ञस्य ब्रह्म चैतन्यविषय इति मतं स न वेद ।

उक्तमेव दार्ढ्यार्थमनुवदति -

अविज्ञातमिति ।

अविषयतया ब्रह्म विजानतामविज्ञातमदृश्यमिति पक्षः । अज्ञानां तु ब्रह्म विज्ञातं दृश्यमिति पक्ष इत्यर्थः ।

दृष्टेर्द्रष्टारं चाक्षुषमनोवृत्तेः साक्षिणम् , अनया दृश्यया दृष्ट्या न पश्येर्विज्ञातेर्बुद्धिवृत्तेर्निश्चयरूपायाः साक्षिणं तथा न विषयीकुर्यादित्याह -

नेति ।

नन्वविद्यादिनिवर्तकत्वेन शास्त्रस्य प्रामाण्येऽपि निवृत्तेरागन्तुकत्वान्मोक्षस्यानित्यत्वं स्यादिति नेत्याह -

अत इति ।

तत्त्वज्ञानादित्यर्थः । ध्वंसस्य नित्यत्वादात्मरूपत्वाच्च नानित्यत्वप्रसङ्ग इत्यर्थः ।

उत्पत्तिविकाराप्तिसंस्काररूपं चतुर्विधमेव क्रियाफलं तद्भिन्नत्वान्मोक्षस्य नोपासनासाध्यत्वमित्याह -

यस्य तु इत्यादिना तस्माज्ज्ञानमेकं मुक्त्वा इत्यन्तेन ।

तथा उत्पाद्यत्ववत्विकार्यत्वे चापेक्षत इति युक्तमित्यन्वयः ।

दूषयति -

तयोरिति ।

स्थितस्यावस्थान्तरं विकारः ।

नन्वनित्यत्वनिरासाय क्रियया स्थितस्यैव ब्रह्मणो ग्रामवदाप्तिरस्तु, नेत्याह -

न चेति ।

ब्रह्म जीवाभिन्नं न वा । उभयथाप्याप्तत्वान्न क्रियापेक्षेत्याह -

स्वात्मेत्यादिना ।

यथा व्रीहीणां संस्कार्यत्वेन प्रोक्षणापेक्षा तथा मोक्षस्य नेत्याह -

नापीत्यादिना ।

गुणाधानं व्रीहिषु प्रोक्षणादिना, क्षालनादिना वस्त्रादौ मलापनयः ।

शङ्कते -

स्वात्मधर्म इति ।

ब्रह्मात्मस्वरूप एव मोक्षोऽनाद्यविद्यामलावृत उपासनया मले नष्टेऽभिव्यज्यत इत्यत्र दृष्टान्तः -

यथेति ।

संस्कारो मलनाशः । किमात्मनि मलः सत्यः कल्पितो वा । द्वितीये ज्ञानादेव तन्नाशो न क्रियया । आद्ये क्रिया किमात्मनिष्ठा अन्यनिष्ठा वा । नाद्य इत्याह -

न, क्रियेति ।

अनुपपत्तिं स्फुटयति -

यदिति ।

क्रिया हि स्वाश्रये संयोगादिविकारमकुर्वती न जायत इत्यर्थः । तच्च वाक्यबाधनम् ।

न द्वितीय इत्याह -

अन्येति ।

अविषयत्वात् । क्रियाश्रयद्रव्यासंयोगित्वादिति यावत् । दर्पणं तु सावयवं क्रियाश्रयेष्टकाचूर्णादिद्रव्यसंयोगित्वात्संस्क्रियत इति भावः ।

अन्यक्रिययान्यो न संस्क्रियत इत्यत्र व्यभिचारं शङ्कते -

नन्विति ।

आत्मनो मूलाविद्याप्रतिबिम्बितत्वेन गृहीतस्य नरोऽहमिति भ्रान्त्या देहतादात्म्यमापन्नस्य क्रियाश्रयत्वभ्रान्त्या संस्कार्यत्वभ्रमान्न व्यभिचार इत्याह -

नेति ।

कश्चिदिति ।

अनिश्चितब्रह्मस्वरूप इत्यर्थः । यत्रात्मनि विषये आरोग्यबुद्धिरुत्पद्यते तस्य देहसंहतस्यैवारोग्यफलमित्यन्वयः ।

ननु देहाभिन्नस्य कथं संस्कारः, तस्यामुष्मिकफलभोक्तृत्वायोगादित्यत आह -

तेनेति ।

देहसंहतेनैवान्तःकरणप्रतिबिम्बात्मना कर्ताहमिति भासमानेन प्रत्ययाः कामादयो मनस्तादात्म्यादस्य सन्तीति प्रत्ययिना क्रियाफलं भुज्यत इत्यर्थः । मनोविशिष्टस्यामुष्मिकभोक्तुः संस्कारो युक्त इति भावः ।

विशिष्टस्य भोक्तृत्वं न केवलस्य साक्षिण इत्यत्र मानमाह -

तयोरिति ।

प्रमातृसाक्षिणोर्मध्ये सत्त्वसंसर्गमात्रेण कल्पितकर्तृत्वादिमान् प्रमाता पिप्पलं कर्मफलं भुङ्क्ते, स एव शोधितत्वेनान्यः साक्षितया प्रकाशत इत्यर्थः । आत्मा देहः । देहादियुक्तं प्रमात्रात्मानमित्यर्थः ।

एवं सोपाधिकस्य चिद्धातोर्मिथ्यासंस्कार्यत्वमुक्त्वा निरुपाधिकस्यासंस्कार्यत्वे मानमाह -

एक इति ।

सर्वभूतेष्वद्वितीय एको देवः स्वप्रकाशः ।

तथापि मायावृतत्वान्न प्रकाशत इत्याह -

गूढ इति ।

ननु जीवेनासम्बन्धाद्भिन्नत्वाद्वा देवस्याभानं न तु मायागूहनादिति, नेत्याह -

सर्वव्यापी सर्वभूतान्तरात्मेति ।

देवस्य विभुत्वात्सर्वप्राणिप्रत्यक्त्वाच्चावरणादेवाभानमित्यर्थः । प्रत्यक्त्वे कर्तृत्वं स्यादिति चेन्न, कर्माध्यक्षः । क्रियासाक्षीत्यर्थः । तर्हि साक्ष्यमस्तीति द्वैतापत्तिः । न सर्वभूतानामधिष्ठानं भूत्वा साक्षी भवति । साक्ष्यमधिष्ठाने साक्षिणि कल्पितमिति भावः ।

साक्षिशब्दार्थमाह -

चेता केवल इति ।

बोद्धृत्वे सति अकर्ता साक्षीति लोकप्रसिद्धम् । चकारो दोषाभावसमुच्चयार्थः । निर्गुणत्वान्निर्दोषत्वाच्च गुणो दोषनाशो वा संस्कारो नेत्यर्थः । ‘सः’ इत्युपक्रमाच्छुक्रादिशब्दाः पुंस्त्वेन वाच्याः । स एव आत्मा परि सर्वमगात् व्याप्तः, शुक्रो दीप्तिमान् , अकायो लिङ्गशून्यः, अव्रणोऽक्षतः, अस्नाविरः शिराविधुरः अनश्वर इति वा । आभ्यां पदाभ्यां स्थूलदेहशून्यत्वमुक्तम् । शुद्धो रागादिमलशून्यः । अपापविद्धः पुण्यपापाभ्यामसंस्पृष्ट इत्यर्थः ।

अत इति ।

उत्पत्त्याप्तिविकारसंस्कारेभ्योऽन्यत्पञ्चमं क्रियाफलं नास्ति, यन्मोक्षस्य क्रियासाध्यत्वे द्वारं भवेदित्यर्थः ।

ननु मोक्षस्यासाध्यत्वे शास्त्रारम्भो वृथा । न । ज्ञानार्थत्वादित्याह -

तस्मादिति ।

द्वाराभावादित्यर्थः ।

व्याघातं शङ्कते -

नन्विति ।

तथा च मोक्षे क्रियानुप्रवेशो नास्तीति व्याहतमिति भावः ।

मानसमपि ज्ञानं न विधियोग्या क्रिया, वस्तुतन्त्रत्वात् , कृत्यसाध्यत्वाच्चेत्याह -

नेति ।

वैलक्षण्यं प्रपञ्चयति -

क्रिया हीति ।

यत्र विषये तदनपेक्षयैव या चोद्यते तत्र सा हि क्रियेति योजना ।

विषयवस्त्वनपेक्षा, कृतिसाध्या च क्रियेत्यत्र दृष्टान्तमाह -

यथेति ।

गृहीतमध्वर्युणेति शेषः । वषट्करिष्यन्होता, सन्ध्यां देवतामिति चैवमादिवाक्येषु यथा यादृशी ध्यानक्रिया वस्त्वनपेक्षा पुन्तन्त्रा च चोद्यते तादृशी क्रियेत्यर्थः ।

ध्यानमपि मानसत्वाज्ज्ञानवन्न क्रियेत्यत आह -

ध्यानमित्यादिना ।

तथापि क्रियैवेति शेषः । कृत्यसाध्यत्वमुपाधिरिति भावः ।

ध्यानक्रियामुक्त्वा ततो वैलक्षण्यं ज्ञानस्य स्फुटयति -

ज्ञानं त्विति ।

अतः प्रमात्वान्न चोदनातन्त्रं न विधेर्विषयः । पुरुषः कृतिद्वारा तन्त्रं हेतुर्यस्य तत्पुरुषतन्त्रम् , तस्माद्वस्त्वव्यभिचारादपुन्तन्त्रत्वाच्च ध्यानाज्ज्ञानस्य महान्भेद इत्यर्थः ।

भेदमेव दृष्टान्तान्तरेणाह -

यथा चेति ।

अभेदसत्त्वेऽपि विधितो ध्यानं कर्तुं शक्यम् , न ज्ञानमित्यर्थः ।

ननु प्रत्यक्षज्ञानस्य विषयजन्यतया तत्तन्त्रत्वेऽपि शाब्दबोधस्य तदभावाद्विधेयक्रियात्वमिति नेत्याह -

एवं सर्वेति ।

शब्दानुमानाद्यर्थेष्वपि ज्ञानमविधेयक्रियात्वेन ज्ञातव्यम् । तत्रापि मानादेव ज्ञानस्य प्राप्तेर्विध्ययोगादित्यर्थः ।

तत्रैवं सति ।

लोके ज्ञानस्याविधेयत्वे सतीत्यर्थः । यथाभूतत्वमबाधितत्वम् ।

ननु ‘आत्मानं पश्येत्’ ‘ब्रह्म त्वं विद्धि’ ‘आत्मा द्रष्टव्यः’ इति विज्ञाने लिङ्लोट्तव्यप्रत्यया विधायकाः श्रूयन्ते, अतो ज्ञानं विधेयमित्यत आह -

तद्विषय इति ।

तस्मिन् ज्ञानरूपविषये विधयः पुरुषं प्रवर्तयितुमशक्ता भवन्ति । अनियोज्यं कृत्यसाध्यं नियोज्यशून्यं वा ज्ञानं तद्विषयकत्वादित्यर्थः । ममायं नियोग इति बोद्धा नियोज्यो विषयश्च विधेर्नास्तीति भावः ।

तर्हि ज्ञेयं ब्रह्म विधीयताम् , नेत्याह -

अहेयेति ।

वस्तुस्वरूपो विषयस्तत्त्वात् । ब्रह्मणो निरतिशयस्यासाध्यत्वान्न विधेयत्वमित्यर्थः । उदासीनवस्तुविषयकत्वाच्च ज्ञानं न विधेयम् , प्रवृत्यादिफलाभावादित्यर्थः ।

विधिपदानां गतिं पृच्छति -

किमर्थानीति ।

विधिच्छायानि प्रसिद्धयागादिविधितुल्यानीत्यर्थः ।

विधिप्रत्ययैरात्मज्ञानं परमपुरुषार्थसाधनमिति स्तूयते । स्तुत्या आत्यन्तिकेष्टहेतुत्वभ्रान्त्या या विषयेषु प्रवृत्तिरात्मश्रवणादिप्रतिबन्धिका तन्निवृत्तिफलानि विधिपदानीत्याह -

स्वाभाविकेति ।

विवृणोति -

यो हीत्यादिना ।

तत्र विषयेषु । सङ्घातस्य या प्रवृत्तिः तद्गोचराच्छब्दादेरित्यर्थः । स्रोतश्चित्तवृत्तिप्रवाहः । प्रवृत्तयन्ति ज्ञानसाधनश्रवणादाविति शेषः ।

श्रवणस्वरूपमाह -

तस्येति ।

अन्वेषणं ज्ञानम् । यदिदं जगत्तत्सर्वमात्मैवेत्यनात्मबाधेनात्मा बोध्यते । अद्वितीयादृश्यात्मबोधे विधिस्तपस्वी द्वैतवनोपजीवनः क्व स्थास्यतीति भावः ।

आत्मज्ञानिनः कर्तव्याभावे मानमाह -

तथा चेति ।

अयं स्वयं परमानन्दः परमात्माहमस्मि इति यदि कश्चित्पुरुष आत्मानं जानीयात्तदा किं फलमिच्छन् , कस्य वा भोक्तुः प्रीतये, शरीरं तप्यमानमनुसञ्ज्वरेत्तप्येत । भोक्तृभोग्यद्वैताभावात्कृतकृत्य आत्मविदित्यभिप्रायः । ज्ञानदौर्लभ्यार्थश्चेच्छब्दः । एतद्गुह्यतमं तत्त्वम् ।

वृत्तिकारमतनिरासमुपसंहरति -

तस्मादिति ।