ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
यदपि केचिदाहुःप्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तीति, तन्नऔपनिषदस्य पुरुषस्यानन्यशेषत्वात्योऽसावुपनिषत्स्वेवाधिगतः पुरुषोऽसंसारी ब्रह्मस्वरूपः उत्पाद्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थोऽनन्यशेषः, नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम् एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यात्मशब्दात् आत्मनश्च प्रत्याख्यातुमशक्यत्वात् , एव निराकर्ता तस्यैवात्मत्वात्न्वात्मा अहंप्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपपन्नम्, तत्साक्षित्वेन प्रत्युक्तत्वात् ह्यहंप्रत्ययविषयकर्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्यात्माअतः केनचित्प्रत्याख्यातुं शक्यः, विधिशेषत्वं वा नेतुम्; आत्मत्वादे सर्वेषाम् हेयो नाप्युपादेयःसर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यतिपुरुषो हि विनाशहेत्वभावादविनाशीविक्रियाहेत्वभावाच्च कूटस्थनित्यःअत एव नित्यशुद्धबुद्धमुक्तस्वभावः; तस्मात् पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’ (क. उ. १ । ३ । ११) तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ. उ. ३ । ९ । २६) इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सु प्राधान्येन प्रकाश्यमानत्वे उपपद्यतेअतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम्

प्राभाकरोक्तमुपन्यस्यति -

यदपि केचिदिति ।

कर्तात्मा लोकसिद्धत्वान्न वेदान्तार्थः । तदन्यद्ब्रह्म नास्त्येव, वेदस्य कार्यपरत्वेन मानाभावादित्यर्थः ।

मानाभावेऽसिद्ध इत्याह -

तन्नेति ।

अज्ञातस्य फलस्वरूपस्यात्मन उपनिषदेकवेद्यस्याकार्यशेषत्वात्कृत्स्नवेदस्य कार्यपरत्वमसिद्धम् । न च प्रवृत्तिनिवृत्तिलिङ्गाभ्यां श्रोतुस्तद्धेतुं कार्यबोधमनुमाय वक्तृवाक्यस्य कार्यपरत्वं निश्चित्य वाक्यस्थपदानां कार्यान्विते शक्तिग्रहान्न सिद्धस्यापदार्थस्य वाक्यार्थत्वमिति वाच्यम् , पुत्रस्ते जात इति वाक्यश्रोतुः पितुर्हर्षलिङ्गेनेष्टं पुत्रजन्मानुमाय पुत्रादिपदानां सिद्धे सङ्गतिग्रहात् , कार्यान्वितापेक्षयान्वितार्थे शक्तिरित्यङ्गीकारे लाघवात् , सिद्धस्यापि वाक्यार्थत्वादित्यलम् ।

किञ्च ब्रह्मणो नास्तित्वादेव कृत्स्नवेदस्य कार्यपरत्वमुत वेदान्तेषु तस्याभानात् , अथ वा कार्यशेषत्वात् , किं वा लोकसिद्धत्वादाहोस्वित् मानान्तरविरोधात् । तत्राद्यं पक्षत्रयं निराचष्टे -

योऽसाविति ।

अनन्यशेषत्वार्थम् ‘असंसारी’ इत्यादि विशेषणम् ।

नास्तित्वाभावे हेतुं वेदान्तमानसिद्धत्वमुक्त्वा हेत्वन्तरमात्मत्वमाह -

स एष इति ।

इतिरिदमर्थे । इदं न इदं न इति सर्वदृश्यनिषेधेन य आत्मा उपदिष्टः स एष इत्यर्थः ।

चतुर्थं शङ्कते -

नन्वात्माहमिति ।

आत्मनोऽहङ्कारादिसाक्षित्वेनाहन्धीविषयत्वस्य निरस्तत्वान्न लोकसिद्धतेत्याह -

नेति ।

यं तीर्थकारा अपि न जानन्ति तस्यालौकिकत्वं किमु वाच्यमित्याह -

नहीति ।

समस्तारतम्यवर्जितः । तत्तन्मते आत्मानधिगतिद्योतकानि विशेषणानि ।

पञ्चमं निरस्यति -

अत इति ।

केनचिद्वादिना प्रमाणेन युक्त्या वेत्यर्थः । अगम्यत्वान्न मानान्तरविरोध इति भावः ।

साक्षी कर्माङ्गम् , चेतनत्वात् , कर्तृवदिति, तत्राह -

विधीति ।

अज्ञातसाक्षिणोऽनुपयोगाज्ज्ञातस्य व्याघातकत्वान्न कर्मशेषत्वमित्यर्थः ।

साक्षिणः सर्वशेषित्वादहेयानुपादेयत्वाच्च न कर्मशेषत्वमित्याह -

आत्मत्वादिति ।

अनित्यत्वेनात्मनो हेयत्वमाशङ्क्याह -

सर्वं हीति ।

परिणामित्वेन हेयतां निराचष्टे -

विक्रियेति ।

उपादेयत्वं निराचष्टे -

अत एवेति ।

निर्विकारित्वादित्यर्थः । उपादेयत्वं हि साध्यस्य न त्वात्मनः । नित्यसिद्धत्वादित्यर्थः ।

परप्राप्त्यर्थमात्मा हेय इत्यत आह -

तस्मात् , पुरुषान्न परं किञ्चिदिति ।

काष्ठा सर्वस्यावधिः ।

एवमात्मनोऽनन्यशेषत्वात् , अबाध्यत्वात् , अपूर्वत्वात् , वेदान्तेषु स्फुटभानाच्च वेदान्तैकवेद्यत्वमुक्तम् । तत्र श्रुतिमाह -

तं त्वेति ।

तं सकारणसूत्रस्याधिष्ठानं पुरुषं पूर्णं हे शाकल्य, त्वा त्वां पृच्छामीत्यर्थः ।

अत इति ।

उक्तलिङ्गैः श्रुत्या च वेदान्तानामात्मवस्तुपरत्वनिश्चयादित्यर्थः ।