ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
यदपि शास्त्रतात्पर्यविदामनुक्रमणम् — ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्इत्येवमादि, तत् धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्टव्यम्अपि आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्इत्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशानर्थक्यप्रसङ्गःप्रवृत्तिनिवृत्तिविधिव्यतिरेकेण भूतं चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः हि भूतमुपदिश्यमानं क्रिया भवतिअक्रियात्वेऽपि भूतस्य क्रियासाधनत्वात्क्रियार्थ एव भूतोपदेश इति चेत् , नैष दोषःक्रियार्थत्वेऽपि क्रियानिर्वर्तनशक्तिमद्वस्तूपदिष्टमेवक्रियार्थत्वं तु प्रयोजनं तस्य चैतावता वस्त्वनुपदिष्टं भवतियदि नामोपदिष्टं किं तव तेन स्यादिति, उच्यतेअनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्हतितदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियत इत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेनअपि ब्राह्मणो हन्तव्यःइति चैवमाद्या निवृत्तिरुपदिश्यते सा क्रियानापि क्रियासाधनम्अक्रियार्थानामुपदेशोऽनर्थकश्चेत् , ‘ब्राह्मणो हन्तव्यःइत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम्तच्चानिष्टम् स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेणनञश्चै स्वभावः, यत्स्वसम्बन्धिनोऽभावं बोधयतीतिअभावबुद्धिश्चौदासीन्यकारणम्सा दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यतितस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेवब्राह्मणो हन्तव्यःइत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजापतिव्रतादिभ्यःतस्मात्पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम्
तत्तु समन्वयात् ॥ ४ ॥
यदपि शास्त्रतात्पर्यविदामनुक्रमणम् — ‘दृष्टो हि तस्यार्थः कर्मावबोधनम्इत्येवमादि, तत् धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधशास्त्राभिप्रायं द्रष्टव्यम्अपि आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्इत्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशानर्थक्यप्रसङ्गःप्रवृत्तिनिवृत्तिविधिव्यतिरेकेण भूतं चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः हि भूतमुपदिश्यमानं क्रिया भवतिअक्रियात्वेऽपि भूतस्य क्रियासाधनत्वात्क्रियार्थ एव भूतोपदेश इति चेत् , नैष दोषःक्रियार्थत्वेऽपि क्रियानिर्वर्तनशक्तिमद्वस्तूपदिष्टमेवक्रियार्थत्वं तु प्रयोजनं तस्य चैतावता वस्त्वनुपदिष्टं भवतियदि नामोपदिष्टं किं तव तेन स्यादिति, उच्यतेअनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्हतितदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियत इत्यविशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेनअपि ब्राह्मणो हन्तव्यःइति चैवमाद्या निवृत्तिरुपदिश्यते सा क्रियानापि क्रियासाधनम्अक्रियार्थानामुपदेशोऽनर्थकश्चेत् , ‘ब्राह्मणो हन्तव्यःइत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम्तच्चानिष्टम् स्वभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेणनञश्चै स्वभावः, यत्स्वसम्बन्धिनोऽभावं बोधयतीतिअभावबुद्धिश्चौदासीन्यकारणम्सा दग्धेन्धनाग्निवत्स्वयमेवोपशाम्यतितस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेवब्राह्मणो हन्तव्यःइत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजापतिव्रतादिभ्यःतस्मात्पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम्

पूर्वोक्तमनुवदति -

यदपीति ।

वेदस्य नैरर्थक्ये शङ्किते तस्यार्थवत्तापरमिदं भाष्यम् -

दृष्टो हीति ।

तत्र ‘फलवदर्थावबोधनम्’ इति वक्तव्ये धर्मविचारप्रक्रमात् ‘कर्मावबोधनम्’ इत्युक्तं नैतावता वेदान्तानां ब्रह्मपरत्वनिरासः । अत एव ‘अनुपलब्धेऽर्थे तत्प्रमाणम्’ इति सूत्रकारो धर्मस्य फलवदज्ञातत्वेनैव वेदार्थतां दर्शयति । तच्चावशिष्टं ब्रह्मण इति न वृद्धवाक्यैर्विरोध इत्याह -

तद्धर्मेति ।

निषेधशास्त्रस्यापि निवृत्तिकार्यपरत्वमस्ति, तत्सूत्रभाष्यवाक्यजातं कर्मकाण्डस्य कार्यपरत्वाभिप्रायमित्यर्थः । वस्तुतस्तु लिङर्थे कर्मकाण्डस्य तात्पर्यम् , लिङर्थश्च, लोके प्रवर्तकज्ञानगोचरत्वेन कॢप्तं यागादिक्रियागतमिष्टसाधनत्वमेव न क्रियातोऽतिरिक्तं कार्यं तस्य कूर्मलोमवदप्रसिद्धत्वादिति तस्यापि पराभिमतकार्यविलक्षणे सिद्धे प्रामाण्यं किमुत ज्ञानकाण्डस्येति मन्तव्यम् ।

किं च वेदान्ताः सिद्धवस्तुपराः, फलवद्भूतशब्दत्वात् , दध्यादिशब्दवदित्याह -

अपि चेति ।

किमक्रियार्थकशब्दानामानर्थक्यमभिधेयाभावः, फलाभावो वा । आद्य आह -

आम्नायस्येति ।

इति न्यायेन एतदभिधेयराहित्यं नियमेनाङ्गीकुर्वतां ‘सोमेन यजेत’ ‘दध्ना जुहोति’ इत्यादि वाक्येषु दधिसोमादिशब्दानामर्थशून्यत्वं स्यादित्यर्थः ।

ननु केनोक्तमभिधेयराहित्यमित्याशङ्क्याह -

प्रवृत्तीति ।

कार्यातिरेकेण भव्यार्थत्वेन कार्यशेषत्वेन दध्यादिशब्दो भूतं वक्ति चेत् , तर्हि सत्यादिशब्दः कूटस्थं न वक्तीत्यत्र को हेतुः, किं कूटस्थस्याक्रियत्वादुताक्रियाशेषत्वाद्वेति प्रश्नः ।

ननु दध्यादेः कार्यान्वयित्वेन कार्यत्वादुपदेशः, न कूटस्थस्याकार्यत्वादित्याद्यमाशङ्क्य निरस्यति -

नहीति ।

दध्यादेः कार्यत्वे कार्यशेषत्वहानिः । अतो भूतस्य कार्याद्भिन्नस्य दध्यादेः शब्दार्थत्वं लब्धमिति भावः ।

द्वितीयं शङ्कते -

अक्रियात्वेऽपीति ।

क्रियार्थः कार्यशेषपरः । कूटस्थस्य त्वकार्यशेषत्वान्नोपदेश इति भावः ।

भूतस्य कार्यशेषत्वं शब्दार्थत्वाय फलाय वा, नाद्य इत्याह -

नैष दोष इति ।

दध्यादेः कार्यशेषत्वे सत्यपि शब्देन वस्तुमात्रमेवोपदिष्टं न कार्यान्वयी शब्दार्थः । अन्वितार्थमात्रे शब्दानां शक्तिरित्यर्थः ।

द्वितीयमङ्गीकरोति -

क्रियार्थत्वं त्विति ।

तस्य भूतविशेषस्य दध्यादेः क्रियाशेषत्वं फलमुद्दिश्याङ्गीक्रियत इत्यर्थः । न तु ब्रह्मण इति तुशब्दार्थः ।

ननु भूतस्य कार्यशेषत्वाङ्गीकारे स्वातन्त्र्येण कथं शब्दार्थतेति, तत्राह -

न चेति ।

फलार्थं शेषत्वाङ्गीकारमात्रेण शब्दार्थत्वभङ्गो नास्ति शेषत्वस्य शब्दार्थतायामप्रवेशादित्यर्थः ।

आनर्थक्यं फलाभाव इति पक्षं शङ्कते -

यदीति ।

यद्यपि दध्यादि स्वतो निष्फलमपि क्रियाद्वारा सफलत्वादुपदिष्टं तथापि कूटस्थब्रह्मवादिनः क्रियाद्वाराभावात्तेन दृष्टान्तेन किं फलं स्यादित्यर्थः ।

भूतस्य साफल्ये क्रियैव द्वारमिति न नियमः, रज्ज्वाः ज्ञानमात्रेण साफल्यदर्शनादित्याह -

उच्यत इति ।

तथैव ।

दध्यादिवदेवेत्यर्थः । दध्यादेः क्रियाद्वारा साफल्यं ब्रह्मणस्तु स्वत इति विशेषे सत्यपि वेदान्तानां सफलभूतार्थकत्वमात्रेण दध्याद्युपदेशसाम्यमित्यनवद्यम् ।

इदानीं वेदान्तानां निषेधवाक्यवत्सिद्धार्थपरत्वमित्याह -

अपि चेति ।

नञः प्रकृत्यर्थेन सम्बन्धात् हननाभावो नञर्थः, इष्टसाधनत्वं तव्यादिप्रत्ययार्थः, इष्टश्चात्र नरकदुःखाभावः, तत्परिपालको हननाभाव इति निषेधवाक्यार्थः । हननाभावो दुःखाभावहेतुरित्युक्तावर्थाद्धननस्य दुःखसाधनत्वधिया पुरुषो निवर्तते । नात्र नियोगः कश्चिदिति, तस्य क्रियातत्साधनदध्यादिविषयत्वात् । न च हननाभावरूपा नञ्वाच्या निवृत्तिः क्रिया, अभावत्वात् । नापि क्रियासाधनम् । अभावस्य भावार्थाहेतुत्वाद्भावार्थासत्त्वाच्चेत्यर्थः । अतो निषेधशास्त्रस्य सिद्धार्थे प्रामाण्यमिति भावः ।

विपक्षे दण्डमाह -

अक्रियेति ।

ननु स्वभावतो रागतः प्राप्तेन हन्त्यर्थेनानुरागेण नञ्सम्बन्धेन हेतुना हननविरोधिनी सङ्कल्पक्रीया बोध्यते, सा च नञर्थरूपा तत्राप्राप्तत्वाद्विधीयते, अहननं कुर्यादिति । तथा च कार्यार्थकमिदं वाक्यमित्याशङ्क्य निषेधति -

न चेति ।

औदासीन्यं पुरुषस्य स्वरूपं तच्च हननक्रियानिवृत्त्युपलक्षितं निवृत्त्यौदासीन्यं हननाभाव इति यावत् । तद्व्यतिरेकेण नञः क्रियार्थत्वं कल्पयितुं न च शक्यमिति योजना । मुख्यार्थस्याभावस्य नञर्थत्वसम्भवे तद्विरोधिक्रियालक्षणाया अन्याय्यत्वात् निषेधवाक्यस्यापि कार्यार्थकत्वे विधिनिषेधभेदविप्लवापत्तेश्चेति भावः ।

ननु तदभाववत्तदन्यतद्विरुद्धयोरपि नञः शक्तिः किं न स्यात् , अब्राह्मणः अधर्म इति प्रयोगदर्शनादिति चेन्न, अनेकार्थत्वस्यान्याय्यत्वादित्याह -

नञश्चेति ।

गवादिशब्दानां तु अगत्या नानार्थकत्वम् , स्वर्गेषुवाग्वज्रादीनां शक्यपशुसम्बन्धाभावेन लक्षणानवतारात् । अन्यविरुद्धयोस्तु लक्ष्यत्वं युक्तम् , शक्यसम्बन्धात् । ब्राह्मणादन्यस्मिन् क्षत्रियादौ, धर्मविरुद्धे वा पापे ब्राह्मणाद्यभावस्य नञ्शक्यस्य सम्बन्धात् । प्रकृते च आख्यातयोगान्नञ्प्रसज्यप्रतिषेधक एव न पर्युदासलक्षकः इति मन्तव्यम् । यद्वा नञः प्रकृत्या न सम्बन्धः प्रकृतेः प्रत्ययार्थोपसर्जनत्वात् , प्रधानसम्बन्धाच्चाप्रधानानां किन्तु प्रकृत्यर्थनिष्ठेन प्रत्ययार्थेनेष्टसाधनत्वेन सम्बन्धो नञः, इष्टं च स्वापेक्षया बलवदनिष्टाननुबन्धि यत्तदेव न तात्कालिकसुखमात्रम् , विषसंयुक्तान्नभोगस्यापि इष्टत्वापत्तेः । तथा च ‘न हन्तव्यः’ हननं बलवदनिष्टासाधनत्वे सति इष्टसाधनं न भवतीत्यर्थः । अत्र च ‘हन्तव्यः’ इति हनने विशिष्टेष्टसाधनत्वं भ्रान्तिप्राप्तमनूद्य नेत्यभावबोधने बलवदनिष्टसाधनं हननमिति बुद्धिर्भवति, हनने तात्कालिकेष्टसाधनत्वरूपविशेष्यसत्वेन विशिष्टाभावाबुद्धेर्विशेषणाभावपर्यवसानात् । विशेषणं बलवदनिष्टासाधनत्वमिति तदभावो बलवदनिष्टसाधनत्वं नञर्थ इति पर्यवसन्नम् ।

तद्बुद्धिरौदासीन्यपरिपालिकेत्याह -

अभावेति ।

चोऽप्यर्थः पक्षान्तरद्योती । प्रकृत्यर्थाभावबुद्धिवत्प्रत्ययार्थाभावबुद्धिरपीत्यर्थः ।

बुद्धेः क्षणिकत्वात्तदभावे सत्यौदासीन्यात्प्रच्युतिरूपा हननादौ प्रवृत्तिः स्यादिति, अत्राह -

सा चेति ।

यथाग्निरिन्धनं दग्ध्वा शाम्यति एवं सा नञर्थाभावबुद्धिः हननादाविष्टसाधनत्वभ्रान्तिमूलं रागेन्धनं दग्ध्वैव शाम्यतीत्यक्षरार्थः । रागनाशे कृते प्रच्युतिरिति भावः । यद्वा रागतः प्राप्ता सा क्रिया रागनाशे स्वयमेव शाम्यतीत्यर्थः ।

परपक्षे तु हननविरोधिक्रिया कार्येत्युक्तेऽपि हननस्येष्टसाधनत्वभ्रान्त्यनिरासात्प्रच्युतिर्दुर्वारा । तस्मात्तदभाव एव नञर्थ इत्युपसंहरति -

तस्मादिति ।

भावार्थाभावेन तद्विषयककृत्यभावात्कार्याभावस्तच्छब्दार्थः । यद्वेत्युक्तपक्षे निवृत्त्युपलक्षितमौदासीन्यं यस्माद्विशिष्टाभावायत्तमेवेति व्याख्येयम् । स्वतःसिद्धस्यौदासीन्यस्य नञर्थसाध्यत्वोपपादनार्थं निवृत्त्युपलक्षितत्वमिति ध्येयम् । ‘तस्य बटोर्व्रतम्’ इत्यनुष्ठेयक्रियावाचिव्रतशब्देन कार्यमुपक्रम्य ‘नेक्षेतोद्यन्तमादित्यम्’ इति प्रजापतिव्रतमुक्तम् । अत उपक्रमबलात्तत्र नञ ईक्षणविरोधिसङ्कल्पक्रियालक्षणाङ्गीकृता । एवमगौरसुरा अधर्म इत्यादौ नामधात्वर्थयुक्तस्य नञः प्रतिषेधवाचित्वायोगात् अन्यविरुद्धलक्षकत्वम् । एतेभ्यः प्रजापतिव्रतादिभ्योऽन्यत्राभावमेव नञर्थं मन्यामह इत्यर्थः । दुःखाभावफलके नञर्थे सिद्धे निषेधशास्त्रमानत्ववद्वेदान्तानां ब्रह्मणि मानत्वमिति भावः ।

तर्ह्यक्रियार्थानामानर्थक्यमिति सूत्रं किंविषयमिति, तत्राह -

तस्मादिति ।

वेदान्तानां स्वार्थे फलवत्वाद्व्यर्थकथाविषयं तदित्यर्थः । यदपीत्यादि स्पष्टार्थम् ।