ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
तत्तु समन्वयात् ॥ ४ ॥
यदप्युक्तम्कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमनर्थकं स्यात्सप्तद्वीपा वसुमतीइत्यादिवदिति, त्परिहृतम् । ‘रज्जुरियम् , नायं सर्पःइति वस्तुमात्रकथनेऽपि प्रयोजनस्य दृष्टत्वात्ननु श्रुतब्रह्मणोऽपि यथापूर्वं संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमित्युक्तम्अत्रोच्यतेनावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुम् , वेदप्रमाणजनितब्रह्मात्मभावविरोधात् हि शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति, तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति, तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापहारनिमित्तं दुःखं भवति कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमानरहितस्य तदेव कुण्डलित्वाभिमाननिमित्तं सुखं भवतितदुक्तं श्रुत्याअशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इतिशरीरे पतितेऽशरीरत्वं स्यात् , जीवत इति चेत् , ; सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्वात् ह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं शक्यं कल्पयितुम्नित्यशरीरत्वमकर्मनिमित्तत्वादित्यवोचामतत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत् , शरीरसम्बन्धस्यासिद्धत्वात् धर्माधर्मयोरात्मकृतत्वासिद्धेः, शरीरसम्बन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गात्अन्धपरम्परैषा अनादित्वकल्पनाक्रियासमवायाभावाच्चात्मनः कर्तृत्वानुपपत्तेःसन्निधानमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति चेत् , धनदानाद्युपार्जितभृत्यसम्बन्धित्वात्तेषां कर्तृत्वोपपत्तेः त्वात्मनो धनदानादिवच्छरीरादिभिः स्वस्वामिभावसम्बन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम्मिथ्याभिमानस्तु प्रत्यक्षः सम्बन्धहेतुःएतेन यजमानत्वमात्मनो व्याख्यातम्अत्राहुःदेहादिव्यतिरिक्तस्यात्मनः आत्मीये देहादावभिमानो गौणः, मिथ्येति चेत् , प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेःयस्य हि प्रसिद्धो वस्तुभेदःयथा केसरादिमानाकृतिविशेषोऽन्वयव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्योऽन्यः प्रसिद्धः, ततश्चान्यः पुरुषः प्रायिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः सम्पन्नः सिद्धः, तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतःनाप्रसिद्धवस्तुभेदस्यतस्य त्वन्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतः, गौणौयथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, यथा वा शुक्तिकायामकस्माद्रजतमिदमिति निश्चितौ शब्दप्रत्ययौ, तद्वद्देहादिसङ्घाते अहम् इति निरुपचारेण शब्दप्रत्ययावात्मानात्माविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदितुम्आत्मानात्मविवेकिनामपि पण्डितानामजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ भवतःतस्माद्देहादिव्यतिरिक्तात्मास्तित्ववादिनां देहादावहंप्रत्ययो मिथ्यैव, गौणःतस्मान्मिथ्याप्रत्ययनिमित्तत्वात्सशरीरत्वस्य, सिद्धं जीवतोऽपि विदुषोऽशरीरत्वम्तथा ब्रह्मविद्विषया श्रुतिःतद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव’ (बृ. उ. ४ । ४ । ७) इति; ‘सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव सवागवागिव समना अमना इव सप्राणोऽप्राण इवइति स्मृतिरपिस्थितप्रज्ञस्य का भाषा’ (भ. गी. २ । ५४) इत्याद्या स्थितप्रज्ञस्य लक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्त्यसम्बन्धं दर्शयतितस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम्यस्य तु यथापूर्वं संसारित्वं नासाववगतब्रह्मात्मभाव इत्यनवद्यम्

अत्रोच्यत इत्यादिना ; तदुक्तं श्रुत्येति ; शरीर इति ; नेत्यादिना ; नित्यमिति ; तत्कृतेति ; नेत्यादिना ; अन्धेति ; क्रियेति ; नेति ; मिथ्येति ; एतेनेति ; अत्राहुः ; नेति ; तस्य त्विति ; शब्दप्रत्ययाविति ; यथा मन्देति ; यथा वेति ; अकस्मादिति ; देहादिव्यतिरिक्तात्मवादिनामिति ; तथा चेति ; इत्यनवद्यमिति ; अत्रोच्यत इत्यादिना ; तदुक्तं श्रुत्येति ; शरीर इति ; नेत्यादिना ; नित्यमिति ; तत्कृतेति ; नेत्यादिना ; अन्धेति ; क्रियेति ; नेति ; मिथ्येति ; एतेनेति ; अत्राहुः ; नेति ; तस्य त्विति ; शब्दप्रत्ययाविति ; यथा मन्देति ; यथा वेति ; अकस्मादिति ; देहादिव्यतिरिक्तात्मास्तित्ववादिनामिति(देहादिव्यतिरिक्तात्मवादिनामिति)* ; तथा चेति ; इत्यनवद्यमिति ;

श्रवणज्ञानमात्रात्संसारानिवृत्तावपि साक्षात्काराज्जीवत एव मुक्तिर्दुरपह्नवेति सदृष्टान्तमाह -

अत्रोच्यत इत्यादिना ।

ब्रह्माहमिति साक्षात्कारविरोधादित्यर्थः ।

तत्त्वविदो जीवन्मुक्तौ मानमाह -

तदुक्तं श्रुत्येति ।

जीवतोऽशरीरत्वं विरुद्धमिति शङ्कते -

शरीर इति ।

आत्मनो देहसम्बन्धस्य भ्रान्तिप्रयुक्तत्वात्तत्त्वधिया तन्नाशरूपमशरीरत्वं जीवतो युक्तमित्याह -

नेत्यादिना ।

असङ्गात्मरूपं त्वशरीरत्वं तत्त्वधिया जीवतो व्यज्यत इत्याह -

नित्यमिति ।

देहात्मनोः सम्बन्धः सत्य इति शङ्कते -

तत्कृतेति ।

तन्नाशार्थं कार्यापेक्षेति भावः ।

आत्मनः शरीरसम्बन्धे जाते धर्माधर्मोत्पत्तिः, तस्यां सत्यां सम्बन्धजन्मेत्यन्योन्याश्रयादेकस्यासिद्ध्या द्वितीयस्याप्यसिद्धिः स्यादिति परिहरति -

नेत्यादिना ।

नन्वेतद्देहजन्यधर्माधर्मकर्मण एतद्देहसम्बन्धहेतुत्वे स्यादन्योन्याश्रयः । पूर्वदेहकर्मण एतद्देहसम्बन्धोत्पत्तिः, पूर्वदेहश्च तत्पूर्वदेहकृतकर्मण इति बीजाङ्कुरवदनादित्वान्नायं दोष इत्यत आह -

अन्धेति ।

अप्रामाणिकीत्यर्थः । न हि बीजादङ्कुरः ततो बीजान्तरं च यथा प्रत्यक्षेण दृश्यते तद्वदात्मनो देहसम्बन्धः पूर्वकर्मकृतः प्रत्यक्षः । नाप्यस्ति कश्चिदागमः । प्रत्युत ‘असङ्गो हि’ इत्यादिश्रुतिः सर्वकर्तृत्वं वारयतीति भावः ।

तत्र युक्तिमाह -

क्रियेति ।

कूटस्थस्य कृत्ययोगान्न कर्तृत्वमित्यर्थः ।

स्वतो निष्क्रियस्यापि कारकसन्निधिना कर्तृत्वमिति शङ्कां दृष्टान्तवैषम्येण निरस्यति -

नेति ।

राजादीनां स्वक्रीतभृत्यकार्ये कर्तृत्वं युक्तं नात्मन इत्यर्थः ।

देहकर्मणोरविद्याभूमौ बीजाङ्कुरवदावर्तमानयोरात्मना सम्बन्धो भ्रान्तिकृत एवेत्याह -

मिथ्येति ।

ननु ‘यजेत’ इति विध्यनुपपत्त्यात्मनः कर्तृत्वमेष्टव्यमिति, तत्राह -

एतेनेति ।

भ्रान्तिकृतेन देहादिसम्बन्धेन यागादिकर्तृत्वमाब्रह्मबोधाद्व्याख्यातमित्यर्थः ।

अत्राहुः ।

प्राभाकरा इत्यर्थः । भ्रान्त्यभावाद्देहसम्बन्धादिकं सत्यमिति भावः ।

भेदज्ञानाभावान्न गौण इत्याह -

नेति ।

प्रसिद्धो ज्ञातो वस्तुनोर्भेदो येन तस्य गौणमुख्यज्ञानाश्रयत्व प्रसिद्धेरित्यर्थः । यस्य तस्य पुंसो गौणौ भवत इत्यन्वयः । शौर्यादिगुणविषयावित्यर्थः ।

तस्य त्विति ।

भेदज्ञानशून्यस्य पुंस इत्यर्थः ।

शब्दप्रत्ययाविति ।

शब्दः शाब्दबोधश्चेत्यर्थः ।

संशयमूलौ तावुदाहरति -

यथा मन्देति ।

यदा संशयमूलयोर्न गौणत्वं तदा भ्रान्तिमूलयोः किं वाच्यमित्याह -

यथा वेति ।

अकस्मादिति ।

अतर्कितादृष्टादिना संस्कारोद्बोधे सतीत्यर्थः । निरुपचारेण गुणज्ञानं विनेत्यर्थः ।

देहादिव्यतिरिक्तात्मवादिनामिति ।

देहात्मवादिनां तु प्रमेत्यभिमान इति भावः ।

जीवन्मुक्तौ प्रमाणमाह -

तथा चेति ।

तत्तत्र जीवन्मुक्तस्य देहे । यथा दृष्टान्तः अहिनिर्ल्वयनी सर्पत्वक् वल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ताभिमाना वर्तते, एवमेवेदं विदुषा त्यक्ताभिमानं शरीरं तिष्ठति । अथ तथा त्वचा निर्मुक्तसर्पवदेवायं देहस्थोऽशरीरः विदुषो देहे सर्पस्य त्वचीवाभिमानाभावादशरीरत्वादमृतः प्राणितीति प्राणो जीवन्नपि ब्रह्मैव, किं तद्ब्रह्म तेजः स्वयञ्ज्योतिरानन्द एवेत्यर्थः । वस्तुतोऽचक्षुरपि बाधितचक्षुराद्यनिवृत्या सचक्षुरिवेत्यादि योज्यम् ।

इत्यनवद्यमिति ।

ब्रह्मात्मज्ञानान्मुक्तिलाभात्सिद्धं वेदान्तानां प्रामाण्यम् , हितशासनाच्छास्त्रत्वं च निर्दोषतया स्थितमित्यर्थः ।