श्रवणज्ञानमात्रात्संसारानिवृत्तावपि साक्षात्काराज्जीवत एव मुक्तिर्दुरपह्नवेति सदृष्टान्तमाह -
अत्रोच्यत इत्यादिना ।
ब्रह्माहमिति साक्षात्कारविरोधादित्यर्थः ।
तत्त्वविदो जीवन्मुक्तौ मानमाह -
तदुक्तं श्रुत्येति ।
जीवतोऽशरीरत्वं विरुद्धमिति शङ्कते -
शरीर इति ।
आत्मनो देहसम्बन्धस्य भ्रान्तिप्रयुक्तत्वात्तत्त्वधिया तन्नाशरूपमशरीरत्वं जीवतो युक्तमित्याह -
नेत्यादिना ।
असङ्गात्मरूपं त्वशरीरत्वं तत्त्वधिया जीवतो व्यज्यत इत्याह -
नित्यमिति ।
देहात्मनोः सम्बन्धः सत्य इति शङ्कते -
तत्कृतेति ।
तन्नाशार्थं कार्यापेक्षेति भावः ।
आत्मनः शरीरसम्बन्धे जाते धर्माधर्मोत्पत्तिः, तस्यां सत्यां सम्बन्धजन्मेत्यन्योन्याश्रयादेकस्यासिद्ध्या द्वितीयस्याप्यसिद्धिः स्यादिति परिहरति -
नेत्यादिना ।
नन्वेतद्देहजन्यधर्माधर्मकर्मण एतद्देहसम्बन्धहेतुत्वे स्यादन्योन्याश्रयः । पूर्वदेहकर्मण एतद्देहसम्बन्धोत्पत्तिः, पूर्वदेहश्च तत्पूर्वदेहकृतकर्मण इति बीजाङ्कुरवदनादित्वान्नायं दोष इत्यत आह -
अन्धेति ।
अप्रामाणिकीत्यर्थः । न हि बीजादङ्कुरः ततो बीजान्तरं च यथा प्रत्यक्षेण दृश्यते तद्वदात्मनो देहसम्बन्धः पूर्वकर्मकृतः प्रत्यक्षः । नाप्यस्ति कश्चिदागमः । प्रत्युत ‘असङ्गो हि’ इत्यादिश्रुतिः सर्वकर्तृत्वं वारयतीति भावः ।
तत्र युक्तिमाह -
क्रियेति ।
कूटस्थस्य कृत्ययोगान्न कर्तृत्वमित्यर्थः ।
स्वतो निष्क्रियस्यापि कारकसन्निधिना कर्तृत्वमिति शङ्कां दृष्टान्तवैषम्येण निरस्यति -
नेति ।
राजादीनां स्वक्रीतभृत्यकार्ये कर्तृत्वं युक्तं नात्मन इत्यर्थः ।
देहकर्मणोरविद्याभूमौ बीजाङ्कुरवदावर्तमानयोरात्मना सम्बन्धो भ्रान्तिकृत एवेत्याह -
मिथ्येति ।
ननु ‘यजेत’ इति विध्यनुपपत्त्यात्मनः कर्तृत्वमेष्टव्यमिति, तत्राह -
एतेनेति ।
भ्रान्तिकृतेन देहादिसम्बन्धेन यागादिकर्तृत्वमाब्रह्मबोधाद्व्याख्यातमित्यर्थः ।
अत्राहुः ।
प्राभाकरा इत्यर्थः । भ्रान्त्यभावाद्देहसम्बन्धादिकं सत्यमिति भावः ।
भेदज्ञानाभावान्न गौण इत्याह -
नेति ।
प्रसिद्धो ज्ञातो वस्तुनोर्भेदो येन तस्य गौणमुख्यज्ञानाश्रयत्व प्रसिद्धेरित्यर्थः । यस्य तस्य पुंसो गौणौ भवत इत्यन्वयः । शौर्यादिगुणविषयावित्यर्थः ।
तस्य त्विति ।
भेदज्ञानशून्यस्य पुंस इत्यर्थः ।
शब्दप्रत्ययाविति ।
शब्दः शाब्दबोधश्चेत्यर्थः ।
संशयमूलौ तावुदाहरति -
यथा मन्देति ।
यदा संशयमूलयोर्न गौणत्वं तदा भ्रान्तिमूलयोः किं वाच्यमित्याह -
यथा वेति ।
अकस्मादिति ।
अतर्कितादृष्टादिना संस्कारोद्बोधे सतीत्यर्थः । निरुपचारेण गुणज्ञानं विनेत्यर्थः ।
देहादिव्यतिरिक्तात्मवादिनामिति ।
देहात्मवादिनां तु प्रमेत्यभिमान इति भावः ।
जीवन्मुक्तौ प्रमाणमाह -
तथा चेति ।
तत्तत्र जीवन्मुक्तस्य देहे । यथा दृष्टान्तः अहिनिर्ल्वयनी सर्पत्वक् वल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ताभिमाना वर्तते, एवमेवेदं विदुषा त्यक्ताभिमानं शरीरं तिष्ठति । अथ तथा त्वचा निर्मुक्तसर्पवदेवायं देहस्थोऽशरीरः विदुषो देहे सर्पस्य त्वचीवाभिमानाभावादशरीरत्वादमृतः प्राणितीति प्राणो जीवन्नपि ब्रह्मैव, किं तद्ब्रह्म तेजः स्वयञ्ज्योतिरानन्द एवेत्यर्थः । वस्तुतोऽचक्षुरपि बाधितचक्षुराद्यनिवृत्या सचक्षुरिवेत्यादि योज्यम् ।
इत्यनवद्यमिति ।
ब्रह्मात्मज्ञानान्मुक्तिलाभात्सिद्धं वेदान्तानां प्रामाण्यम् , हितशासनाच्छास्त्रत्वं च निर्दोषतया स्थितमित्यर्थः ।