ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
ईक्षतेर्नाशब्दम् ॥ ५ ॥
यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते हि प्रधानावस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं सम्भवतिननूक्तं सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भविष्यतीति; तदपि नोपपद्यतेयदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानशक्तिमाश्रित्य सर्वज्ञं प्रधानमुच्येत, कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य किञ्चिज्ज्ञमुच्येतअपि नासाक्षिका सत्त्ववृत्तिर्जानातिना अभिधीयते चाचेतनस्य प्रधानस्य साक्षित्वमस्तितस्मादनुपपन्नं प्रधानस्य सर्वज्ञत्वम्योगिनां तु चेतनत्वात्सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमित्यनुदाहरणम्अथ पुनः साक्षिनिमित्तमीक्षितृत्वं प्रधानस्य कल्प्येत, यथाग्निनिमित्तमयःपिण्डादेर्दग्धृत्वम्तथा सति यन्निमित्तमीक्षितृत्वं प्रधानस्य, तदेव सर्वज्ञं ब्रह्म मुख्यं जगतः कारणमिति युक्तम्यत्पुनरुक्तं ब्रह्मणोऽपि मुख्यं सर्वज्ञत्वमुपपद्यते, नित्यज्ञानक्रियत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यासम्भवादितिअत्रोच्यतेइदं तावद्भवान्प्रष्टव्यःकथं नित्यज्ञानक्रियत्वे सर्वज्ञत्वहानिरितियस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति, सोऽसर्वज्ञ इति विप्रतिषिद्धम्अनित्यत्वे हि ज्ञानस्य, कदाचिज्जानाति कदाचिन्न जानातीत्यसर्वज्ञत्वमपि स्यात्

एतत्कार्यं सूत्राख्यं ब्रह्म । केवलसत्त्ववृत्तेर्ज्ञानत्वमङ्गीकृत्य प्रधानस्य सर्वज्ञत्वं निरस्तम् । सम्प्रति न केवलजडवृत्तिर्ज्ञानशब्दार्थः, किन्तु साक्षिबोधविशिष्टा वृत्तिर्वृत्तिव्यक्तबोधो वा ज्ञानम् । तच्चान्धस्य प्रधानस्य नास्तीत्याह

अपिचेति ।

साक्षित्वमस्ति, येनोक्तज्ञानवत्वं स्यादिति शेषः ।

ननु सत्त्ववृत्तिमात्रेण योगिनां सर्वज्ञत्वमुक्तमित्यत आह

योगिनान्त्त्विति ।

सेश्वरसाङ्ख्यमतमाह

अथेति ।

सर्वज्ञत्वं नाम सर्वगोचरज्ञानवत्वम् , न ज्ञानकर्तृत्वम् , ज्ञानस्य कृत्यसाध्यत्वादिति हृदिकृत्वा पृच्छति

इदं तावदिति ।