ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
ईक्षतेर्नाशब्दम् ॥ ५ ॥
नासौ ज्ञाननित्यत्वे दोषोऽस्तिज्ञाननित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नोपपद्यते इति चेत् , प्रततौष्ण्यप्रकाशेऽपि सवितरिदहति’ ‘प्रकाशयतिइति स्वातन्त्र्यव्यपदेशदर्शनात्ननु सवितुर्दाह्यप्रकाश्यसंयोगे सतिदहति’ ‘प्रकाशयतिइति व्यपदेशः स्यात्; तु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगोऽस्तीति विषमो दृष्टान्तः; असत्यपि कर्मणिसविता प्रकाशतेइति कर्तृत्वव्यपदेशदर्शनात् , एवमसत्यपि ज्ञानकर्मणि ब्रह्मणःतदैक्षतइति कर्तृत्वव्यपदेशोपपत्तेर्न वैषम्यम्कर्मापेक्षायां तु ब्रह्मणि ईक्षितृत्वश्रुतयः सुतरामुपपन्नाःकिं पुनस्तत्कर्म, यत्प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीतितत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमःयत्प्रसादाद्धि योगिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः, किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञानं भवतीतियदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसम्बन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति, तच्चोद्यमवतरति; सवितृप्रकाशवद्ब्रह्मणो ज्ञानस्वरूपनित्यत्वेन ज्ञानसाधनापेक्षानुपपत्तेःअपि चाविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यात्; ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्यमन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां दर्शयतः तस्य कार्यं करणं विद्यते तत्समश्चाभ्यधिकश्च दृश्यतेपरास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया ’ (श्वे. उ. ६ । ८) इतिअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः शृणोत्यकर्णः वेत्ति वेद्यं तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्’ (श्वे. उ. ३ । १९) इति ननु नास्ति तव ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारीनान्योऽतोऽस्ति द्रष्टा ... नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) इतिश्रुतेः; तत्र किमिदमुच्यतेसंसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः, नेश्वरस्येति ? अत्रोच्यतेसत्यं नेश्वरादन्यः संसारी; तथापि देहादिसङ्घातोपाधिसम्बन्ध इष्यत एव, घटकरकगिरिगुहाद्युपाधिसम्बन्ध इव व्योम्नःतत्कृतश्च शब्दप्रत्ययव्यवहारो लोकस्य दृष्टः — ‘घटच्छिद्रम्’ ‘करकच्छिद्रम्इत्यादिः, आकाशाव्यतिरेकेऽपि; तत्कृता चाकाशे घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा; तथेहापि देहादिसङ्घातोपाधिसम्बन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिःदृश्यते चात्मन एव सतो देहादिसङ्घातेऽनात्मन्यात्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वेण पूर्वेणसति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्नं संसारिणःयदप्युक्तं प्रधानस्यानेकात्मकत्वान्मृदादिवत्कारणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति, तत्प्रधानस्याशब्दत्वेनैव प्रत्युक्तम्यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते, प्रधानादीनाम् , तथा प्रपञ्चयिष्यति विलक्षणत्वादस्य ...’ (ब्र. सू. २ । १ । ४) इत्येवमादिना ॥ ५ ॥

सर्वं जानातीति शब्दासाधुत्वं शङ्कते

ज्ञाननित्यत्व इति ।

नित्यस्यापि ज्ञानस्य तत्तदर्थोपहितत्वेन ब्रह्मस्वरूपाद्भेदं कल्पयित्वा कार्यत्वोपचाराद्ब्रह्मणस्तत्कर्तृत्वव्यपदेशः साधुरिति सदृष्टान्तमाह

न, प्रततेति ।

सन्ततेत्यर्थः । असत्यपि अविवक्षितेऽपि ।

ननु प्रकाशतेरकर्मकत्वात्सविता प्रकाशत इति प्रयोगेऽपि जानातेः सकर्मकत्वात्कर्माभावे 'तदैक्षत' इत्ययुक्तमिति, तत्राह

कर्मापेक्षायां त्विति ।

कर्माविवक्षायामपि प्रकाशरूपे सवितरि प्रकाशत इति कथञ्चित्प्रकाशक्रियाश्रयत्वेन कर्तृत्वोपचारवच्चिदात्मन्यपि चिद्रूपेक्षणकर्तृत्वोपचारान्न वैषम्यमित्युक्तं पूर्वम् । अधुना तु कुम्भकारस्य स्वोपाध्यन्तःकरणवृत्तिरूपेक्षणवदीश्वरस्यापि स्वोपाध्यविद्यायाः विविधसृष्टिसंस्कारायाः प्रलयावसानेनोद्बुद्धसंस्कारायाः सर्गोन्मुखः कश्चित्परिणामः सम्भवति, अतः तस्यां सूक्ष्मरूपेण निलीन सर्वकार्यविषयकमीक्षणम् , तस्य कार्यत्वात् कर्मसद्भावाच्च तत्कर्तृत्वं मुख्यमिति द्योतयति

सुतरामिति ।

ननु मायोपाधिकबिम्बचिन्मात्रस्येश्वरस्य कथमीक्षणं प्रति मुख्यं कर्तृत्वम् , कृत्यभावादिति चेन्न, कार्यानुकूलज्ञानवत एव कर्तृत्वादीश्वरस्यापि ईक्षणानुकूलनित्यज्ञानवत्त्वात् । न च नित्यज्ञानेनैव कर्तृत्वनिर्वाहात्किमीक्षणेनेति वाच्यम् , वाय्वादेरेव शब्दवत्त्वसम्भवात्किमाकाशेनेत्यतिप्रसङ्गात् । अतः श्रुतत्वाद्वाय्वादिकारणत्वेनाकाशवदैक्षतेत्यागन्तुकत्वेन श्रुतमीक्षणमाकाशादिहेतुत्वेनाङ्गीकार्यमित्यलम् । अव्याकृते सूक्ष्मात्मना स्थिते व्याकर्तुं स्थूलीकर्तुमिष्टे इत्यर्थः ।

अव्याकृतकार्योपरक्तचैतन्यरूपेक्षणस्य कारकानपेक्षत्वेऽपि वृत्तिरूपेक्षणस्य कारकं वाच्यमित्याशङ्क्याह

अपिचाविद्यादिमत इति ।

यथैकस्य ज्ञानं तथान्यस्यापीति नियमाभावान्मायिनोऽशरीरस्यापि जन्येक्षणकारकत्वमिति भावः ।

ननु यज्जन्यज्ञानं तच्छरीरसाध्यमिति व्याप्तिरस्तीत्याशङ्क्य श्रुतिबाधमाह

मन्त्रौ चेति ।

कार्यं शरीरम् । कारणमिन्द्रियम् । अस्येश्वरस्य शक्तिर्माया स्वकार्यापेक्षया परा, विचित्रकार्यकारित्वाद्द्विविधा । सा त्वैतिह्यमात्रसिद्धा न प्रमाणसिद्धेत्याह

श्रूयत इति ।

ज्ञानरूपेण बलेन या सृष्टिक्रिया सा स्वाभाविकी । अनादिमायात्मकत्वादित्यर्थः । ज्ञानस्य चैतन्यस्य बलं मायावृत्तिप्रतिबिम्बितत्त्वेन स्फुटत्वं तस्य क्रियानाम बिम्बत्वेन ब्रह्मणो जनकता ज्ञातृतापि स्वाभाविकीति वार्थः । अपाणिरपि ग्रहीता । अपादोऽपि जवनः । ईश्वरस्यस्वकार्ये लौकिकहेत्वपेक्षा नास्तीति भावः । अग्र्यमनादिम् , पुरुषमनन्तम् , महान्तं विभुमित्यर्थः ।

अपसिद्धान्तं शङ्कते

नन्विति ।

ज्ञाने प्रतिबन्धककारणान्यविद्यारागादीनि श्रुतावत ईश्वरादन्यो नास्तीत्यन्वयः ।

औपाधिकस्य जीवेश्वरभेदस्यमयोक्तत्वान्नापसिद्धान्त इत्याह

अत्रोच्यत इति ।

तत्कृत उपाधिसम्बन्धकृतः शब्दतज्जन्यप्रत्ययरूपो व्यवहारः । असङ्कीर्ण इति शेषः ।

अव्यतिरेके कथमसङ्करस्तत्राह

तत्कृता चेति ।

उपाधिसम्बन्धकृतेत्यर्थः ।

तथेति ।

देहादिसम्बन्धस्य हेतुरविवेकोऽनाद्यविद्या तया कृत इत्यर्थः । अविद्यायां हि प्रतिबिम्बो जीवः, बिम्बचैतन्यमीश्वर इति भेदोऽविद्याधीनसत्ताकः, अनादिभेदस्य कार्यत्वायोगात् । कार्यबुद्ध्यादिकृतप्रमात्रादिभेदश्च कार्य एवेति विवेकः ।

नन्वखण्डस्वप्रकाशात्मनि कथमविवेकः, तत्राह

दृश्यते चेति ।

वस्तुतो देहादिभिन्नस्वप्रकाशस्यैव सत आत्मनो नरोऽहमिति भ्रमोदृष्टत्वाद्दुरपह्नवः । स च मिथ्याबुद्ध्या मीयत इति मिथ्याबुद्धिमात्रेण भ्रान्तिसिद्धाज्ञानेन कल्पित इति चकारार्थः ।

यद्वोक्तमिथ्याबुद्धौ लोकानुभवमाह

दृश्यते चेति ।

इत्थम्भावे तृतीया । भ्रान्त्यात्मना दृश्यत इत्यर्थः । पूर्वपूर्वभ्रान्तिमात्रेण दृश्यते न च प्रमेयतयेति वार्थः ।

कूठस्थस्यापि मायिकं कारणत्वं युक्तमित्याह

यथा त्विति ।

यत्त्ववेद्ये शब्दशक्तिग्रहायोग इति, तन्न । सत्यादिपदानामबाधिताद्यर्थेषु लोकावगतशक्तिकानां वाच्चैकदेशत्वेनोपस्थिताखण्डब्रह्मलक्षकत्वादिति स्थितम् ॥ ५ ॥