ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
ईक्षतेर्नाशब्दम् ॥ ५ ॥
एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण समन्वितानामन्तरेणापि कार्यानुप्रवेशं ब्रह्मणि पर्यवसानमुक्तम् । ब्रह्म च सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिनाशकारणमित्युक्तम् । साङ्ख्यादयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति । सर्वेष्वेव वेदान्तवाक्येषु सृष्टिविषयेष्वनुमानेनैव कार्येण कारणं लिलक्षयिषितम् । प्रधानपुरुषसंयोगा नित्यानुमेया इति साङ्ख्या मन्यन्ते । काणादास्त्वेतेभ्य एव वाक्येभ्य ईश्वरं निमित्तकारणमनुमिमते, अणूंश्च समवायिकारणम् । एवमन्येऽपि तार्किका वाक्याभासयुक्त्याभासावष्टम्भाः पूर्वपक्षवादिन इहोत्तिष्ठन्ते । तत्र पदवाक्यप्रमाणज्ञेनाचार्येण वेदान्तवाक्यानां ब्रह्मात्मावगतिपरत्वप्रदर्शनाय वाक्याभासयुक्त्याभासप्रतिपत्तयः पूर्वपक्षीकृत्य निराक्रियन्ते ॥

वृत्तमनूद्याक्षेपलक्षणामवान्तरसङ्गतिमाह

साङ्ख्यादयस्त्विति ।

भवतु सिद्धे वेदान्तानां समन्वयः, तथापि मानान्तरायोगे ब्रह्मणि शक्तिग्रहायोगात् , कूटस्थत्वेनाविकारित्वेन कारणत्वायोगाच्च न समन्वयः । किन्तु सर्गाद्यं कार्यं जडप्रकृतिकम् , कार्यत्वात् , घटवतित्यनुमानगम्ये त्रिगुणे प्रधाने समन्वय इत्याक्षिपन्तीत्यर्थः । सिद्धं मानान्तरगम्यमेवेत्याग्रहः शक्तिग्रहार्थः । अत एव प्रधानादवनुमानोपस्थिते शक्तिग्रहसम्भवात्तत्परतया वाक्यानि योजयन्तीत्युक्तम् । किं च 'तेजसा सोम्यशुङ्गेन सन्मूलमन्विच्छ' इत्याद्याः श्रुतयः ।

शुङ्गेन लिङ्गेन कारणस्य स्वतोऽन्वेषणं दर्शयन्तो मानान्तरसिद्धमेव जगत्कारणं वदन्तीत्याह

सर्वेष्विति ।

नन्वतीन्द्रियत्वेन प्रधानादेर्व्याप्तिग्रहायोगात्कथमनुमानम् , तत्राह

प्रधानेति ।

यत्कार्यं तज्जडप्रकृतिकम् , यथा घटः । यज्जडं तच्चेतनसंयुक्तम् , यथा रथादिरिति सामान्यतोदृष्टानुमानगम्याः प्रधानपुरुष संयोगा इत्यर्थः ।

अद्वितीयब्रह्मणः कारणत्वविरोधिमतान्तरमाह

काणादास्त्विति ।

सृष्टिवाक्येभ्य एव परार्थानुमानरूपेभ्यो यत्कार्यं तद्बुद्धिमत्कर्तृकमितीश्वरं कर्तारम् , परमाणूंश्च यत्कार्यद्रव्यं तत्स्वन्यूनपरिमाणद्रव्यारब्दमित्यनुमिमत इत्यर्थः ।

अन्येऽपि बौद्धादयः । 'असद्वा इदमग्र आसीत्' इत्यादि वाक्याभासः । यद्वस्तु तच्छून्यावसानम् , यथा दीप इति युक्त्याभासः । एवं वादिविप्रतिपत्तिमुक्त्वा तन्निरासायोत्तरसूत्रसन्दर्भमवतारयति

तत्रेति ।

वादिविवादे सतीत्यर्थः ।