ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
ईक्षतेर्नाशब्दम् ॥ ५ ॥
तत्र साङ्ख्याः प्रधानं त्रिगुणमचेतनं स्वतन्त्रं जगतः कारणमिति मन्यमाना आहुः — यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं प्रदर्शयन्तीत्यवोचः, तानि प्रधानकारणपक्षेऽपि योजयितुं शक्यन्ते । सर्वशक्तिमत्वं तावत्प्रधानस्यापि स्वविकारविषयमुपपद्यते । एवं सर्वज्ञत्वमप्युपपद्यते । कथम् ? यत्त्वं ज्ञानं मन्यसे, स सत्त्वधर्मः, ‘सत्त्वात्संजायते ज्ञानम्’ (भ. गी. १४ । १७) इति स्मृतेः । तेन च सत्त्वधर्मेण ज्ञानेन कार्यकरणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः । सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् । न केवलस्य अकार्यकरणस्य पुरुषस्योपलब्धिमात्रस्य सर्वज्ञत्वं किञ्चिज्ज्ञत्वं वा कल्पयितुं शक्यम् । त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्थायामपि विद्यत इति प्रधानस्याचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते वेदान्तवाक्येषु । अवश्यं च त्वयापि सर्वज्ञं ब्रह्माभ्युपगच्छता सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमभ्युपगन्तव्यम् । न हि सर्वदा सर्वविषयं ज्ञानं कुर्वदेव ब्रह्म वर्तते । तथाहि — ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत; अथानित्यं तदिति ज्ञानक्रियाया उपरमे उपरमेतापि ब्रह्म, तदा सर्वज्ञानशक्तिमत्त्वेनैव सर्वज्ञत्वमापतति । अपि च प्रागुत्पत्तेः सर्वकारकशून्यं ब्रह्मेष्यते त्वया । न च ज्ञानसाधनानां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्यचिदुपपन्ना । अपि च प्रधानस्यानेकात्मकस्य परिणामसम्भवात्कारणत्वोपपत्तिर्मृदादिवत् , नासंहतस्यैकात्मकस्य ब्रह्मणः — इत्येवं प्राप्ते, इदं सूत्रमारभ्यते —

व्याकरणमीमांसान्यायनिधित्वात्पदवाक्यप्रमाणज्ञत्वम् । यज्जगत्कारणं तच्चेतनमचेतनं वेति ईक्षणस्यमुख्यत्वगौणत्वाभ्यां संशये पूर्वपक्षमाह

तत्र साङ्ख्या इति ।

अपिशब्दावेवकारार्थौ । 'सदेव' इत्यादि स्पष्टब्रह्मलिङ्गवाक्यानां प्रधानपरत्वनिरासेन ब्रह्मपरत्वोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवस्यप्रधानैक्योपास्तिः, सिद्धान्तेब्रह्मैक्यज्ञानमिति विवेकः ।

अचेतनसत्वस्यैव सर्वज्ञत्वम् , न चेतनस्येत्याह

तेन च सत्वधर्मेणेति ।

न केवलस्येति ।

जन्यज्ञानस्य सत्वधर्मत्वान्नित्योपलब्धेरकार्यत्वाच्चिन्मात्रस्य न सर्वज्ञानकर्तृत्वमित्यर्थः ।

ननु गुणानां साम्यावस्थायां सत्वस्योत्कर्षाभावात्कथं सर्वज्ञतेत्याह

त्रिगुणत्वादिति ।

त्रयो गुणा एव प्रधानं तस्यसाम्यावस्था तदभेदात् प्रधानमित्युच्यते । तदवस्थायामपि प्रलये सर्वज्ञानशक्तिमत्वरूपं सर्वज्ञत्वमक्षतमित्यर्थः ।

ननु मया किमिति शक्तिमत्वरूपं गौणं सर्वज्ञत्वमङ्गीकार्यमिति, तत्राह

नहीति ।

अनित्यज्ञानस्य प्रलये नाशाच्छक्तिमत्वं वाच्यं कारकाभावाच्चेत्याह

अपि चेति ।

मतद्वयसाम्यमुक्त्वा स्वमते विशेषमाह

अपि चेति ।