ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अत्राहयदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृत्वश्रवणादिति, तदन्यथाप्युपपद्यतेअचेतनेऽपि चेतनवदुपचारदर्शनात्यथा प्रत्यासन्नपतनतां नद्याः कूलस्यालक्ष्यकूलं पिपतिषतिइत्यचेतनेऽपि कूले चेतनवदुपचारो दृष्टः, तद्वदचेतनेऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुपचारो भविष्यतितदैक्षतइतियथा लोके कश्चिच्चेतनःस्नात्वा भुक्त्वा चापराह्णे ग्रामं रथेन गमिष्यामिइतीक्षित्वा अनन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्ततेतस्माच्चेतनवदुपचर्यतेकस्मात्पुनः कारणात् विहाय मुख्यमीक्षितृत्वम् औपचारिकं तत्कल्प्यते ? तत्तेज ऐक्षत’ (छा. उ. ६ । २ । ३) ता आप ऐक्षन्त’ (छा. उ. ६ । २ । ४) इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात्; तस्मात्सत्कर्तृकमपीक्षणमौपचारिकमिति गम्यते, उपचारप्राये वचनात्इत्येवं प्राप्ते, इदं सूत्रमारभ्यते

संप्रत्युत्तरसूत्रनिरस्याशङ्कामाह

अत्राहेति ।

अन्यथापि अचेतनत्वेऽपि ।

ननु प्रधानस्य चेतनेन किं साम्यं येन गौणमीक्षणमिति तत्राह

यथेति ।

नियतक्रमवत्कार्यकारित्वं साम्यमित्यर्थः । ‘उपचारप्राये वचनात्’ इति गौणार्थप्रचुरे प्रकरणे समाम्नानादित्यर्थः ।