अप्तेजसोरिवाचेतने सति गौणी ईक्षतिरिति चेन्न, आत्मशब्दात्सतश्चेतनत्वनिश्चयादिति सूत्रार्थमाह
यदुक्तमित्यादिना ।
सा प्रकृता सच्छब्दवाच्या इयमीक्षित्री देवता परोक्षा हन्त इदानीं भूतसृष्ट्यनन्तरमिमाः सृष्टास्तिस्रस्तेजोऽबन्नरूपाः । परोक्षत्वाद्देवता इति द्वितीयाबहुवचनम् । अनेन पूर्वकल्पानुभूतेनजीवेनात्मना मम स्वरूपेण ता अनुप्रविश्य तासां भोग्यत्वाय नाम च रूपं च स्थूलं करिष्यामीत्यैक्षतेत्यन्वयः । लौकिकप्रसिद्धेः, 'जीव प्राणधारणे' इति धातोर्जीवतिप्राणान्धारयतीति निर्वचनाच्चेत्यर्थः ।
अत त्विति ।
स्वपक्षे तु बिम्बप्रतिबिम्बयोर्लोके भेदस्यकल्पितत्वदर्शनाज्जीवो ब्रह्मणः सत आत्मेति युक्तमित्यर्थः ।
जीवस्य सच्छब्दार्थं प्रत्यात्मशब्दात्सन्न प्रधानमित्युक्त्वा सतौ जीवं प्रत्यात्मशब्दान्न प्रधानमिति विधान्तरेण हेतुं व्याचष्टे
तथेति ।
स यःसदाख्य एषोऽणिमापरम सूक्ष्मः, ऐतदात्मकमिदं सर्वं जगत् , तत्सदेव सत्यम् , विकारस्य मिथ्यात्वात् । सः सत्पदार्थः सर्वस्यात्मा । हे श्वेतकेतो, त्वं च नासि संसारी, किन्तु तदेव सदभाधितं सर्वात्मकं ब्रह्मासीति श्रुत्यर्थः । इत्यत्रोपदिशति । अतश्चेतनात्माकत्वात् सच्चेतनमेवेति वाक्यशेषः ।
यदुक्तमप्तेजसोरिव सत ईक्षणं गौणमिति, तत्राह
अत्तेजसोस्त्विति ।
नामरूपयोर्व्याकरणं सृष्टिः । आदिपदान्नियमनम् । अप्तेजसोर्दृग्विषयत्वात्सृज्यत्वान्नियम्यत्वाच्चाचेतनत्वमीक्षणस्य मुख्यत्वे बाधकमस्ति, साधकं च नास्तीति हेतोर्युक्तमीक्षणस्य गौणत्वमिति योजना । चेतनवत्कार्यकारित्वं गुणः 'तेज ऐक्षत' चेतनवत्कार्यकारीत्यर्थः ।
यद्वा तेजःपदेन तदधिष्ठानं सल्लक्ष्यते । तथाच मुख्यमीक्षणमित्याह
तयोरिति ।
स्यादेतद्यदि सत ईक्षणं मुख्यं स्यात्तदेव कुत इत्यत आह
सतस्त्विति ।
गौणमुख्ययोरतुल्ययोः संशयाभावेन गौणप्रायपाठस्यानिश्चायकत्वादात्मशब्दाच्च सत ईक्षणं मुख्यमित्यर्थः ॥ ६ ॥