सौत्रश्चकारोऽनुक्तसमुच्चयार्थ इत्याह
चशब्द इति ।
विवृणोति
सत्यपीति ।
अपिशब्दान्नास्त्येवेति सूचयति । वेदानधीत्यागतं स्तब्धं पुत्रं पितोवाच हे पुत्र, उत अपि, आदिश्यत इत्यादेश उपदेशैकलभ्यः सदात्मा तमप्यप्राक्ष्यः गुरुनिकटेपृष्टवानसि, यस्य श्रवणेन मननेन विज्ञानेनान्यस्य श्रवणादिकं भवतीत्यन्वयः ।
नन्वन्येन ज्ञातेन कथमन्यदज्ञातमपि ज्ञातं स्यादिति पुत्रः शङ्कते
कथमिति ।
हे भगवः, कथं नु खलु स भवतीत्यर्थः ।
कार्यस्य कारणान्यत्वं नास्तीत्याह
यथेति ।
पिण्डः स्वरूपं तेन । विज्ञातेनेति शेषः ।
तत्र युक्तिमाह
वाचेति ।
वाचा वागिन्द्रियेणारभ्यत इति विकारो वाचारम्भणम् । ननु वाचा नामैवारभ्यते, न घटादिरित्याशङ्क्य नाममात्रमेव विकार इत्याह
नामधेयमिति ।
'नामधेयं विकारोऽयं वाचा केवलमुच्यते । वस्तुतः कारणाद्भिन्नो नास्ति तस्मान्मृषैव सः ॥ ‘ इति भावः ।
विकारस्य मिथ्यात्वे तदभिन्नकारणस्यापि मिथ्यात्वमिति, नेत्याह
मृत्तिकेति ।
कारणं कार्याद्भिन्नसत्ताकं न कार्यं कारणाद्भिन्नम् , अतः कारणातिरिक्तस्य कार्यस्वरूपस्याभावात्कारणज्ञानेन तज्ज्ञानं भवतीति स्थिते दार्ष्टान्तिकमाह
एवमिति ।
मृद्वद्ब्रह्मैव सत्यं वियदादिविकारो मृषेति ब्रह्मज्ञाने सति ज्ञेयं किञ्चिन्नावशिष्यत इत्यर्थः ।
यद्यपि प्रधाने ज्ञाते तादात्म्याद्विकाराणां ज्ञानं भवति तथापि न पुरुषाणाम् , तेषां प्रधानविकारत्वाभावादित्याह
नचेति ।
अस्माकं जीवानां सद्रूपत्वात्तज्ज्ञाने ज्ञानमिति भावः ॥ ८ ॥