ननु यथा कश्चिदरुन्धतीं दर्शयितुं निकटस्थां स्थूलां तारामरुन्धतीत्वेनोपदिशति, तद्वदनात्मन एव प्रधानस्य सत्पदार्थस्यात्मत्वोपदेश इति शङ्कते
कुतश्चेति ।
प्रधानं सच्छब्दवाच्यं नेति कुत इत्यर्थः ।