ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥
प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति । ‘ आत्माइति प्रकृतं सदणिमानमादाय, ‘तत्त्वमसि श्वेतकेतोइति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठामुपदिश्य, आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति मोक्षोपदेशात्यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यम्तत् असिइति ग्राहयेत् मुमुक्षुं चेतनं सन्तमचेतनोऽसीति, तदा विपरीतवादि शास्त्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात् तु निर्दोषं शास्त्रमप्रमाणं कल्पयितुं युक्तम्यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रम् , श्रद्दधानतया अन्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं परित्यजेत् , तद्व्यतिरिक्तं चात्मानं प्रतिपद्येततथा सति पुरुषार्थाद्विहन्येत, अनर्थं ऋच्छेत्तस्माद्यथा स्वर्गाद्यर्थिनोऽग्निहोत्रादिसाधनं यथाभूतमुपदिशति, तथा मुमुक्षोरपि आत्मा तत्त्वमसि श्वेतकेतोइति यथाभूतमेवात्मानमुपदिशतीति युक्तम्एवं सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यतेअन्यथा ह्यमुख्ये सदात्मतत्त्वोपदेशे, अहमुक्थमस्मीति विद्यात्’ (ऐ. आ. २ । १ । २ । ६) इतिवत्सम्पन्मात्रमिदमनित्यफलं स्यात्तत्र मोक्षोपदेशो नोपपद्येततस्मान्न सदणिमन्यात्मशब्दस्य गौणत्वम्भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वादुपपन्नो गौण आत्मशब्दःममात्मा भद्रसेनःइतिअपि क्वचिद्गौणः शब्दो दृष्ट इति नैतावता शब्दप्रमाणकेऽर्थे गौणीकल्पना न्याय्या, सर्वत्रानाश्वासप्रसङ्गात्यत्तूक्तं चेतनाचेतनयोः साधारण आत्मशब्दः, क्रतुज्वलनयोरिव ज्योतिःशब्द इति, तन्नअनेकार्थत्वस्यान्याय्यत्वात्तस्माच्चेतनविषय एव मुख्य आत्मशब्दश्चेतनत्वोपचाराद्भूतादिषु प्रयुज्यते — ‘भूतात्मा’ ‘इन्द्रियात्माइति साधारणत्वेऽप्यात्मशब्दस्य प्रकरणमुपपदं वा किञ्चिन्निश्चायकमन्तरेणान्यतरवृत्तिता निर्धारयितुं शक्यते चात्राचेतनस्य निश्चायकं किञ्चित्कारणमस्तिप्रकृतं तु सदीक्षितृ, सन्निहितश्च चेतनः श्वेतकेतुः हि चेतनस्य श्वेतकेतोरचेतन आत्मा सम्भवतीत्यवोचामतस्माच्चेतनविषय इहात्मशब्द इति निश्चीयतेज्योतिःशब्दोऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढः, अर्थवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्त इत्यदृष्टान्तःअथवा पूर्वसूत्र एवात्मशब्दं निरस्तसमस्तगौणत्वसाधारणत्वशङ्कतया व्याख्याय, ततः स्वतन्त्र एव प्रधानकारणनिराकरणहेतुर्व्याख्येयः — ‘तन्निष्ठस्य मोक्षोपदेशात्इतितस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम् ॥ ७ ॥

तस्मिन्सत्पदार्थे निष्टा अभेदज्ञानं यस्य स सन्निष्ठस्तस्य मुक्तिश्रवणादिति सूत्रार्थमाह

नेत्यादिना ।

श्रुतिः समन्वयसूत्रेव्याख्याता । अनर्थायेत्युक्तं प्रपञ्चयति

यदि चाज्ञस्येति ।

कश्चित्किल दुष्टात्मा महारण्यमार्गे पतितमन्धं स्वबन्धुनगरं जिगमिषुं बभाषे, किमात्रायुष्मता दुःखितेन स्थीयत इति । स चान्धः सुखां वाणीमाकर्ण्य तमाप्तं मत्वोवाच, अहो मद्भागधेयम् , यदत्र भवान्मां दीनं स्वाभीष्टनगरप्राप्यसमर्थं भाषत इति । स च विप्रलिप्सुर्दुष्टगोयुवानमानीय तदीयलाङ्गूलमन्धं ग्राहयामास । उपदिदेश च एनमन्धम् , एष गोयुवा त्वां नगरं नेष्यति, मा त्यज लाङ्गूलमिति । स चान्धः श्रद्धालुतया तदत्यजन्स्वाभीष्टमप्राप्यानर्थपरम्परां प्राप्तः । तेन न्यायेनेत्यर्थः ।

तथा सतीति ।

आत्मज्ञानाभावे सति विहन्येत मोक्षं न प्राप्नुयात्प्रत्युतानर्थं संसारं च प्राप्नुयादित्यर्थः ।

ननु जीवस्य प्रधानैक्यसम्पदुपासनार्थमिदं वाक्यामस्त्विति, तत्राह

एवं च सतीति ।

अबाधितात्मप्रमायां सत्यामित्यार्थः ।

कस्यचिदारोपितचोरत्वस्य सत्येन तप्तं परशुं गृह्णतो मोक्षो दृष्टः, तद्दृष्टान्तेन सत्ये ब्रह्मणि अहमित्यभिसन्धिमतो मोक्षो यथा 'सत्याभिसन्धस्तप्तं परशुं गृह्णाति स न दह्यतेऽथ मुच्यते' इति श्रुत्योपदिष्टः । स उपदेशः सम्पत्पक्षे न युक्तः इत्याह

अन्यथेति ।

देहमुत्थापयतीत्युक्थं प्राणः । तस्मान्मोक्षोपदेशान्मुख्ये सम्भवति गौणत्वस्यान्याय्यत्वाच्चात्मशब्दः सति मुख्य इत्याह

अपि चेति ।

क्वचिद्भृत्यादौ । सर्वत्राहमात्मेत्यत्रापि मुख्य आत्मशब्दो न स्यादित्यर्थः ।

चेतनत्वोपचाराद्भूतादिषु ।

सर्वत्र चैतन्यतादात्म्यादित्यर्थः ।

आत्मशब्दश्चेतनस्यैवासाधारण इत्युक्तम् । अस्तुवाऽव्यापिवस्तूनां साधारणस्तथापि तस्यात्र श्रुतौ प्रधानपरत्वेऽपि निश्चायकाभावान्न प्रधानवृत्तितेत्याह

साधारणत्वेऽपीति ।

चेतनवाचित्वे तु प्रकरणं श्वेतकेतुपदं च निश्चायकमस्तीत्याह

प्रकृतं त्विति ।

उपपदस्य निश्चायकत्वं स्फुटयति

नहीति ।

ततः किम् , तत्राह

तस्मादिति ।

आत्मशब्दो ज्योतिःशब्दवन्नानार्थक इत्युक्तं दृष्टान्तं निरस्यति

ज्योतिरिति ।

कथं तर्हि 'ज्योतिषा यजेत' इति ज्योतिष्टोमे प्रयोगः, तत्राह

अर्थवादेति ।

'एतानि वाव तानि ज्योतींषि य एतस्य स्तोमाः' इत्यर्थवादेन कल्पितं ज्वलनेन सादृश्यम् । त्रिवृत्पञ्चदशस्त्रिवृत्सप्तदशस्त्रिवृदेकविंश इति स्तोमास्तत्तदर्थप्रकाशकत्वेन गुणेन ज्योतिष्पदोक्ता ऋक्सङ्घाः । तथा च ज्योतींषि स्तोमा अस्येति ज्योतिष्टोम इत्यत्र ज्योतिःशब्दो गौण इत्यर्थः ।

नन्वात्मशब्दादिति पूर्वसूत्र एवात्मशब्दस्य प्रधाने गौणत्वसाधारणत्वशङ्कानिरासः कर्तुमुचितः, मुख्यार्थस्य लाघवेनोक्तिसम्भवे गौणत्वनानार्थकत्वशङ्काया दुर्बलत्वेन तन्निरासार्थं पृथक्सूत्रायासानपेक्षणात् । तथा च शङ्कोत्तरत्वेन सूत्रव्याख्यानं नातीव शोभत इत्यरुचेराह

अथवेति ।

निरस्ता समस्ता गौणत्वनानार्थकत्वशङ्का यस्यात्मशब्दस्य स तच्छङ्कस्तस्य भावस्तत्ता तयेत्यर्थः ।

तत इति ।

सत आत्मशब्दे जीवाभिन्नत्वादिति हेत्वपेक्षया मोक्षोपदेशः स्वतन्त्र एव प्रधानकारणत्वनिरासे हेतुरित्यर्थः ॥ ७ ॥