एतत्स्वपनं यथा स्यात्तथा यत्र सुषुप्तौ स्वपितीति नाम भवति तदा पुरुषः सता सम्पन्न एकीभवति । सदैक्येऽपि नामप्रवृत्तिः कथम् , तत्राह
स्वमिति ।
तत्र लोकप्रसिद्धिमाह
तस्मादिति ।
हि यस्मात्स्वं सदात्मानमपीतो भवति तस्मादित्यर्थः ।
श्रुतेस्तात्पर्यमाह
एषेत्यादिना ।
कथमेतावता प्रधाननिरास इत्यत आह
स्वशब्देनेति ।
एतेर्धातोर्गत्यर्थस्यापिपूर्वस्य लयार्थत्वेऽपि कथं नित्यस्य जीवस्य लय इत्याशङ्क्य उपाधिलयादिति वक्तुं जाग्रत्स्वप्नयोरुपाधिमाह
मन इति ।
ऐन्द्रियकमनोवृत्तय उपाधयः, तैर्घटादिस्थूलार्थविशेषाणामात्मना सम्बन्धादात्मा तानिन्द्रियार्थान्पश्यन्स्थूलविशेषेण देहेनैक्यभ्रान्तिमापन्नो विश्वसंज्ञो जागर्ति । जाग्रद्वासनाश्रयमनोविशिष्टः संस्तैजससंज्ञः स्वप्ने विचित्रवासनासहकृतमायापरिणामान् पश्यन् 'सोम्य तन्मनः' इति श्रुतिस्थमनःशब्दवाच्यो भवति । स आत्मा स्थूलसूक्ष्मोपाधिद्वयोपरमेऽहं नरः कर्तेति विशेषाभिमानाभावाल्लीन इत्युपचर्यत इत्यर्थः ।
ननु स्वपितीति नामनिरुक्तेरर्थवादत्वान्न यथार्थतेत्यत आह
यथेति ।
तस्य हृदयशब्दस्यैतन्निर्वचनम् ।
तदशितमन्नं द्रवीकृत्य नयन्ते जरयन्तीत्याप एवाशनायापदार्थः । तत्पीतमुदकं नयते शोषयतीति तेज एवोदन्यम् । अत्र दीर्घश्छान्दसः । एवमिदमपि निर्वचनं यथार्थमित्याह
एवमिति ।
इदं च प्रधानपक्षे न युक्तमित्याह
न चेति ।
स्वशब्दस्यात्मनीवात्मीयेऽपि शक्तिरस्तीत्याशङ्क्याह
यदीति ।
प्राज्ञेन बिम्बचैतन्येनेश्वरेण सम्परिष्वङ्गो भेदभ्रमाभावेनाभेद इत्यर्थः ॥ ९ ॥