ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्वाप्ययात् ॥ ९ ॥
तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयतेयत्रैतत्पुरुषः स्वपिति नाम, सता सोम्य तदा सम्पन्नो भवति; स्वमपीतो भवति; तस्मादेनं स्वपितीत्याचक्षते; स्वं ह्यपीतो भवति’ (छा. उ. ६ । ८ । १) इतिएषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्तिस्वशब्देनेहात्मोच्यतेयः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपिगतो भवतीत्यर्थःअपिपूर्वस्यैतेर्लयार्थत्वं प्रसिद्धम् , प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात्मनःप्रचारोपाधिविशेषसम्बन्धादिन्द्रियार्थान्गृह्णंस्तद्विशेषापन्नो जीवो जागर्तितद्वासनाविशिष्टः स्वप्नान्पश्यन्मनःशब्दवाच्यो भवति उपाधिद्वयोपरमे सुषुप्तावस्थायामुपाधिकृतविशेषाभावात्स्वात्मनि प्रलीन इवेति स्वं ह्यपीतो भवति’ (छा. उ. ६ । ८ । १) इत्युच्यतेयथा हृदयशब्दनिर्वचनं श्रुत्या दर्शितम् वा एष आत्मा हृदि, तस्यैतदेव निरुक्तम्हृद्ययमिति; तस्माद्धृदयमिति’ (छा. उ. ८ । ३ । ३); यथा वाशनायोदन्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिःआप एव तदशितं नयन्ते’ (छा. उ. ६ । ८ । ३) तेज एव तत्पीतं नयते’ (छा. उ. ६ । ८ । ५) इति एवं स्वमात्मानं सच्छब्दवाच्यमपीतो भवति इतीममर्थं स्वपितिनामनिर्वचनेन दर्शयति चेतन आत्मा अचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येतयदि पुनः प्रधानमेवात्मीयत्वात्स्वशब्देनैवोच्येत, एवमपि चेतनोऽचेतनमप्येतीति विरुद्धमापद्येतश्रुत्यन्तरं प्राज्ञेनात्मना सम्परिष्वक्तो बाह्यं किञ्चन वेद नान्तरम्’ (बृ. उ. ४ । ३ । २१) इति सुषुप्तावस्थायां चेतने अप्ययं दर्शयतिअतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणम्, प्रधानम् ॥ ९ ॥

एतत्स्वपनं यथा स्यात्तथा यत्र सुषुप्तौ स्वपितीति नाम भवति तदा पुरुषः सता सम्पन्न एकीभवति । सदैक्येऽपि नामप्रवृत्तिः कथम् , तत्राह

स्वमिति ।

तत्र लोकप्रसिद्धिमाह

तस्मादिति ।

हि यस्मात्स्वं सदात्मानमपीतो भवति तस्मादित्यर्थः ।

श्रुतेस्तात्पर्यमाह

एषेत्यादिना ।

कथमेतावता प्रधाननिरास इत्यत आह

स्वशब्देनेति ।

एतेर्धातोर्गत्यर्थस्यापिपूर्वस्य लयार्थत्वेऽपि कथं नित्यस्य जीवस्य लय इत्याशङ्क्य उपाधिलयादिति वक्तुं जाग्रत्स्वप्नयोरुपाधिमाह

मन इति ।

ऐन्द्रियकमनोवृत्तय उपाधयः, तैर्घटादिस्थूलार्थविशेषाणामात्मना सम्बन्धादात्मा तानिन्द्रियार्थान्पश्यन्स्थूलविशेषेण देहेनैक्यभ्रान्तिमापन्नो विश्वसंज्ञो जागर्ति । जाग्रद्वासनाश्रयमनोविशिष्टः संस्तैजससंज्ञः स्वप्ने विचित्रवासनासहकृतमायापरिणामान् पश्यन् 'सोम्य तन्मनः' इति श्रुतिस्थमनःशब्दवाच्यो भवति । स आत्मा स्थूलसूक्ष्मोपाधिद्वयोपरमेऽहं नरः कर्तेति विशेषाभिमानाभावाल्लीन इत्युपचर्यत इत्यर्थः ।

ननु स्वपितीति नामनिरुक्तेरर्थवादत्वान्न यथार्थतेत्यत आह

यथेति ।

तस्य हृदयशब्दस्यैतन्निर्वचनम् ।

तदशितमन्नं द्रवीकृत्य नयन्ते जरयन्तीत्याप एवाशनायापदार्थः । तत्पीतमुदकं नयते शोषयतीति तेज एवोदन्यम् । अत्र दीर्घश्छान्दसः । एवमिदमपि निर्वचनं यथार्थमित्याह

एवमिति ।

इदं च प्रधानपक्षे न युक्तमित्याह

न चेति ।

स्वशब्दस्यात्मनीवात्मीयेऽपि शक्तिरस्तीत्याशङ्क्याह

यदीति ।

प्राज्ञेन बिम्बचैतन्येनेश्वरेण सम्परिष्वङ्गो भेदभ्रमाभावेनाभेद इत्यर्थः ॥ ९ ॥