ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
गतिसामान्यात् ॥ १० ॥
यदि तार्किकसमय इव वेदान्तेष्वपि भिन्ना कारणावगतिरभविष्यत् , क्वचिच्चेतनं ब्रह्म जगतः कारणम् , क्वचिदचेतनं प्रधानम् , क्वचिदन्यदेवेतिततः कदाचित्प्रधानकारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत त्वेतस्तिसमानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिःयथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः’ (कौ. उ. ३ । ३) इति, तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इति, आत्मत एवेदं सर्वम्’ (छा. उ. ७ । २६ । १) इति, आत्मन एष प्राणो जायते’ (प्र. उ. ३ । ३) इति आत्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताःआत्मशब्दश्च चेतनवचन इत्यवोचाममहच्च प्रामाण्यकारणमेतत् , यद्वेदान्तवाक्यानां चेतनकारणत्वे समानगतित्वम् , चक्षुरादीनामिव रूपादिषुअतो गतिसामान्यात्सर्वज्ञं ब्रह्म जगतः कारणम् ॥ १० ॥

तत्तद्वेदान्तजन्यानामवगतीनां चेतनकारणविषयकत्वेन सामान्यान्नाचेतनं जगतः कारणमिति सूत्रार्थं व्यतिरेकमुखेनाह

यदि तार्किकेत्यादिना ।

अन्यत्परमाण्वादिकम् ।

न त्वेतदिति ।

अवगतिवैषम्यमित्यर्थः । विप्रतिष्ठेरन्विविधं नानादिशः प्रति गच्छेयुः । प्राणाश्चक्षुरादयो यथागोलकं प्रादुर्भवन्ति, प्राणेभ्योऽनन्तरम् , देवाः सूर्यादयस्तदनुग्राहकाः, तदनन्तरं लोक्यन्त इति लोका विषया इत्यर्थः ।

ननु वेदान्तानां स्वतप्रामाण्यत्वेन प्रत्येकं स्वार्थनिश्चायकत्वसम्भवात्किं गतिसामान्येनेत्यत आह

महच्चेति ।

एकरूपावगतिहेतुत्वं वेदान्तानां प्रामाण्यसंशयनिवृत्तिहेतुरित्यत्र दृष्टान्तमाह

चक्षुरिति ।

यथा सर्वेषां चक्षुषामेकरूपावगतिहेतुत्वम् , श्रवणानां शब्दावगतिहेतुत्वम् , घ्राणादीनां गन्धादिषु, एवं ब्रह्मणि वेदान्तानां गतिसामान्यं प्रामाण्यदार्ढ्ये हेतुरित्यर्थः ॥ १० ॥