एवमीक्षत्यादिलिङ्गैरचेतने वेदान्तानां समन्वयं निरस्य चेतनवाचकशब्देनापि निरस्यति
श्रुतत्वाच्चेति ।
सूत्रं व्याचष्टे
स्वशब्देनेति ।
स्वस्य चेतनस्य वाचकः सर्वविच्छब्दः । 'ज्ञः कालकालो गुणी सर्वविद्यः' इति सर्वज्ञं परमेश्वरं प्रकृत्य 'स सर्ववित्कारणम्' इति श्रुतत्वान्नाचेतनं कारणमिति सूत्रार्थः । करणाधिपा जीवास्तेषामधिपः ।
अधिकरणार्थमुपसंहरति ।
तस्मादीति
ईक्षणात्मशब्दादिकं परमाण्वादावप्ययुक्तमिति मत्वाह
अन्यद्वेति ॥ ११ ॥