ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
जन्माद्यस्य यतःइत्यारभ्यश्रुतत्वाच्चइत्येवमन्तैः सूत्रैर्यान्युदाहृतानि वेदान्तवाक्यानि, तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारणमित्येतस्यार्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम्गतिसामान्योपन्यासेन सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम्अतः परस्य ग्रन्थस्य किमुत्थानमिति, उच्यतेद्विरूपं हि ब्रह्मावगम्यतेनामरूपविकारभेदोपाधिविशिष्टम् , तद्विपरीतं सर्वोपाधिविवर्जितम्यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १४) यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्; यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्’ (छा. उ. ७ । २४ । १) सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ (तै. आ. ३ । १२ । ७) निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्’ (श्वे. उ. ६ । १९) नेति नेति’ (बृ. उ. २ । ३ । ६) अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८)न्यूनन्यत्स्थानं सम्पूर्णमन्यत्इति चैवं सहस्रशो विद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वाक्यानितत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारःतत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानितेषां गुणविशेषोपाधिभेदेन भेदःएक एव तु परमात्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति, तथापि यथागुणोपासनमेव फलानि भिद्यन्ते; ‘तं यथा यथोपासते तदेव भवतिइति श्रुतेः, यथाक्रतुरस्मिँल्लोके पुरुषो भवति, तथेतः प्रेत्य भवति’ (छा. उ. ३ । १४ । १) इति स्मृतेश्चयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेबरम्तं तमेवैति कौन्तेय सदा तद्भावभावितः’ (भ. गी. ८ । ६) इतियद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढः, तथापि चित्तोपाधिविशेषतारतम्यादात्मनः कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयतेतस्य आत्मानमाविस्तरां वेद’ (ऐ. आ. २ । ३ । २ । १) इत्यत्रस्मृतापियद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वातत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्’ (भ. गी. १० । ४१) इति यत्र यत्र विभूत्याद्यतिशयः, ईश्वर इत्युपास्यतया चोद्यतेएवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यतिएवम् आकाशस्तल्लिङ्गात्’ (ब्र. सू. १ । १ । २२) इत्यादिषु द्रष्टव्यम्एवं सद्योमुक्तिकारणमप्यात्मज्ञानमुपाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितोपाधिसम्बन्धविशेषं परापरविषयत्वेन सन्दिह्यमानं वाक्यगतिपर्यालोचनया निर्णेतव्यं भवतियथेहैव तावत्आनन्दमयोऽभ्यासात्इतिएवमेकमपि ब्रह्मापेक्षितोपाधिसम्बन्धं निरस्तोपाधिसम्बन्धं चोपास्यत्वेन ज्ञेयत्वेन वेदान्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यतेयच्चगतिसामान्यात्इत्यचेतनकारणनिराकरणमुक्तम् , तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतकारणनिषेधेन प्रपञ्च्यते

वृत्तानुवादेनोत्तरसूत्रसन्दर्भमाक्षिपति

जन्मादिति ।

प्रथमसूत्रस्य शास्त्रोपोद्घातत्वाज्जन्मादिसूत्रमारभ्येत्युक्तम् । सर्ववेदान्तानां कार्ये प्रधानाद्यचेतने च समन्वयनिरासेन ब्रह्मपरत्वं व्याख्यातम् । अतः प्रथमाध्यायार्थस्यसमाप्तत्वादुत्तरग्रन्थारम्भे किं कारणमित्यर्थः ।

वेदान्तेषु सगुणनिर्गुणब्रह्मवाक्यानां बहुलमुपलब्धेः, तत्र कस्य वाक्यस्य सगुणोपासनाविधिद्वारा निर्गुणे समन्वयः कस्य वा गुणविवक्षां विना साक्षादेव ब्रह्मणि समन्वय इत्याकाङ्क्षैव कारणमित्याह

उच्यत इति ।

सङ्क्षिप्य सगुणनिर्गुणवाक्यार्थमाह

द्विरूपं हीति ।

नामरूपात्मको विकारः सर्वं जगत् , तद्भेदो हिरण्यश्मश्रुत्वादिविशेष इति वाक्यार्थः ।

वाक्यान्युदाहरति

यत्र हीत्यादिना ।

यस्यां खल्वज्ञानावस्थायां द्वैतमिव कल्पितं भवति तत्तदेतरः सन्नितरं पश्यतीति दृश्योपाधिकं वस्तु भाति । यत्र ज्ञानकाले विदुषः सर्वं जगदात्ममात्रमभूत्तत्तदा तु केन कं पश्येदित्याक्षेपान्निरुपाधिकं तत्त्वं भाति । यत्र भूम्नि निश्चितो विद्वान् द्वितीयं किमपि न वेत्ति सोऽद्वितीयो भूमा परमात्मा निर्गुणः । अथ निर्गुणोक्त्यनन्तरं सगुणमुच्यते । यत्र सगुणे स्थितो द्वितीयं वेत्ति तदल्पं परिच्छिन्नम् , यस्तु भूमा तदमृतं नित्यम् ।

अथेति ।

पूर्ववद्व्याख्येयम् । धीरः परमात्मैव सर्वाणि रूपाणि विचित्य सृष्ट्वा नामानि च कृत्वा बुद्ध्यादौ प्रविश्य जीवसंज्ञो व्यवहरन्यो वर्तते स सगुणस्तं निर्गुणत्वेन विद्वानप्यमृतो भवति । निर्गताः कला अंशा यस्मात्तन्निष्कलम् । अतो निरंशत्वान्निष्क्रियम् । अतः शान्तमपरिणामि । निरवद्यं रागादिदोषशून्यम् । अञ्जनं मूलतमःसम्बन्धो धर्मादिकं वा तच्छून्यं निरञ्जनम् । किञ्चामृतस्य मोक्षस्य स्वयमेव वाक्योत्थवृत्तिस्थत्वेन परमुत्कृष्टं सेतुं लौकिकसेतुवत्प्रापकम् । यथा दग्धेन्धनोऽनलः शाम्यति तमिवाविद्यां तज्जं च दग्ध्वा प्रशान्तं निर्गुणमात्मानं विद्यादित्यर्थः ।

नेति नेतीति ।

व्याख्यातम् । स्थूलादिद्वैतशून्यम् ।

रूपद्वये श्रुतिमाह -

न्यूनमिति ।

द्वैतस्थानं न्यूनमल्पं सगुणरूपं निर्गुणादन्यत् , तथा सम्पूर्णं निर्गुणं सगुणादन्यदित्यर्थः ।

एकस्य द्विरूपत्वं विरुद्धमित्यत आह

विद्येति ।

विद्याविषयो ज्ञेयं निर्गुणत्वं सत्यम् अविद्याविषय उपास्यं सगुणत्वं कल्पितमित्यविरोधः ।

तत्राविद्याविषयं विवृणोति

तत्रेति ।

निर्गुणज्ञानार्थमारोपितप्रपञ्चमाश्रित्यबाधात्प्राक्काले गुडजिह्विकान्यायेन तत्तत्फलार्थान्युपासनानि विधीयन्ते, तेषां चित्तैकाग्र्यद्वारा ज्ञानं मुख्यं फलमिति तद्वाक्यानामपि महातात्पर्यं ब्रह्मणीति मन्तव्यम् । 'नाम ब्रह्म' इत्याद्युपास्तीनां कामचारादिरभ्युदयः फलम् , दहराद्युपास्तीनां कामाचारादिरभ्युदयः फलम् , दहराद्युपास्तीनां क्रममुक्तिः, उद्भीथादिध्यानस्य कर्मसमृद्धिः फलमिति भेदः । ध्यानानां मानसत्वात् , ज्ञानान्तरङ्गत्वाच्च, ज्ञानकाण्डे विधानमिति भावः ।

ननूपास्यब्रह्मण एकत्वात्कथमुपासनानां भेदः, तत्राह

तेषामिति ।

गुणविशेषाः सत्यकामत्वादयः । हृदयादिरुपाधिः । अत्र स्वयमेवाशङ्क्य परिहरति

एक इति ।

परमात्मस्वरूपाभेदेऽप्युपाधिभेदेनोपहितोपास्यरूपभेदादुपासननां भेदे सति फलभेद इति भावः ।

तं परमात्मानं यद्यद्गुणत्वेन लोका राजानमिवोपासते तत्तद्गुणवत्वमेव तेषां फलं भवति । क्रतुः सङ्कल्पो ध्यानम् । इह यादृशध्यानवान् भवति मृत्वा तादृशोपास्यरूपो भवति । अत्रैव भगवद्वाक्यमाह

स्मृतेश्चेति ।

ननु सर्वभूतेषु निरतिशयात्मन एकत्वादुपास्योपासकयोस्तारतम्यश्रुतयः कथमित्याशङ्क्य परिहरति

यद्यप्येक इति ।

उक्तानामुपाधीनां शुद्धितारतम्यादैश्वर्यज्ञानसुखरूपशक्तीनां तारतम्यरूपा विशेषा भवन्ति तैरेकरूपस्यात्मन उत्तरोत्तरं मनुष्यादिहिरण्यगर्भान्तेपष्वाविर्भाववतारतम्यं श्रूयते । तस्यात्मन आत्मानं स्वरूपमाविस्तरां प्रकटतरं यो वेद उपास्ते सोऽश्नुते तदिति तरप्प्रत्ययादित्यर्थः । तथाच निकृष्टोपाधिरात्मैवोपासकः, उत्कृष्टोपाधिरीश्वर उपास्य इत्यौपाधिकं तारतम्यमविरुद्धमिति भावः ।

अत्रार्थे भगवद्गीतामुदाहरति

स्मृताविति ।

अत्र सूर्यादेरपि न जीवत्वेनोपास्यता किन्त्वीश्वरत्वेनेत्युक्तं भवति । तत्र सूत्रकारसंमतिमाह

एवमिति ।

उदयः असम्बन्धः । एवं यस्मिन्वाक्ये उपाधिर्विवक्षितः तद्वाक्यमुपासनपरमिति वक्तुमुत्तरसूत्रसन्दर्भस्यारम्भ इत्युक्त्वा यत्र न विवक्षितः तद्वाक्यं ज्ञेयब्रह्मपरमिति निर्णयार्थमारम्भ इत्याह

एवं सद्य इति ।

अन्नमयादिकोशा उपाधिविशेषाः । वाक्यगतिस्तात्पर्यम् ।

आरम्भसमर्थनमुपसंहरति

एवमेकमपीति ।

सिद्धवदुक्तगतिसामान्यस्य साधनार्थमप्युत्तरारम्भ इत्याह

यच्चेति ।

अन्नं प्रसिद्धम् , प्राणमनोबुद्ध्यः हिरण्यगर्भरूपाः बिम्बचैतन्यमीश्वर आनन्दः । तेषां पञ्चानां विकारा आध्यात्मिका देहप्राणमनोबुद्धिजीवा अन्नमयादयः पञ्चकोशाः इति श्रुतेः परमार्थः ।