पूर्वाधिकरणे गौणमुख्येक्षणयोरतुल्यत्वेन संशयाभावाद्गौणप्रायपाठो न निश्चायक इत्युक्तं तर्हि मयटो विकारे प्राचुर्ये च मुख्यत्वात्संशये विकारप्रायपाठादानन्दाधिकारो जीव आनन्दमय इति निश्चयोऽस्तीति प्रत्युदाहरणसङ्गत्या पूर्वपक्षमाह किं तावदित्याकाङ्क्षापूर्वकम्
किमिति ।
आनन्दमयपदस्यामुख्यार्थग्रहे हेतुं पृच्छति
कस्मादिति ।
विकारप्रायपाठहेतुमाह
अन्नमयादीति ।
श्रुत्यादिसङ्गतयः स्फुटा एव । पूर्वपक्षे वृत्तिकारमतेजीवोपास्त्या प्रियादिप्राप्तिः फलम् , सिद्धान्ते तु ब्रह्मोपास्त्येति भेदः ।
शङ्कते
अथापीति ।
परिहरति
न स्यादिति ।
सङ्गृहीतं विवृणोति
मुख्य इति ।
परमात्मेत्यर्थः ।
शारीरत्वेऽपीश्वरत्वं किं न स्यादित्यत आह
नचेति ।
जीवत्वं दुर्वारमित्यर्थः ।