ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
आनन्दमयोऽभ्यासात् ॥ १२ ॥
आनन्दमयोऽभ्यासात्’ । पर एवात्मानन्दमयो भवितुमर्हतिकुतः ? अभ्यासात्परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वोऽभ्यस्यतेआनन्दमयं प्रस्तुत्य रसो वै सः’ (तै. उ. २ । ७ । १) इति तस्यैव रसत्वमुक्त्वा, उच्यतेरसꣳ ह्येवायं लब्ध्वाऽऽनन्दीभवतिको ह्येवान्यात्कः प्राण्यात्यदेष आकाश आनन्दो स्यात्एष ह्येवानन्दयाति’ (तै. उ. २ । ७ । १) (तै. उ. २ । ७ । १)सैषानन्दस्य मीमाꣳसा भवति’ (तै. उ. २ । ८ । १) एतमानन्दमयमात्मानमुपसङ्क्रामति’ (तै. उ. २ । ८ । ५) आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इति; आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इति श्रुत्यन्तरे विज्ञानमानन्दं ब्रह्म’ (बृ. उ. ३ । ९ । २८) इति ब्रह्मण्येवानन्दशब्दो दृष्टःएवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यतेयत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यत्वमिति, नासौ दोषः, आनन्दमयस्य सर्वान्तरत्वात्मुख्यमे ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिनुसरत् , अन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्ततोऽन्तरं ततोऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत् , प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम्यथारुन्धतीनिदर्शने बह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु, या अन्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति; एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम्यत्तु ब्रूषे, प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन इतिअतीतानन्तरोपाधिजनिता सा; स्वाभाविकीत्यदोषःशारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात् पुनः साक्षादेव शारीरत्वं संसारिवत्तस्मादानन्दमयः पर एवात्मा ॥ १२ ॥

नन्वानन्दपदाभ्यासेऽप्यानन्दमयस्य ब्रह्मत्वं कथमित्याशङ्क्य ज्योतिष्टोमाधिकारे ज्योतिष्पदस्य ज्योतिष्टोमपरत्ववदानन्दमयप्रकरणस्थानन्दमयपदस्यानन्दमयपरत्वात्तदभ्यासस्तस्य ब्रह्मत्वसाधक इत्यभिप्रेत्याह

आनन्दमयं प्रस्तुत्येति ।

रसः सारः । आनन्द इत्यर्थः । अयं लोकः । यद्यपि एष आकाशः पूर्णः आनन्दः साक्षिप्रेरको न स्यात्तदा को वान्याच्चलेत् , को वा विशिष्या प्राण्याज्जीवेत् , तस्मादेष एवानन्दयाति, आनन्दयतीत्यर्थः । 'युवा स्यात्साधुयुवा' इत्यादिना वक्ष्यमाणा मनुष्ययुवानन्दमारभ्य ब्रह्मानन्दावसाना एषा संनिहिता आनन्दस्य तारतम्यमीमांसा भवति । उपसङ्क्रामति विद्वान्प्राप्नोति इत्येकदेशिनामर्थः । मुख्यसिद्धान्ते तूपसङ्क्रमणं विदुषः कोशानां प्रत्यङ्मात्रत्वेन विलापनमिति ज्ञेयम् । शिष्टमुक्तार्थम् ।

आनन्दशब्दाद्ब्रह्मावगतिः सर्वत्र समानेति गतिसामान्यार्थमाह

श्रुत्यन्तरे चेति ।

लिङ्गादमुख्यात्मसंनिधेर्बाध इति मत्वाह

नासाविति ।

सर्वान्तरत्वं न श्रुतमित्याशङ्क्य ततोऽन्यस्यानुक्तेस्तस्य सर्वान्तरत्वमिति विवृणोति

मुख्यमिति ।

लोकबुद्धिमिति ।

तस्याः स्थूलग्राहितामनुसरदित्यर्थः ।

ताम्रस्य मूषाकारत्ववत्प्राणस्य देहाकारत्वं देहेन सामान्यम् , तथा मनः प्राणाकारं तेन सममित्याह

पूर्वेणेति ।

अतीतो योऽनन्तर उपाधिर्विज्ञानकोशस्तत्कृता सावयवत्वकल्पना, शरीरेण ज्ञेयत्वाच्छारीरत्वमिति लिङ्गद्वयं दुर्बलम् । अतः सहायाभावादभ्याससर्वान्तरत्वाभ्यां विकारसंनिधेर्बाध इति भावः ॥ १२ ॥