तत्तद्वेदान्तजन्यानामवगतीनां चेतनकारणविषयकत्वेन सामान्यान्नाचेतनं जगतः कारणमिति सूत्रार्थं व्यतिरेकमुखेनाह
यदि तार्किकेत्यादिना ।
अन्यत्परमाण्वादिकम् ।
न त्वेतदिति ।
अवगतिवैषम्यमित्यर्थः । विप्रतिष्ठेरन्विविधं नानादिशः प्रति गच्छेयुः । प्राणाश्चक्षुरादयो यथागोलकं प्रादुर्भवन्ति, प्राणेभ्योऽनन्तरम् , देवाः सूर्यादयस्तदनुग्राहकाः, तदनन्तरं लोक्यन्त इति लोका विषया इत्यर्थः ।
ननु वेदान्तानां स्वतप्रामाण्यत्वेन प्रत्येकं स्वार्थनिश्चायकत्वसम्भवात्किं गतिसामान्येनेत्यत आह
महच्चेति ।
एकरूपावगतिहेतुत्वं वेदान्तानां प्रामाण्यसंशयनिवृत्तिहेतुरित्यत्र दृष्टान्तमाह
चक्षुरिति ।
यथा सर्वेषां चक्षुषामेकरूपावगतिहेतुत्वम् , श्रवणानां शब्दावगतिहेतुत्वम् , घ्राणादीनां गन्धादिषु, एवं ब्रह्मणि वेदान्तानां गतिसामान्यं प्रामाण्यदार्ढ्ये हेतुरित्यर्थः ॥ १० ॥