ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
मान्त्रवर्णिकमेव च गीयते ॥ १५ ॥
इतश्चानन्दमयः पर एवात्मा; यस्मात् ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्युपक्रम्य, सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इत्यस्मिन्मन्त्रे यत् प्रकृतं ब्रह्म सत्यज्ञानानन्तविशेषणैर्निर्धारितम् , यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं सर्वान्तरम् , यस्य विज्ञानायअन्योऽन्तर आत्मा’ ‘अन्योऽन्तर आत्माइति प्रक्रान्तम् , तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयतेअन्योऽन्तर आत्मानन्दमयः’ (तै. उ. २ । ५ । १) इतिमन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तम् , अविरोधात्अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम् चान्नमयादिभ्य इवानन्दमयादन्योऽन्तर आत्माभिधीयतेएतन्निष्ठैव सैषा भार्गवी वारुणी विद्या’ (तै. उ. ३ । ६ । १)आनन्दो ब्रह्मेति व्यजानात्’ (तै. उ. ३ । ६ । १) इतितस्मादानन्दमयः पर एवात्मा ॥ १५ ॥

आनन्दमयस्य ब्रह्मत्वे लिङ्गमुक्त्वा प्रकरणमाह

मान्त्रेति ।

यस्मादेवं प्रकृतं तस्मात्तन्मान्त्रावर्णिकमेव ब्रह्मानन्दमय इति वाक्ये गीयत इति योजना ।

ननु मन्त्रोक्तमेवात्र ग्राह्ममिति को निर्बन्धः, तत्राह

मन्त्रेति ।

ब्राह्मणस्य मन्त्रव्याख्यानत्वादुपायत्वमस्ति, मन्त्रस्तूपेयः, तदिदमुक्तम्

अविरोधादिति ।

तयोरुपायोपेयभावादित्यर्थः ।

तर्ह्यन्नमयादीनामपि मान्त्रवर्णिकब्रह्मत्वं स्यादित्यत आह

न चेति ।

किञ्च भृगवे प्रोक्ता, वरुणेनोपदिष्टा भृगुवल्ली पञ्चमपर्यायस्थानन्दे प्रतिष्ठिता । तत्र स्थानन्यायेन तदेकार्थब्रह्मवल्ल्या आनन्दमये निष्ठेत्याह

एतन्निष्ठैवेति ॥ १५ ॥