अस्मिन्निति
विषयसप्तमी आनन्दमयविषयकप्रबोधवतो जीवस्य तद्योगं यस्माच्छास्ति तस्मान्न प्रधानमिति योजना ।
जीवस्य प्रधानयोगोऽप्यस्तीत्यत आह
तदात्मनेति ।
जीवस्य जीवाभेदोऽस्तीत्यत आह
मुक्तिरिति ।
अदृश्ये स्थूलप्रपञ्चशून्ये, आत्मसम्बन्धमात्म्यं लिङ्गशरीरं तद्रहिते, निरुक्तं शब्दशक्यं तद्भिन्ने, निःशेषलयस्थानं निलयनं माया तच्छून्ये ब्रह्मणि, अभयं यथा स्यात्तथा यदैव प्रतिष्ठां मनसः प्रकृष्टां वृत्तिमेष विद्वांल्लभते अथ तदैवाभयं ब्रह्म प्राप्नोतीत्यर्थः । उतपि अरमल्पमप्यन्तरं भेदं यदैवैष नरः पश्यति अथ तदा तस्य भयमिति योजना इति ।