वृत्तिकारमतं दूषयति
इदं त्विति ।
इह परव्याख्यायां विकारार्थके मयटिबुद्धिस्थे सत्यकस्मात्कारणं विना एकप्रकरणस्थस्य मयटः पूर्वं विकारार्थकत्वम् , अन्ते प्राचुर्यार्थकत्वमित्यर्धजरतीयं कथमिव केन दृष्टान्तेनाश्रीयत इतीदं वक्तव्यमित्यन्वयः ।
प्रश्नं मत्वाशङ्क्यते
मान्त्रेति ।
स्पुटमुत्तरम् ।
किमान्तर इति न श्रूयते, किंवा वस्तुतोऽप्यान्तरं ब्रह्म न श्रूयत इति विकल्प्य आद्यमङ्गीकरोति
अत्रोच्यतेयद्यपीति ।
विकारप्रायपाठानुग्रहीतमयट्श्रुतेः सावयवत्वलिङ्गाच्चेत्याह
तथापीति ।
इष्टार्थस्य दृष्ट्या जातं सुखं प्रियम् , स्मृत्या मोदः, स चाभ्यासात्प्रकृष्टः प्रमोदः, आनन्दस्तु कारणम् , बिम्बचैतन्यमात्मा, शिरःपुच्छयोर्मध्यकायः ब्रह्म शुद्धमिति श्रुत्यर्थः ।
द्वितीयं प्रत्याह
तत्र यदिति ।
यन्मन्त्रे प्रकृतं गुहानिहितत्वेन सर्वान्तरं ब्रह्म, तदिह पुच्छवाक्ये ब्रह्मशब्दात्प्रत्यभिज्ञायते । तस्यैव विज्ञापनेच्छया पञ्चकोशरूपा गुहा प्रपञ्चिता । तत्र तात्पर्यं नास्तीति वक्तुं कल्प्यन्त इत्युक्तम् । एवं पुच्छवाक्ये प्रकृतस्वप्रधानब्रह्मपरे सति न प्रकृतहान्यादिदोष इत्यर्थः ।
ब्रह्मणः प्रधानत्वं पुच्छश्रुतिविरुद्धमिति शङ्कते
नन्विति ।
अत्र ब्रह्मशब्दात्प्रकृतस्वप्रधानब्रह्मप्रत्यभिज्ञाने सति पुच्छशब्दविरोधप्राप्तौ, एकस्मिन्वाक्ये प्रथमचरमश्रुतशब्दयोराद्यस्यानुपसञ्जातविरोधिनो बलीयस्त्वात् , पुच्छशब्देन प्राप्तगुणत्वस्य बाध इति मत्वाह
प्रकृतत्वादिति ।
प्रकरणस्यान्यथासिद्धिमाह
नन्विति ।
एकस्यैवगुणत्वं प्रधानत्वं च विरुद्धमित्याह
अत्रोच्यत इति ।
तत्र विरोधनिरासायान्यतरसस्मिन्वाक्ये ब्रह्मस्वीकारे पुच्छवाक्ये ब्रह्म स्वीकार्यमित्याह
अन्यतरेति ।
वाक्यशेषाच्चैवमित्याह
अपिचेति ।
तत्तत्रब्रह्मणिश्लोकोऽपीत्यर्थः ।
पुच्छशब्दस्य गतिं पृच्छति
कथं पुनरिति ।
त्वयापि पुच्छशब्दस्य मुख्यार्थो वक्तुमशक्यः, ब्रह्मण आनन्दमयलाङ्गूलत्वाभावात् । पुच्छदृष्टिलक्षणायां चाधारलक्षणा युक्ता, प्रतिष्ठापदयोगात् , ब्रह्मशब्दस्य मुख्यार्थलाभाच्च । त्वत्पक्षे ब्रह्मपदस्याप्यवयवलक्षकत्वादित्याह
नैष दोष इति ।
पुच्छमित्याधारत्वमात्रमुक्तम् । प्रतिष्ठेत्वेकनीडत्वम् । एकं मुख्यं नीडमधिष्ठानं सोपादानस्य जगत इत्यर्थः ।
ननु वृत्तिकारैरपि तैत्तिरीयवाक्यं ब्रह्मणिसमन्वितमिष्टम् , तत्र किमुदाहरणभेदेनेत्याशङ्क्याह
अपिचेति ।
यत्र सविशेषत्वं तत्र वाङ्मनसगोचरत्वमिति व्याप्तेरत्र व्यापकाभावोक्त्या निर्विशेषमुच्यत इत्याह
निर्विशेषमिति ।
निवर्तन्ते अशक्ता इत्यर्थः । सविशेषस्य मृषात्वादभयं चायुक्तम् । अतो निर्विशेषज्ञानार्थं पुच्छवाक्यमेवोदाहरणमिति भावः । प्राचुर्यार्थकमयटा सविशेषोक्तौ निर्विशेषश्रुतिबाध उक्तः ।
दोषान्तरमाह
अपिचेति ।
प्रत्ययार्थत्वेन प्रधानस्य प्राचुर्यस्य प्रकृत्यर्थो विशेषणम् , विशेषणस्य यः प्रतियोगी विरोधीति तस्याल्पत्वमपेक्षते, यथा विप्रमयो ग्राम इति शूद्राल्पत्वम् । अस्तु को दोषः, तत्राह
तथाचेति ।
प्रकृत्यर्थप्राधान्ये त्वयं दोषो नास्ति, प्रचुरप्रकाशः सवितेत्यत्र तमसोऽल्पस्याप्यभानात् । परन्त्वानन्दमयपदस्य प्रचुरानन्दलक्षणादोषः स्यादिति मन्तव्यम् ।
किञ्च भिन्नत्वाद्घटवन्न ब्रह्मतेत्याह
प्रतिशरीरमिति ।
नन्वभ्यस्यमानानन्दपदं लक्षणयानन्दमयपरमित्यभ्याससिद्धिरित्यत आह
यदि चेति ।
आनन्दमयस्य ब्रह्मत्वे निर्णीते सत्यानन्दपदस्य तत्परत्वज्ञानादभ्याससिद्धिः, तत्सिद्धौ तन्निर्णय इति परस्पराश्रय इति भावः ।
अयमभ्यासः पुच्छब्रह्मण इत्याह
तस्मादिति ।
उपसङ्क्रमणं बाधः ।
ननु 'स य एवंवित्' इति ब्रह्मविदं प्रक्रम्योपसङ्क्रमणवाक्येन फलं निर्दिश्यते तत्तस्याब्रह्मत्वे न सिध्यतीति शङ्कते
नन्विति ।
उपसङ्क्रमणं प्राप्तिरित्यङ्गीकृत्य विशिष्टप्राप्त्युक्त्या विशेषणप्राप्तिफलमुक्तमित्याह
नैष इति ।
ज्ञानेन कोशानां बाधस्तदिति सिद्धान्ते बाधावधिप्रत्यगानन्दलाभोऽर्थादुक्त उत्तरश्लोकेन स्फुटीकृत इत्याह
तदपीति ।
तदपेक्षत्वादिति ।
कामयितृपुच्छब्रह्मविषयत्वादित्यर्थः ।
यदुक्तं पञ्चमस्थानस्थत्वादानन्दमये ब्रह्मवल्ली समाप्ता, भृगुवल्लीवदिति, तत्राह
यत्त्विति ।
या त्वित्यर्थः । मयट्श्रुत्या सावयवत्वादिलिङ्गेन च स्थानं बाध्यमिति भावः । गोचराति क्रमो गोचरत्वाभावः ।