अन्तस्तद्धर्मोपदेशात् ।
छान्दोग्यवाक्यमुदाहरति
अथ य इति ।
अथेत्युपास्तिप्रारम्भार्थः ।
हिरण्मयो ज्योतिर्विकारः, पुरुषः पूर्णोऽपि मूर्तिमानुपासकैर्दृश्यते । मूर्तिमाह
हिरण्येति ।
प्रणखो नाखाग्रं तेन सहेत्यभिविधावाङ् ।
नेत्रयोर्विशेषमाहतस्येति ।
कपेर्मर्कटस्य आसः पुच्छभागोऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथा दीप्तिमदेवं तस्य पुरुषस्याक्षिणी, सद्योविकसितरक्ताम्भोजनयन इत्यर्थः ।
उपासनार्थमादित्यमण्डलं स्थानम् , रूपं चोक्त्वा नाम करोति
तस्योदिति ।
तन्नाम निर्वक्ति
स इति ।
उदित उद्गतः । सर्वपाप्मास्पृष्ट इत्यर्थः ।
नामज्ञान फलमाह
उदेति हेति ।
देवतास्थानमादित्यमधिकृत्योपास्त्युक्त्यनन्तरमात्मानं देहमधिकृत्यापि तदुक्तिरित्याह
अथेति ।
पूर्वत्र ब्रह्मपदमानन्दमयपदमानन्दपदाभ्यासश्चेति मुख्यत्रितयादिबहुप्रमाणवशान्निर्गुणनिर्णयवत् , रूपवत्त्वादिबहुप्रमाणवशाज्जीवो हिरण्मय इतिपूर्वसिद्धान्तदृष्टान्तसङ्गत्या पूर्वमुत्सर्गतः सिद्धनिर्गुणसमन्वयस्यापवादार्थं पूर्वपक्षयति
संसारीति ।
अत्र पूर्वोत्तरपक्षयोर्जीवब्रह्मणोरुपास्तिः फलम् । अक्षिणीत्याधारश्रवणाच्च संसारीति सम्बन्धः ।
श्रुतिमाह
स एष इति ।
आदित्यस्थः पुरुषः, अमुष्मादादित्यादूर्ध्वगा ये केचन लोकास्तेषामीश्वरो देवभोगानां चेत्यर्थः । स एषोऽक्षिस्थः पुरुष एतस्मादक्ष्णोऽधस्तना ये लोकाः, ये च मनुष्यकामा भोगास्तेषामीश्वर इति मर्यादा श्रूयते । अतः श्रुतेश्च संसारीत्यर्थः । 'एष सर्वेश्वरः' इत्यविशेषश्रुतेरिति सम्बन्धः । भूताधिपतिर्यमः, भूतपाल इन्द्रादिश्च एष एव । किञ्च जलानामसङ्कराय लोके विधारको यथा सेतुः, एवमेषां लोकानां वर्णाश्रमादीनां मर्यादाहेतुत्वात्सेतुरेष एव । अतः सर्वेशवर इत्यर्थः ।