भवतु रूपवत्त्वादिदुर्बललिङ्गानां पापास्पर्शित्वाद्यव्यभिचारिब्रह्मलिङ्गैरन्यथानयनम् । इह त्वाकाशपदश्रुतिर्लिङ्गाद्बलीयसीति प्रत्युदाहणेन प्राप्ते प्रत्याह
आकाशस्तल्लिङ्गादिति ।
छान्दोग्यवाक्यमुदाहरति
इदमिति ।
शालावत्यो ब्राह्मणो जैवलिं राजानं पृच्छति, अस्य पृथ्वीलोकस्यान्यस्य च क आधार इति । राजाब्रूते, 'आकाश इति ह' इति । 'यदेष आकाशः' इत्यानन्दत्वस्यासाधारणस्य श्रवणादाकाशो ब्रह्मेत्यवधारितम् । 'आकाशो वै नाम' इत्यत्र 'तद्ब्रह्म' इति वाक्यशेषादिति विभागः ।
निर्वहिता
उत्पत्तिस्थितिहेतुः । ते नामरूपे, यदन्तरा यस्माद्भिन्ने । यत्र कल्पितत्वेन मध्ये स्त इति वार्थः । अत्र पूर्वपक्षे भूताकाशात्मनोद्गीथोपास्तिः, सिद्धान्ते ब्रह्मात्मना इति फलम् । उपास्ये स्पष्टब्रह्मलिङ्गवाक्यसमन्वयोक्तेरापादं श्रुत्यादिसङ्गतयः । स्पष्टमत्र भाष्यम् ।