ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
आकाशस्तल्लिङ्गात् ॥ २२ ॥
आकाशस्तल्लिङ्गात्’ । आकाशशब्देनेह ब्रह्मणो ग्रहणं युक्तम्कुतः ? तल्लिङ्गात्परस्य हि ब्रह्मण इदं लिङ्गम् — ‘सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेइतिपरस्माद्धि ब्रह्मणो भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादाननु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं दर्शितम्सत्यं दर्शितम्तथापि मूलकारणस्य ब्रह्मणोऽपरिग्रहात् , आकाशादेवेत्यवधारणं सर्वाणीति भूतविशेषणं नानुकूलं स्यात्तथाआकाशं प्रत्यस्तं यन्तिइति ब्रह्मलिङ्गम् , ‘आकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्इति ज्यायस्त्वपरायणत्वेज्यायस्त्वं ह्यनापेक्षिकं परमात्मन्येवैकस्मिन्नाम्नातम्ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः’ (छा. उ. ३ । १४ । ३) इतितथा परायणत्वमपि परमकारणत्वात्परमात्मन्येव उपपन्नतरम् श्रुतिश्चविज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम्’ (बृ. उ. ३ । ९ । २८) इतिअपि चान्तवत्त्वदोषेण शालावत्यस्य पक्षं निन्दित्वा, अनन्तं किञ्चिद्वक्तुकामेन जैवलिनाकाशः परिगृहीतःतं चाकाशमुद्गीथे सम्पाद्योपसंहरति एष परोवरीयानुद्गीथः एषोऽनन्तः’ (छा. उ. १ । ९ । २) इतितच्चानन्त्यं ब्रह्मलिङ्गम्यत्पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं प्रतीयत इति, अत्र ब्रूमःप्रथमतरं प्रतीतमपि सद्वाक्यशेषगतान्ब्रह्मगुणान्दृष्ट्वा परिगृह्यतेदर्शितश्च ब्रह्मण्यप्याकाशशब्दः आकाशो वै नाम नामरूपयोर्निर्वहिता’ (छा. उ. ८ । १४ । १) इत्यादौतथाकाशपर्यायवाचिनामपि ब्रह्मणि प्रयोगो दृश्यतेऋचो अक्षरे परमे व्योमन् यस्मिन्देवा अधि विश्वे निषेदुः’ (ऋ. सं. १ । १६४ । ३९) सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिता’ (तै. उ. ३ । ६ । १) कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) खं पुराणम्’ (बृ. उ. ५ । १ । १) इति चैवमादौवाक्योपक्रमेऽपि वर्तमानस्याकाशशब्दस्य वाक्यशेषवशाद्युक्ता ब्रह्मविषयत्वावधारणा । ‘अग्निरधीतेऽनुवाकम्इति हि वाक्योपक्रमगतोऽप्यग्निशब्दो माणवकविषयो दृश्यतेतस्मादाकाशशब्दं ब्रह्मेति सिद्धम् ॥ २२ ॥

तेजःप्रभृतिषु वाय्वादेरपि कारणत्वादेवकारश्रुतिबाधः, सर्वश्रुतेश्चाकाशातिरिक्तविषयत्वेन सङ्कोचः स्यादित्याह

सत्यं दर्शितमिति ।

ब्रह्मणस्तु सर्वात्मकत्वात् 'तस्मादेव सर्वम्' इति श्रुतिर्युक्तेति भावः ।

तथा सर्वलयाधारत्वम् , निरतिशयमहत्त्वम् , स्थितावपि परमाश्रयत्वमित्येतानि स्पष्टानि ब्रह्मलिङ्गानीत्याह

तथा आकाशमित्यादिना ।

रातेर्धनस्य दातुः । रातिरिति पाठे बन्धुरित्यर्थः ।

लिङ्गान्तरमाह

अपि चेति ।

दाल्भ्यशालावत्यौ ब्राह्मणौ राजा चेति त्रय उद्गीथविद्याकुशला विचारयामासुः, किमुद्गीथस्य परायणमिति । तत्र स्वर्गादागताभिरद्भिर्जीवितेन प्राणेन क्रियमाणोद्गीथस्य स्वर्ग एव परायणमिति दाल्भ्यपक्षमप्रतिष्ठादोषेण शालावत्यो निन्दित्वा स्वर्गस्यापि कर्मद्वारा हेतुरयं लोकः प्रतिष्ठेत्युवाच । तं शालावत्यस्य पक्षं 'अन्तवद्वै ते किल शालावत्यसाम' इति राजा निन्दित्वानन्तमेवाकाशं वक्ति । भूताकाशोक्तावन्तवत्त्वदोषतादवस्थ्यादित्यर्थः ।

नन्वाकाशोऽनन्त इति न श्रुतमित्याशङ्क्याह

तं चेति ।

उद्गीथ आकाश एवेति सम्पादनादुद्गीथस्यानन्तत्वादिकं न स्वत इति भावः । स उद्गीथावयव ओङ्कारः, एष आकाशात्मकः, परः रसतमत्वादिर्गुणैरुत्कृष्टः, अतोऽक्षरान्तरेभ्यो वरीयान् । श्रेष्ठ इत्यर्थः । परः इत्यव्ययं सकारान्तं वा, परः कृत्स्नमिति प्रयोगात् । परश्चासौ वरेभ्योऽतिशयेन वरः । परोवरीयानित्यर्थः ।

प्राथम्यात् , श्रुतत्वाच्चाकाशशब्दो बलीयानित्युक्तं स्मारयति

यत्पुनरिति ।

एवकारसर्वशब्दानुगृहीतानन्त्यादिबहुलिङ्गानामनुग्रहाय 'त्यजेदेकं कुलस्यार्थे' इति न्यायेनैकस्याः श्रुतेर्बाधो युक्त इत्याह

अत्र ब्रूम इति ।

आकाशपदाद्भूतस्यैव प्रथमप्रतीतिरिति नियमो नास्तीत्यपिशब्देन द्योतितम् । तत्र युक्तिमाह

दर्शितश्चेति ।

आकाशपदाद्गौणार्थस्य ब्रह्मणोऽपि प्रथमप्रतीतिरस्ति, तस्य तत्पर्यायाणां च ब्रह्मणि प्रयोगप्राचुर्यादिति भावः । अक्षरे कूटस्थे व्योमन् व्योम्नि ऋचो वेदाः सन्ति । प्रमाणत्वेन यस्मिन्नक्षरे विश्वे देवा अधिष्ठिता इत्यर्थः ।

ओङ्कारः कं सुखं ब्रह्म खं व्यापकमित्युपासीत । श्रुत्यन्तरप्रयोगमाह

खं पुराणमिति ।

व्याप्यनादि ब्रह्मेत्यर्थः । 'कं ब्रह्म खं ब्रह्म' इति छान्दोग्यम् , 'ओं खं ब्रह्म खं पुराणम्' इति बृहदारण्यकमिति भेदः । किञ्च तत्रैव प्रथमानुसारेणोत्तरं नेयम् , यत्र तन्नेतुं शक्यम् ।

यत्र त्वशक्यं तत्रोत्तरानुसारेण प्रथमं नेयमित्याह

वाक्येति ।

तस्मादुपास्ये ब्रह्मणि वाक्यं समन्वितमित्युपसंहरति

तस्मादिति ॥ २२ ॥