ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अत एव प्राणः ॥ २३ ॥
उद्गीथे — ‘प्रस्तोतर्या देवता प्रस्तावमन्वायत्ताइत्युपक्रम्य श्रूयतेकतमा सा देवतेति’ (छा. उ. १ । ११ । ४), प्राण इति होवाच, सर्वाणि वा इमानि भूतानि प्राणमेवाभिसंविशन्ति, प्राणमभ्युज्जिहते, सैषा देवता प्रस्तावमन्वायत्ता’ (छा. उ. १ । ११ । ५) इतितत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौप्राणबन्धनं हि सोम्य मनः’ (छा. उ. ६ । ८ । २) प्राणस्य प्राणम्’ (बृ. उ. ४ । ४ । १८) इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यतेवायुविकारे तु प्रसिद्धतरो लोकवेदयोःअत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयःकिं पुनरत्र युक्तम् ? वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम्तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचामननु पूर्ववदिहापि तल्लिङ्गाद्ब्रह्मण एव ग्रहणं युक्तम्इहापि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते, मुख्येऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात्एवं ह्याम्नायतेयदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः, यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्ते’ (श. ब्रा. १० । ३ । ३ । ६) इतिप्रत्यक्षं चैतत्स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते, प्रबोधकाले प्रादुर्भवन्तीतिइन्द्रियसारत्वाच्च भूतानामविरुद्धो मुख्ये प्राणेऽपि भूतसंवेशनोद्गमनवादी वाक्यशेषःअपि चादित्योऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्राणस्यानन्तरं निर्दिश्येते तयोर्ब्रह्मत्वमस्तितत्सामान्याच्च प्राणस्यापि ब्रह्मत्वमित्येवं प्राप्ते सूत्रकार आह

आकाशवाक्योक्तन्यायं तदुत्तरवाक्येऽतिदिशति

अत एव प्राणः ।

उद्गीथप्रकरणमिति ज्ञापनार्थमुद्गीथ इति भाष्यपदम् । उद्गीथप्रकरणे श्रूयत इत्यन्वयः । कश्चिदृषिश्चाक्रायणः प्रस्तोतारमुवाच, हे प्रस्तोतः, या देवता प्रस्तावं सामभक्तिमनुगता ध्यानार्थम् , तां चेदज्ञात्वा मम विदुषो निकटे प्रस्तोष्यसि मूर्धा ते पतिष्यतीति । ततो भीतः सन् पप्रच्छ, कतमा सा देवतेति । उत्तरम् , प्राण इति । प्राणमभिलक्ष्य सम्यग्विशन्ति लीयन्ते, तमभिलक्ष्योज्जिहते उत्पद्यन्त इत्यर्थः ।

अतिदेशत्वात्पूर्ववत्संशयादि द्रष्टव्यमित्युक्तं विवृणोति

प्राणेति ।

मनौपाधिको जीवः प्राणेन ब्रह्मणा बध्यते सुषुप्तावेकीभवति । प्राणस्य वायोः प्राणम्प्रेरकं तस्य सत्तास्फूर्तिप्रदमात्मानं ये विदुस्ते ब्रह्मविद इत्यर्थः ।

पूर्वेण गतर्थात्वात्पृथक्सूत्रं व्यर्थमिति शङ्कते

ननु पूर्ववदिति ।

अधिकाशङ्कानिरासार्थमतिदेशसूत्रमिति मत्वा शङ्कामाह

न । मुख्येऽपीति ।

तर्हि तदा चक्षुरप्येतीत्येवंप्रकारेण सर्वत्र सम्बन्धः ।

नन्वत्रेन्द्रियाणां प्राणे लयोदयौ श्रूयेते, तावता महाभूतलयादिप्रतिपादकवाक्यशेषोपपत्तिः कथमित्यत आह

इन्द्रियसारत्वादिति ।

'तस्य ह्येष रसः' इति श्रुतेः । इन्द्रियाणि लिङ्गात्मरूपाणि अपञ्चीकृतभूतानां साराणि तेषां लयाद्युक्त्या भूतानामपि प्राणे लयादिसिद्धेः वाक्यशेषोपपत्तिरित्यर्थः ।

अब्रह्मसहपाठाच्च प्राणो न ब्रह्मेत्याह

अपि चेति ।

उद्गातृप्रतिहर्तृभ्यामुद्गीथे प्रतिहारे च का देवतेति पृष्टेन चाक्रायणेनादित्योऽन्नं च निर्दिश्यते । 'आदित्य इति होवाच' 'अन्नमिति होवाच' इति श्रुतावित्यर्थः । सामान्यं सन्निधानम् । संनिध्यनुग्रहीतप्रथमश्रुतप्राणश्रुत्या मुख्यप्राणनिर्णये तद्दृष्ट्या प्रस्तावोपास्तिरिति पूर्वपक्षफलम् , सिद्धान्ते ब्रह्मदृष्टिरूपोपास्तिः । तस्याधिकरणस्यातिदेशत्वमेव पूर्वेण सङ्गतिरिति विभागः ।