ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अत एव प्राणः ॥ २३ ॥
अत एव प्राणःइतितल्लिङ्गादिति पूर्वसूत्रे निर्दिष्टम्अत एव तल्लिङ्गात्प्राणशब्दमपि परं ब्रह्म भवितुमर्हतिप्राणस्यापि हि ब्रह्मलिङ्गसम्बन्धः श्रूयतेसर्वाणि वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते’ (छा. उ. १ । ११ । ५) इतिप्राणनिमित्तौ सर्वेषां भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतःननूक्तं मुख्यप्राणपरिग्रहेऽपि संवेशनोद्गमनदर्शनमविरुद्धम् , स्वापप्रबोधयोर्दर्शनादितिअत्रोच्यतेस्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते, सर्वेषां भूतानाम्इह तु सेन्द्रियाणां सशरीराणां जीवाविष्टानां भूतानाम् , ‘सर्वाणि वा इमानि भूतानिइति श्रुतेःयदापि भूतश्रुतिर्महाभूतविषया परिगृह्यते, तदापि ब्रह्मलिङ्गत्वमविरुद्धम्ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबोधयोः प्राणेऽप्ययं प्राणाच्च प्रभवं शृणुमःयदा सुप्तः स्वप्नं कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येति’ (कौ. उ. ३ । ३) इतितत्रापि तल्लिङ्गात्प्राणशब्दं ब्रह्मैवयत्पुनरुक्तमन्नादित्यसन्निधानात्प्राणस्याब्रह्मत्वमिति, तदयुक्तम्वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतायां प्रतीयमानायां सन्निधानस्याकिञ्चित्करत्वात्यत्पुनः प्राणशब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वम् , तदाकाशशब्दस्येव प्रतिविधेयम्तस्मात्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम्

भवन्तीति भूतानीति व्युत्पत्या यत्किञ्चिद्भवनधर्मकं कार्यमात्रम् , तस्य लयोदयौ वायुविकारे प्राणे न युक्तावित्युक्त्वा भूतशब्दस्य रूढार्थग्रहेऽपि लयादेर्ब्रह्मनिर्णायकत्वमित्याह

यदापीति ।

भैतिकप्राणस्य भूतयोनित्वायोगादित्यर्थः ।

तस्य तद्योनित्वं श्रुत्याशङ्कते

नन्विति ।

अथ यदा सुषुप्तो जीवः प्राणे ब्रह्मण्येकीभवति तदा एनं प्राणं सविषयवागादयोऽपियन्तीत्यर्थः ।

अत्र जीवाभिन्नत्वे सर्वलयाधारत्वलिङ्गान्न मुख्यः प्राण इत्याह

तत्रापीति ।

वाक्यान्तरसंनिध्यपेक्षया स्ववाक्यगतंलिङ्गं बलीय इत्याह

तदयुक्तमिति ।

एकवाक्यत्वं वाक्यशेषः तस्य बलं तद्गतं लिङ्गं तेनेत्यर्थः ।

प्राणमेवेत्यवधारणेन सर्वभूतप्रकृतित्वलिङ्गेन च प्राणपदेन तत्कारणं ब्रह्म लक्ष्यमित्याह

तदाकाशशब्दस्येवेति ।