ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
अत एव प्राणः ॥ २३ ॥
अत्र केचिदुदाहरन्ति — ‘प्राणस्य प्राणम्’ ‘प्राणबन्धनं हि सोम्य मनःइति तदयुक्तम्; शब्दभेदात्प्रकरणाच्च संशयानुपपत्तेःयथा पितुः पितेति प्रयोगे, अन्यः पिता षष्ठीनिर्दिष्टात् प्रथमानिर्दिष्टः, पितुः पिता इति गम्यतेतद्वत्प्राणस्य प्राणम्इति शब्दभेदात्प्रसिद्धात्प्राणात् अन्यः प्राणस्य प्राण इति निश्चीयते हि एव तस्येति भेदनिर्देशार्हो भवतियस्य प्रकरणे यो निर्दिश्यते नामान्तरेणापि एव तत्र प्रकरणी निर्दिष्ट इति गम्यते; यथा ज्योतिष्टोमाधिकारेवसन्ते वसन्ते ज्योतिषा यजेतइत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति, तथा परस्य ब्रह्मणः प्रकरणेप्राणबन्धनं हि सोम्य मनःइति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत्अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम्प्रस्तावदेवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः ॥ २३ ॥

वृत्तिकृतामुदाहरणं संशयाभावेनायुक्तमित्याह

अत्रेत्यादिना ।

शब्दभेदमुक्त्वा प्रकरणं प्रपञ्चयति

यस्य चेति ॥ २३ ॥