ज्योतिश्चरणाभिधानात् । छान्दोग्यमेवोदाहरति
इदमिति ।
गायत्र्युपाधिकब्रह्मोपास्त्यानन्तर्यार्थोऽथशब्दः । अतो दिवो द्युलोकात्परः परस्ताद्यज्ज्योतिर्दीप्यते तद्यतदिदमिति जाठराग्नावध्यस्यते ।
कुत्र दीप्यते, तत्राह
विश्वत इति ।
विश्वस्मात्प्राणिवर्गादुपरि सर्वस्माद्भूरादिलोकादुपरि ये लोकास्तेषूत्तमेषु न विद्यन्ते उत्तमा येभ्य इत्यनुत्तमेषु सर्वसंसारमण्डलातीतं परं ज्योतिरिदमेव, यद्देहस्थमित्यर्थः ।
अस्य पूर्वेणागतार्थत्वं वदन्प्रत्युदाहरणसङ्गतिमाह
अर्थान्तरेति ।
अत्र स्ववाक्ये स्पष्टब्रह्मलिङ्गाभावेऽपि 'पादोस्य' इति पूर्ववाक्ये भूतपादत्वं लिङ्गमस्तीति पादसङ्गतिः । पूर्वोत्तरपक्षयोर्जडब्रह्मज्योतिषोरुपास्तिः फलमिति भेदः ।
नन्वज्ञानतमोविरोधित्वाद्ब्रह्मापि ज्योतिःपदशक्यतया प्रसिद्धमस्ति, नेत्याह
चक्षुरिति ।
शर्वर्यां रात्रौ भवं शार्वरम् । नीलमिति यावत् । अनेनावरकत्वाद्रूपवत्त्वाच्च कुड्यवद्भावरूपं तम इत्यर्थादुक्तं भवति ।
ज्योतिःश्रुतेरनुग्राहकलिङ्गान्याह
तथेत्यादिना ।
भास्वररूपात्मिका दीप्तिस्तेजस एव लिङ्गमित्याह
न हीति ।
मास्तु मर्यादेत्याशङ्क्य श्रुतत्वान्मैवमित्याह
परो दिव इति ।
मर्यादां ब्रूत इति शेषः ।
ब्रह्मवत्कार्यस्यापि मर्यादायोगान्निरर्थकं ब्राह्मणमिति कश्चिदाक्षिपति
नन्विति ।
एकदेशी ब्रूते
अस्त्विति ।
स्वर्गादौ जातं किञ्चिदतीन्द्रियं तेजो दिवः परस्तादस्ति, श्रुतिप्रामाण्यादित्यर्थः ।
अध्ययनविध्युपात्तश्रुतेर्निष्फलं वस्तु नार्थ इत्याक्षिप्य ब्रूते
नेति ।
ध्यानं फलमित्याशङ्क्य निष्फलस्य क्वापि ध्यानं नास्तीत्याह
इदमेवेत्यादिना ।
प्रयोजनान्तरं तमोनाशादिकम् ।
अत्रिवृत्कृतं तेजोऽङ्गीकृत्याफलत्वमुक्त्वा तदेव नास्तीत्याह
तासामिति ।
तेजोऽबन्नानां देवतानामेकैकं द्विधा विभज्य पुनश्चैकैकं भागं द्वेधा कृत्वा स्वभागादितरभागयोर्निक्षिप्य तन्त्रिगुणरज्जुवन्त्रिवृत्तं करवाणीत्यविशेषोक्तेर्नास्त्यत्रिवृत्कृतं किञ्चिदित्यर्थः । किञ्चात्र 'यदतः परः' इति यच्छब्देनान्यतः प्रसिद्धं द्युमर्यादत्वं ध्यानायानूद्यते
न चात्रिवृत्कृतस्य तस्य तत्क्वचित्प्रसिद्धमित्याह
न चेति ।
एकदेशिमते निरस्ते साक्षात्पूर्वपक्षी ब्रूते
अस्तु तर्हीति ।
प्रदेशविशेषः दिवः परस्ताद्देदीप्यमानः सूर्यादितेजोवयवविशेषः, तस्य परिग्रह उपसनार्थो न विरुद्ध्यत इत्यन्वयः । स एव कौक्षेये ज्योतिषि उपास्यते । तस्यापि तेजस्त्वादिति भावः ।
ब्रह्मणोऽपि ध्यानार्थं प्रदेशस्थत्वं कल्प्यताम् , नेत्याह
नत्विति ।
निष्प्रदेशस्य निरवयवस्य विशेषेऽपि दिवः परस्ताद्देदीप्यमानब्रह्मावयवकल्पना भागिनी युक्ता न त्वित्यन्वयः । अप्रमाणिकगौरवापातादिति भावः ।
ततः किम् , तत्राह
सारूप्येति ।
यथा एकत्वसाम्याद्भूरितिव्याहृतौ प्रजापतेः शिरोदृष्टिः श्रुता तथा जाठराग्नावब्रह्मत्वं घोषादिश्रुत्या प्रसिद्धमिति जडज्योतिष्ट्वं साम्यं वाच्यमित्यर्थः । यद्देहस्पर्शनेनौष्ण्यज्ञानं प्रसिद्धं सैषा तस्य जाठराग्नेर्दृष्टिः, यत्कर्णपिधानेन घोषश्रवणम् , सैषा तस्य श्रुतिरित्यर्थः ।
ज्योतिषो जडत्वे लिङ्गान्तरमाह
तदेतदिति ।
ज्योतिरित्यर्थः । चक्षुष्यश्चक्षुर्हितः सुन्दरः, श्रुतो विख्यातः ।
न चान्यदपीति ।
ब्रह्मलिङ्गमपि किञ्चिदन्यन्नास्तीत्यन्वयः ।
ननु 'त्रिपादस्यामृतं दिवि' इति पूर्ववाक्योक्तं ब्रह्मात्र ज्योतिःपदेन गृह्यतामित्याशङ्क्याह
न चेति ।
ननु सर्वात्मकत्वामृतत्वाभ्यां ब्रह्मोक्तमित्यत आह
अथापीति ।
कथञ्चिच्छन्दोद्वारेत्यर्थः । दिवि दिव इति विभक्तिभेदान्न प्रत्यभिज्ञेत्यर्थः । प्रकृतेर्जातं प्राकृतम् , कार्यमित्यर्थः ।