आचारं निरस्यति
पादेति ।
'गायत्री वा इदं सर्वं भूतम्' 'वाग्वै गायत्री' 'येयं पृथिवी' 'यदिदं शरीरम्' 'यदस्मिन्पुरुषे हृदयम्' 'इमे प्राणाः' इति भूतवाक्पृथिवीशरीरहृदयप्राणात्मिका षड्विधा षड्भिरक्षरैश्चतुष्पदा गायत्रीति । यदुक्तं तावान् तत्परिमाणः सर्वः प्रपञ्चोऽस्य गायत्र्यनुगतस्य ब्रह्मणो महिमा विभूतिः, पुरुषस्तु पूर्णब्रह्मरूपः, अतः प्रपञ्चाज्ज्यायानधिकः ।
आधिक्यमेवाह
पाद इति ।
सर्वं जगदेकः पादोऽंशः, 'विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' इति स्मृतेः । अस्य पुरुषस्य दिवि स्वप्रकाशस्वरूपे त्रिपादमृतं रूपमस्ति, दिवि सूर्यमण्डले वा ध्यनार्थमस्ति, कल्पिताज्जगतो ब्रह्मस्वरूपामनन्तमस्तीत्यर्थः । यथा लोके पादात्पादत्रयमधिकं तथेदमधिकमिति बोधनार्थं त्रिपादमृतमित्युक्तम् , न त्रिपादत्वं विवक्षितमिति मन्तव्यम् ।
'यदतः परः' इति यच्छब्दस्य प्रसिद्धार्थवाचित्वात्पूर्ववाक्यप्रसिद्धं ब्रह्म ग्राह्ममित्याह
तत्रेति ।
ननु 'यदाग्नेयोऽष्टाकपालः' इत्यत्र यत्पदस्याप्रकृतार्थकत्वं दृष्टमित्यत आह
तत्परित्यज्येति ।
तत्र यागस्यान्यतः प्रसिद्धेरभावेनापूर्वत्वादगत्या यदोऽप्रसिद्धार्थत्वमाश्रितम् । इह तु पूर्ववाक्यप्रसिद्धस्य ब्रह्मणो द्युसम्बन्धेन प्रत्यभिज्ञातस्य यदर्थत्वनिश्चयाद्यत्पदैकार्थकज्योतिःपदस्यापि स एवार्थ इत्यर्थः ।
सन्दंशन्यायादप्येवमित्याह
न केवलमिति ।
'सर्वं खल्विदं ब्रह्म' इत्युत्तरत्र ब्रह्मानुवृत्तेर्मध्यस्थं ज्योतिर्वाक्यं ब्रह्मपरमित्यर्थः ।
प्रकरणादिति ।
प्रकृतापेक्षयत्पदश्रुत्या द्युसम्बन्धभूतपादत्वादिलिङ्गैश्चेत्यर्थः । अतः प्रकरणाज्ज्योतिःश्रुतिबाधो न युक्त इति निरस्तम् ।
अविशेषकत्वादिति ।
ब्रह्मव्यावर्तकत्वाभावादित्यर्थः । येन चेतसा चैतन्येनेद्धः प्रकाशितः सूर्यस्तपति प्रकाशयति तं बृहन्तमवेदविन्न मनुत इत्यर्थः ।
ज्योतिःशब्दस्य कार्यज्योतिष्येव शक्तिरित्यङ्गीकृत्य कारणब्रह्मलक्षकत्वमुक्त्वा ब्रह्मण्यपि शक्तिमाह
यद्वेति ।
गाढान्धकारे वाचैव ज्योतिषा लोक आसनादिव्यवहारं करोतीत्यर्थः । आज्यं जुषतां पिबतां मनो ज्योतिः प्रकाशकं भवति इत्याज्यस्तुतिः ।
यथा गच्छन्तमनुगच्छतः स्वस्यापि गतिरस्ति तथा सर्वस्य स्वनिष्ठं भानं स्यादित्यत आह
तस्य भासेति ।
तत्कालानवच्छिन्नं ब्रह्म सूर्यादिज्योतिषां साक्षिभूतमायुरमृतमिति च देवा उपासत इत्यर्थः ।
योषितोऽग्नित्ववत्द्युमर्यादत्वादिकं ध्यानार्थं कल्पितं ब्रह्मणो युक्तमित्याह
अत्रोच्यत इत्यादिना ।
दिवः परमपीत्यन्वयः ।
आरोप्यस्य ध्येयस्यालम्बनस्य च सादृश्यनियमो नास्तीत्याह
परस्यापीति ।
भविष्यति ब्रह्मज्योतिष इति शेषः ।
'तं यथा यथोपासते तथा तथा फलं भवति' इति श्रुतेरित्याह
न हीयत इति ।
ज्ञानफलवदुपास्तिफलमेकरूपं किं न स्यादत आह
यत्र हीति ।
ज्ञेयैकत्वादित्यर्थः ।
ध्येयं तु नानेत्याह
यत्र त्विति ।
ईश्वरो जीवरूपेणान्नमत्तीत्यन्नादः अन्नस्यासमन्ताद्दाता वा वसु हिरण्यं ददातीति वसुदान इति गुणविशेषसम्बन्धं यो वेद स धनं विन्दते, दीप्ताग्निश्च भवति । नाम्नो वागुत्तमा, मनो वा प्रतीकं वाचो भूय इति प्रतीकविशेषध्यानश्रुतिसङ्ग्रहार्थमाद्यपदम् ।
संनिधेः श्रुतिर्बलीयसीति शङ्कते
कथं पुनरिति ।
अथ प्रथमश्रुत्यनुसारेण चरमश्रुतिर्नीयत इत्याह
नैष इति ।
सर्वनाम्ना स्वसामर्थ्येन स्वस्य सर्वनाम्नः सामर्थ्यं संनिहितवाचित्वं तद्बलेन परामृष्टे सतीति योजना । अर्थाद्यत्पदसामानाधिकरण्यादित्यर्थः ॥ २४ ॥