छन्दोभिधानाद्ब्रह्म प्रकृतं नास्तीति शङ्कामेकदेशी दूषयति
कथमिति ।
शङ्कां साधयति
नैतदित्यादिना ।
चतुष्पदत्वादिकं पूर्वमेव व्याख्यातम् ।
य एतामेवमिति ।
वेदरहस्यभूतां मधुविद्यामेवमुक्तरीत्या यः कश्चिद्वेद तस्योदयास्तमयरहितब्रह्माप्राप्तिर्भवतीत्यर्थः । तथाच वेदत्वाद्गायत्र्यां ब्रह्मशब्दो युक्त इति भावः ।
गायत्रीशब्देन तदुपादानत्वेनानुगतब्रह्मलक्षणायां बीजमनुपपत्तिमाह
न ह्यक्षरेति ।
ब्रह्मणोऽपि कथं सर्वात्मकत्वम् , तत्राह
कार्यं चेति ।
नच गायत्र्या ध्यानार्थं सर्वात्मत्वारोप इति वाच्यम् , स्वतः सर्वात्मनो ध्यानसम्भवेनासदारोपायोगादीति भावः ।
'तथाहि दर्शनम्' इति सूत्रशेषं व्याचष्टे
तथान्यत्रेति ।
दृश्यत इति दर्शनम् । दृष्टमित्यर्थः । एतं परमात्मानं बह्वृचा ऋग्वेदिनो महत्युक्थे शस्त्रे तदनुगतमुपासते । एतमेवाग्निरहस्ये 'तमेतमग्निरित्यध्वर्यव उपासते' इति श्रुतेः यजुर्वेदिनोऽग्नौ उपासते । एतमेव छन्दोगाः सामवेदिनो महाव्रते क्रतौ उपासत इत्यैतरेयके दृष्टमित्यर्थः ।
गायत्रीशब्दो ब्रह्मलक्षक इति व्याख्याय गौण इत्याह
अपर इति ।
साक्षादेव । वाच्यार्थग्रहणं विनैवेति यावत् । पूर्वं तूपास्यतया गायत्रीपदेनाजहल्लक्षणया गायत्रीब्रह्मणी द्वे अपि लक्षिते । नच गायत्री सर्वमित्यन्वयासम्भवः, घटो रूपीति पदार्थैकदेशे व्यक्तौ रूपान्वयवत् , गायत्रीपदार्थैकदेशे गायत्र्यनुगते ब्रह्मणि प्रधाने सर्वात्मकत्वान्वयसम्भवादिति भावः । तथाच सूत्रे सिद्धान्तभागस्यायमर्थः- तथा गायत्रीवच्चतुष्पात्वगुणसामान्यात् , चेतो ब्रह्मणि समर्प्यते येन स चेतोर्पणो गायत्रीशब्दस्तेन ब्रह्मण एव निगदादभिधानात् छन्दोभिधानमसिद्धमिति ।
अधुना 'तथाहि दर्शनम्' इति शेषं व्याचष्टे
तथेति ।
संवर्गविद्यायामाधिदैवमग्निसूर्यचन्द्राम्भांसि वायौ लीयन्ते, अध्यात्मं वाक्चक्षुःश्रोत्रमनांसि प्राणमपियन्तीत्युक्तम् । ते वा एते पञ्चान्ये आधिदैविकाः, पञ्चान्ये आध्यात्मिकास्ते मिलित्वा दशसङ्ख्याकाः सन्तः कृतमित्युच्यन्ते । सन्ति हि कृतत्रेताद्वापरकलिसंज्ञकानि चत्वारि द्युतानि क्रमेण चतुरङ्कत्र्यङ्कद्व्यङ्कैकाङ्कानि । तत्र कृतं दशात्मकं भवति, चतुर्ष्वङ्केषु त्रयाणां त्रिषु द्वयोर्द्वयोरेकस्य चान्तर्भावात् । तथाच दशत्वगुणेन वाय्वादयः कृतशब्देनोच्यन्ते ।
एवं कृतत्वं वाय्वादीनामुपक्रम्याह
सैषेति ।
विधेयापेक्षया स्त्रीलिङ्गनिर्देशः । विराट्पदं छन्तोवाचकम् , 'दशाक्षरा विराट्' इति श्रुतेः । दशत्वसाम्येन वाय्वादयो विराडित्युच्यन्ते । एवंच दशत्वद्वारा वाय्वादिषु कृतत्वं विराट्त्वं च ध्येयम् । तत्र विराट्त्वध्यानात्सर्वमस्यान्नं भवति, 'अन्नं विराट्' इति श्रुतेः । कृतत्वध्यानादन्नादो भवति, कृतद्यूतस्यान्नादत्वात् । कृतं हि स्वीयचतुरङ्गेषु त्र्यङ्कादिकमन्तर्भावयदन्नमत्तीव लक्ष्यते । अत एव कृतजयादितरद्यूतजयः श्रुत्युक्तः 'कृतायविजितायाधरेयाः संयन्ति' इति । अयो द्यूतम् , कृतसंज्ञोऽयः कृतायः स विजितो येन तस्मै, अधरेयास्त्र्यङ्कादयः अयाः संयन्ति उपनमन्ते । तेन जिता भवन्तीत्यर्थः । एवंच सा वाय्वादिदशात्मिका एषा कृतशब्दिता विराडन्नम् , कृतत्वादन्नादिनीत्यर्थः ।
सर्वथापीति ।
गायत्रीति पदस्य लक्षकत्वे गौणत्वेऽपि चेत्यर्थः । अत्रापर आहेत्यपरपदेन गौणत्वे स्वमतं नेति द्योतयति । अजहल्लक्षणापक्षे हि 'वाग्वै गायत्री' इति वागात्मत्वं गायति च त्रायते च इति निरुक्तनामकत्वं च गायत्र्या उपाधित्वेनोपास्यत्वादुपपन्नतरम् । गौणपक्षे गायत्रीत्यागात्तदुभयं सर्वात्मकत्वमात्रेणोपपादनीयम् । एवं गायत्रीपदस्य स्वार्थत्यागः, अप्रसिद्धचतुष्पात्त्वगुणद्वारा विप्रकृष्टलक्षणा चेति बह्वसमञ्जसम् ॥ २५ ॥